________________
श्रीसमयसुन्दरगणिकृता इत्यादि । सर्वसम्मीलने जाता अर्थाः १०२२४०७ ॥ ___ अत्र अष्टलक्षेभ्योऽर्थेभ्यो यत् साधिकं लक्षद्वयमधिकं जातमस्ति तत् ये अर्था अष्टलक्षार्थीमध्ये केचन न सम्भवन्ति अर्थयोजनया वा न मिलन्ति तत्र स्थाने स्थाप्यम् । ततोऽष्टलक्षार्थी सम्पूर्णा अविघटा अविसंवादिनी च ज्ञेया । जाताः सर्वे अर्थाः अष्टौ लक्षाः ॥ ८०००००॥
॥ अथ प्रशस्तिः ॥ वर्धमानो जिनो जीयाद्, वर्धमानो गुणवजैः । तीर्थ यदीयमद्यापि, जागर्ति जगतीतले ॥१॥-अनु०
श्रीगौतमाद्या गणधारिवर्या
यच्छन्तु मे वाञ्छितमच्छवुद्धयः। यद्वाक्यमुक्ताफलदामराम
कुर्वन्ति कण्ठे कृतिनः प्रकामम् ॥ २॥-इन्द्रवंशा (?) श्रीहरिभद्रमुनीन्द्र-प्रमुखा मां पूर्वसूरयः पान्तु । . हृन्मञ्जूषामध्ये, यद्गुणरत्नानि धार्यन्ते ॥ ३ ॥-आर्या श्रीमद्देवाचार्याः, पूर्वाचार्याः प्रभूतगुणवर्याः । समभूवन् भवसागर-तारणवरतरणिचरणयुगाः ॥४॥-आर्या तस्य पट्टमलट्चक्रे, नेमिचन्द्राख्यसूरिराट् । यद्वचोऽमृतपानेन, प्रापुर्निजरतां नराः ॥५॥-अनु० तदनु द्योतविद्योती, सूरिझद्योतनोऽभवत् । उद्यद्विहारविख्यातः, प्रद्योतन इवाद्भुतः ॥ ६ ॥-अनु०. यकः शोधयामास वै सूरिमन्त्रं
गिरीन्द्राव॑दस्याद्भुते शृङ्गभागे। विधायाष्टमं सन्नमन्नागनाथ...... स्ततो वर्धमानाभिधः सूरिरासीत् ॥७॥-भुजङ्गप्रयातम् श्रीमहर्लभराजराजसदसि 'श्रीपत्तने' पत्तने . • वादं श्वेतपटैः प्रभूतकपटैः साकं सदा लम्पटैः। कृत्वा यः प्रकटीचकार वसतेर्मार्ग मनोहारिणं
सूरिभूरिजयो जिनेश्वरगुरुर्जातो जगद्विश्रुतः ।। ८॥-शार्दूल. १ 'सागरतारण' इति ख-पाठः, प्रो. पिटर्स रिपोर्टनाम्नि अन्ये चतुर्थविभागे (पृ० ६९) तु 'सागरतरणे परतरणचर' इति पाठः।
२ 'समतं भागनाथ' इति ख-ग-घ-पाठश्चिन्तनीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,