SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीसमयसुन्दरगणिकृता यथा हे दद! हे अ!-प्राणिन् ! राजानो-नृपाः ते-तव सौख्यं ददतामित्यादि ३० अर्थाः पूर्वोत्तरीत्या कार्याः । पूर्व३०मीलने जाताः ॥ ६० ॥ पुनः प्रकारान्तरेण अर्थानाहदं-पूजनं ददातीति ददः-धातूनामनेकार्थत्वात् पूजाकारकः अर्थाजिनप्रतिमादिपूजाकृत् कोऽपि भव्यजीवः तत्सं० हे दद! अ!-प्राणिन् ! राजानो-नृपाः ते-तव सौख्यं ५ ददतामित्यादि ६० अर्थाः पूर्ववदत्रापि पूजनदायकवाचिना ददपदेन केवलेन नसमासपूर्वेण च कार्याः । अर्थयोजनाऽपि स्वयं कार्या । सर्वे० ॥ १२० ॥ दो-दानशौण्डस्तद्वद् ददातीति ददः तत्सं० हे दद! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दानशौण्डदायकवाचिनाऽपि ददपदेन केवलेन नपूर्वकेण (च) कार्याः । सर्वे० ॥ देभ्यो-देवेभ्यो ददाति अर्थात् वल्यादि यच्छतीति ददः, तत्सं० हे दद ! हे अ!-प्राणिन् ! १० इत्यादि ६० अर्थाः देवदायकवाचिना ददपदेन के० नञ् कार्याः । सर्वे० ॥ २४० ॥ देन-दीप्त्या दानादि ददातीति ददः, वत्सं० हे दद ! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दीप्तिदायकवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ३००॥ दान्-क्षीणान् दयापरत्वात् दयते-पालयतीति यः सोऽपि ददः, तत्सं० हे दद! हे अ!-प्राणिन् ! (इत्यादि) ६० (अर्थाः) क्षीणपालकवाचिना ददपदेन (केव०) नझपूर्वेण च १५ कार्याः। सर्वे० ॥ ३६० ॥ दान-दानशौण्डान् ददते-पालयति यः सोऽपि ददः-कोऽपि सुराजा तत्सं० इत्यादि ६० अर्थाः दानशौण्डपालकवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ४२० ॥ दं-कलत्रं दयते-पालयति यः सोऽपि ददः, तत्सं० हे दद! हे अ!-प्राणिन् ! इत्यादि ६० (अर्थाः) कलंत्रपालकवाचिना ददपदेन केवलेन० कार्याः । सर्वे० ॥४८०॥२० दं-दानं द्यति-खण्डयति इति ददः अर्थाद् दाननिषेधकः कोऽपि पापमतिः, तत्सं० हे दद ! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः दाननिषेधकवाचिना ददपदेन के० नपू० कार्याः । सर्वे० ॥ ५४०॥ दं-पूजनं द्यति-खण्डयति सोऽपि ददः अर्थाद् भगवत्पूजानिषेधकः पापिष्ठः कश्चित्, तत्सं० हे दद ! हे अ!-प्राणिन् ! इत्यादि ६० अर्थाः पूंजननिषेधकवाचिना ददपदेन के० २५ नपू० कार्याः । सर्वे० ॥ ६००॥ दान्-क्षीणान् द्यति-खण्डयति सोऽपि ददः, कोऽपि महानिर्दयोऽतीव पापिष्ठः, तत्सं० हे दद ! हे अ!-प्राणिन् ! ६० अर्थाः क्षीणखण्डकवाचिना ददपदेन के० नञ्पू० कार्याः । सर्वे० ॥ ६६० ॥ दान-दानशोण्डान् द्यति-खण्डयति यः सोऽपि ददः अर्थाद् यः कोऽपि सु(कु)राजा. १ 'पूजानिषेधकः' इति ग-प-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy