________________
अर्थरन्नावली
[ अर्धाः १२-१६] रा अजा नो ददते सौख्यम् ॥ १२ ॥ रा-लक्ष्मीः नः-अस्माकं सौख्यं ददते । किं० रा? 'अजा' न जायते इत्यजा, शाश्वतीत्यर्थः । अर्थयोजना स्वयं कार्या सुधीभिः ॥ १२ ॥
राजा ना उ ददते असो खी अम् ॥ १३ ॥ . ५ "एते चतुर्दशापि स्वराः सम्बोधन-पादपूरण-भर्त्सना-मन्त्रण-निषेधेषु" इति श्रीबृहज्यासवचनप्रामाण्यात् 'उ' इति सम्बोधने । असौ-प्रत्यक्षो ना-पुमान् अं-परब्रह्म ददतेददाति । किं० ना? 'राजा' राजभिः-नृपैः आ-शोभा यस्य स राजा, राजभिः सेव्यत्वात् । पुनः किं० ना? 'खी' । “खमिन्द्रिये स्वर्गे व्योम्नि नृपे शून्ये सुखे संविदि" इति श्रीअमरकविवचनप्रामाण्यात् ख-सुखं ज्ञानं वा तद् अस्यास्तीति खी, सुखवान् ज्ञानवान् १० वा इत्यर्थः ॥ १३ ॥
राजाव नो ददते सौख्यम् ॥ १४ ॥ रेण-रङ्गेण अजां-गलस्तनी वृश्चति-छेदयतीति राजावृट् तं राजावृश्चं आचष्टे-स्तीतीति 'णिज्बहुलं नाम्नः कृगादिषु' (सिद्ध० अ० ३, पा० ४, सू० ४२) इति णिजि, ‘णेरनिर्टि' (सिद्ध० अ०४, पा० ३, सू० ८३) इति णिज्लुकि क्विपि तल्लुकि च राजा-अजा१५ हन्तृस्तुत् कोऽपि पापिष्ठमतिः नो-न सौख्यं ददते, हिंसाकारकनरस्तोतृत्वात् । अत्र
'व्योः' (सिद्ध० अ० १, पा० ३, सू० २३) इति सूत्रेण वलोपे राजानो ददते सौख्यमिति रूपसिद्धिः। यदाहुः श्रीहेमसूरिपादाः-व्योः अवर्णात् परयोः पदान्तस्थयोर्षययोर्घोषवति परे लुक् स्यात् स च असन्धिः । वृक्षश्चं अव्ययं च आचक्षाणो वृक्षव्
अव्यय वृक्षयाति अव्ययाति । एवमेतत्सूत्रेण अग्रेऽपि सति प्रयोजने वययोर्लोपः २० कर्तव्यः ॥१४॥
राजाय नो ददते सौख्यम् ॥ १५ ॥ रा-रमा-लक्ष्मीः जाया-भार्या यस्य स राजायः श्रीकृष्णा, लक्ष्मीभार्यत्वात् , तं राजायं-कृष्णं आचष्टे-सेषकत्वात् स्तोतीति णिजि तल्लुकि विपि तल्लुकि च राजाय-कृष्णस्तोता । न:-अस्मभ्यं सौख्यं ददते । इदं वैष्णववचनम् । अत्रापि 'व्योः' (सिद्धा २५ अ० १, पा० ३, सू० २३) इति सूत्रेण यलोपे कृते राजा नो ददते सौख्यमिति रूपसिद्धिः । एवमग्रेऽपि । शेषं पूर्ववत् ॥ १५ ॥
र! अजाय नो ददते सौख्यम् ॥ १६ ॥ "ः स्मरे तीक्ष्णे विश्वानरे शब्दे रामे वजे नरे” इति सुधाकलशवचनात् है र!-हे नर!। न विद्यते जाया-स्त्री यस्य सः अजायः-स्त्रीरहितः। उपलक्षणत्वात् ख्यादि.
"र: कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६॥ रामे वज्रे च शन्दे स्यात्" इति सुधाकलशैकाक्षरनाममा. लिकायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org