SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्री समय सुन्दरगणिकृता લ सा-लक्ष्मीः ते तव । शिवा-पार्वती क्क - कुत्र प्रेम धत्ते ? ० 'औ' ईश्वरे । कीदृक् पुमान् कं भजते - सेवते ? उ० 'खी अं' । खी - ज्ञानवान् । " अः स्यादर्हति" इति वचनात् जैनमते अं- अर्हन्तं वैष्णवमते अं-कृष्णं वा । सुसुखिनः - अत्यन्त सुखभाजो जनाः किं वदन्ति ? उ० 'राजा नो ददतेऽसौख्यम्' । राजा - यमो नः - अस्माकं असौख्यं ददते, अपहरणात् ॥ अर्थद्वयम् ॥ २ ॥ अथ पुनः प्रकारान्तरेण अर्धानाह ( राजाः नोदद ! ते सौख्यम् ) - हे नोदद ! - हे प्रेरणादायक ! ते तुभ्यं राजाः -२ :- सूर्यः अ[ज]:-ब्रह्मा अः कृष्णः, ततो द्वन्द्वे कृते राजाः सूर्य-ब्रह्म-कृष्णाः, एते त्रयोऽपि देवाः सौख्यं ददतामिति शेषः । असौख्यं वा ते तव ददतां इति शापवचनम् ॥ २ ॥ हे नोदद ! - प्रेरणखण्डक ! राजा - १० चन्द्रः अः- ईश्वरः आः - स्वयंभूः । ततो द्वन्द्वे कृते राजाः ते तुभ्यं तव वा सौख्यं असौख्यं वा ददताम् ॥ २ ॥ अर्थयोजना स्वयं कार्या । सर्वे० ॥ ४ ॥ पूर्वद्वयमीलने ॥ ६ ॥ पुनः पूर्वोक्त १०२१४०० मीलने १०२१४०६ ॥ पुनः पूर्वोक्त १००० सहस्रार्थमीलने जाताः १०२२४०६ ॥ संवति १६४९ प्रमिते श्रावणसुदि १३ दिन सन्ध्यायां 'कश्मीर' देशविजयमुद्दिश्य १५ श्रीराजश्रीरामदास वाटिकायां कृतप्रथमप्रयाणेन श्री अकव्बर पातिसाहिना जलाल (लुद्दी)दीनेन अभिजात साहिजातश्री सिलेमसुरत्राणसामन्तमण्डलिकराजराजिविराजितराजसभायां अनेकविधवैयाकरणतार्किक विद्वत्तमभट्टसमक्षं अस्मद्गुरुवरान् युगप्रधानखरतर भट्टारकश्री जिनचन्द्रसूरीश्वरान् आचार्यश्री जिन सिंहसूरिप्रमुख कृतमुखसुमुखशिष्यत्रात सपरिकरान् असमानसन्मानबहुमानदानपूर्व समाहूय अयमष्टलक्षार्थी ग्रन्थो मत्पार्श्वद् वाचयां - २० चक्रेऽवक्रेण चेतसा । ततस्तदर्थश्रवणसमुत्पन्नप्रभूतनूतनप्रमोदातिरेकेण सञ्जातचित्तचमत्कारेण बहुप्रकारेण श्रीसाहिना बहुप्रशंसापूर्व 'पठतां पाठ्यतां सर्वत्र विस्तार्यतां सिद्धिरस्तु' इत्युक्त्वा च स्वहस्तेन गृहीत्वा एतत् पुस्तकं मम हस्ते दत्त्वा प्रमाणीकृतोऽयं ग्रन्थः । अतः सोपयोगित्वात् श्रीसाहीनपि समुद्दिश्य अर्थमाहरोजा नः ददते सौख्यम् ॥ रा-पतिरथन्यायेन श्रीः तया उपलक्षितः अः - अकारः श्रीअः तथा अजो-ब्रह्मा सोऽपि पर्यायेण कः " को ब्रह्मा" इति (विश्वशम्भु० श्लो २१) उक्तत्वात् । ततः श्रीअपूर्वः कः श्री अकः । तथा 'अः शिवे केशवे वायौ” इत्यादि श्रीविश्वशम्भु ( श्लो० ५ ) वचनप्रामाण्यात् अः - वायुः, स च पर्यायेण "वो चाते वरुणे रुद्रे” इति सुधाकलश ( श्लो० ३९ ) वचनात् वः । ततः पूर्वमीलने श्रीअकवः । “यमक श्लेषचित्रेषु बवयोर्डलयोर्न मित्र" हृति २० १ अयं पाठः ख- पुस्तके नास्ति । २ रा-अ-अज-अ-भाः इति सन्धिविशेषे । अर्थ. ९ Jain Education International For Private & Personal Use Only २५ · www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy