SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६६ अर्थरत्नावली ( वाग्भटालङ्कारे श्लो० २० ) उक्तत्वात् वकारस्थाने बकारो गण्यः । ततः श्रीअकबः । ततः अः (?) अपरनामा आ-अग्निः, स तु पर्यायेण "रो ध्वनौ । तैक्ष्ण्ये वैश्वानरे कामे " इति ( काव्यकल्पलतायां तृतीयप्रताने चित्रप्रपञ्चे ) श्री अमरकविवचनात् रः । ततः सर्वमीलने सन्धौ च राजाः - श्री अकबरः नः - अस्मभ्यं सौख्यं - सुखं ददते । प्रजानामिति : ५ शेषः । प्रजानां च सुखदानं न्यायित्वात्, परमकृपापरत्वात् शुल्कादिमोचनकत्वात्, षड्रदर्शनीसन्मानदायकत्वात्, शत्रुञ्जयादिमहातीर्थरक्षाकारकत्वात्, श्रीजैनादिधर्मभक्तत्वात्, सर्वसम्मतत्वाच्च । अत्र श्रीसाहेरेव पद्यवन्धेन स्वकृतैव मया वर्णना लिख्यते Jain Education International न्यायो नीवृति सर्वतः प्रकटितः शुल्कं त्वया त्याजितं तीर्थस्थानवत्पथाश्च विहिताः षड्रदर्शनी प्रा (प्री ? ) णिता । गोरक्षादिकृते अमारिपटहो यद्दापितस्तत्प्रभो ! धर्मात् ते विजयः सदैव समरे लोकेऽपि धर्माज्जयः ॥ १ ॥ - शार्दूल० न्यायो नीवृति रामचन्द्रनृपतेर्दानं च कर्णप्रभोः > श्रीमद्विक्रमभूपतेरुपकृतिः श्रीपाण्डवानां जयः । सत्कीर्तिश्च नलस्य शस्तगुण इत्येकैक एवाभवद् दृश्यन्ते भवति प्रभो ! क्षितितले सर्वेऽपि ते साम्प्रतम् ॥ २ ॥ -,, संसारे यदपूर्व, वस्तु समस्तं तदस्ति ते द्वारि । अकबर ! परं त्वपूर्वी, न्यायो नो दृश्यते क्वापि ॥ ३ ॥ - आर्या दाने देवतरुः परोपकरणे श्रीविक्रमाधीश्वरो धैर्ये ‘मेरु’गिरिस्तथा जलनिधिर्गम्भीरतायां हरिः । ऐश्वर्ये सुमतौ बृहस्पतिरसौ देशोपमा दृश्यते नो जीवप्रतिपालने तव भुवि श्रीपातसाहिप्रभो ! ॥ ४ ॥ - शार्दूल० स्वमानरक्षणात् तुष्टो, रत्नराशिरदात् तव । त्रयोदश सुरलानि, विषं च तव वैरिणाम् ॥ ५ ॥ - अनु० अत्रत्या रक्षिताः सर्वे, साहिनाऽनिमिषास्ततः । स्तम्भा (१) न स्थातुमिच्छन्ति, दैत्यभीताः सुरा अपि ॥ ६ ॥ " दत्तं श्रीजिनचन्द्राणां श्री अकब्बर साहिना । सप्तभीतिहृते मन्ये, अमारिदिन सप्तकम् ॥ ७ ॥” १ कहयथाश्च' (?) इति ख- पाठः । अहो साहेरियं शक्ति-र्यद्गुरोरुपदेशतः । asमरपदं येन, स्वेच्छा सञ्चारिणामपि ॥ ८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy