________________
अर्थरत्नावली
ते-तुभ्यं राजानो-नृपाः सौख्यं ददतामिति वन्धुवचनम् ॥ २॥ हे दद ! हे अ!-प्राणिन् ! ते-त्वया राजानो नृपाः सौख्यं नीयन्तां इति क्रियापदमाक्षेपात् सर्वत्र ग्राह्यम् । समर्थनयुक्तिः पूर्वोक्ता स्मरणीया ॥ ३ ॥ हे दद! हे अ!-प्राणिन् ! ते-तव राजानो-भवदीयनृपाः सौख्यं ददतामिति शेषः ॥ ४ ॥ हे दद! हे अ!-प्राणिन् ! ते राजानो-नृपाः ५ सौख्यं प्राप्नुवन्तु इत्यप्याशीर्वचनम् ॥ ५ ॥
(राजा नः अ! दद! ते सौख्यम् ।) हे दद ! हे अ!-प्राणिन् ! नः-अस्माभिर्हेतुभूतैः राजा ते-तव सौख्यं ददातु ॥६॥ हे दद ! हे अ!-प्राणिन् ! ते-तव राजा-त्वदीयो नृपः सौख्यं प्राप्नोतु इत्यप्या
शीर्वचनम् । कैः कृत्वा ? नः-अस्माभिः सेवकभूतैरिति गम्यम् ॥ ७ ॥ हे दद! ते-तव १० राजा नः-अस्मभ्यं सौख्यं ददातु ॥ ८॥ हे दद ! हे अ!-प्राणिन् ! ते-त्वया नः-वयं सौख्यं नीयामहे । किं० (त्वया)? 'राजा' नृपेण । व्युत्पत्तिः पूर्ववत् कार्या ॥९॥ हे दद! हे अ!-प्राणिन् ! ते-तव राजा नः-अस्मत् सौख्यं प्राप्नोतु ॥१०॥ हे दद! हे अ!-प्राणिन् ! ते-तव राजा नः-अस्माकं सौख्यं करोत्विति शेपः ॥ ११॥ हे दद ! हे अ!-प्राणिन् !
ते-त्वया न:-अस्माकं सौख्यं दातव्यमिति शेषः । किं० त्वया? 'राजा' नृपेण ॥ १२ ॥ १५ हे दद ! हे अ!-प्राणिन् ! ते-त्वया नः-अस्माकं सौख्यं कर्तव्यम् । किं० त्वया? 'राजा'
नृपेण ॥ १३ ॥ हे दद ! हे अ!-प्राणिन् ! ते-त्वया नः-अस्मत् सौख्यं प्राप्यताम् । किं० त्वया ? 'राजा' नृपेण ॥ १४ ॥
हे दद ! हे अ!-प्राणिन् ! ते-तुभ्यं राजा सौख्यं ददातु किं० राजा ? 'नः' बुद्धः । व्युत्पत्त्यादि सर्व पूर्ववत् । “नः पुनर्बन्धबुद्धयोः" इत्येकाक्षरनाममाला ॥१॥ हे दद ! २० ते-तव राजा सौख्यं ददातु । किं० राजा? 'नः' अवगततत्त्वः ॥ २॥' हे दद ! हे अ!
प्राणिन् ! ते-तव राजा-त्वदीयनृपः सौख्यं ददातु । किं० राजा ? 'नो' बुद्धः ॥ ४ ॥ एवं नञ्समासपूर्वेणापि अनशब्देनार्थचतुष्टयं पूर्ववत् कार्यम् । यथा-हे दद ! ते-तुभ्यं राजा सौख्यं ददातु । किं० राजा 'अनः' अवुद्धः-अनवगततत्त्वः, मूर्ख इति यावत् । अर्थयो
जनादिकमपि सर्व स्वयं कार्यम् ॥४॥ सर्वे पूर्वोक्तमीलने ॥२२॥ हे दद! हे अ!-प्राणिन् ! २५ ते-तुभ्यं राजा सौख्यं ददातु । किं० राजा? 'अनः' वन्धनरहितः । एवं पूर्ववदत्रापि ४
अर्थाः कार्याः॥४॥ जाताः ॥ २६ ॥ हे दद ! हे अ!-प्राणिन् ! ते-तुभ्यं राजा-नृपतिः सौख्यं ददातु । किं० राजा ? 'अनः' । “नकारः कीर्तितो ज्ञाने” इत्यादि (श्रीवरुचिकृते एकाक्षरनिघण्टके श्लो० २२) वचनात् ज्ञानरहितो जड इति यावत् । इत्यादि ४
अर्थाः पूर्ववदत्रापि कार्याः । पूर्वोक्तमीलने ॥ ३० ॥ एवं नसमासपूर्वेणापि दानदायक. ३. वाचिना ददपदेन समं ३० कार्याः । अर्थयोजनाऽपि स्वयं कार्या । व्युत्पत्त्यादि पूर्ववत् ।
, तृतीयार्थानिर्देशात् प्रतिभाति यदुतात्र पाठप्रपातः, परन्तु एतदाश्चर्यकारि यत् प्रतिचतुष्टयेऽप्येवम् । २ इत्यादिशब्देन 'नः श्रुतेऽपि परिकीर्तितः' इति ज्ञायते। ३ 'पूर्वोक्तितो ज्ञाने मीलने' इति ख-पाठः, "पूर्वोक्तनो ज्ञाने मीलने' इति गम्पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org