________________
[अर्थाः ४-११] श्रीसमयसुन्दरगणिकृता
रा अजा नो ददते सौख्यम् ॥ ४-८॥ "रा रमा रमणी बाला" इति (विश्वशम्भु)वचनाद् रा-रमणी न:-अस्मभ्यं सौख्यं ददते । फिविशिष्टा रा? 'अजा' । “अजश्छागे हरे विष्णौ, रघुजे वेधसि स्मरे" इति हैमानेकार्थ( श्लो० ८० )वचनात् अजं-हरं १ विष्णुं २ रघुजं ३ ब्रह्माणं ४ स्मरं ५ वा । अटति अतति-गच्छतीति अजा-पार्वती १ लक्ष्मीः २ इन्दुमती ३ ५ सावित्री ४ रतिश्च ५। इदं तत्तद्भक्तानां वचनम् । अर्थाः ५ सर्वे ॥ ४-८॥
राज! आः नो दद! ते सौख्यम् ॥ ९॥ "रा रमा रमणी बाला"इति (विश्व०)वचनाद् रा-लक्ष्मीः । ततः "जश्च जेतरि जनने विगते" इति सुधाकलश(श्लो० १८)वचनात् जः-जननं यस्य स राजः कन्दर्पः लक्ष्मीनाममातृजातत्वात् । तत्सम्बोधनं हे राज!-हे कन्दर्प! । “आः सन्तापको... पयोः" इति तिलकानेकार्थवचनात् आ इति कोपे । ते-तुभ्यं सौख्यं-सुखं नो-न, अस्तु इति शेषः । तव सुखं माऽस्तु इत्यर्थः । यतः हे दद! "दं कलत्रम्” इति सुधाकलश(श्लो० २५)वचनात् दं-कलत्रं द्यति-खण्डयति-पीडयतीति ददः, अवलासन्तापकारक इत्यर्थः । तत्सम्बोधनं हे दद!। इदं कान्तविरहे कामपीडितायाः कामिन्याः कामं प्रति आक्रोशदानवचनम् ॥ ९॥
१५ रा आजा नः अददत ईसौख्यम् ॥ १०॥ "आ स्वयम्भूः" इति श्रीअमरकविवचनात् आ-ब्रह्मा ततो जा-जाता आजाश्रीसरस्वती देवीत्यर्थः । नः-अस्माकं अस्मभ्यं वा ईसौख्यं-लक्ष्मीसौख्यं अददत-अदतेत्यर्थः। फिविशिष्टा आजा? 'रा' राजते-दीप्यते-शोभते । 'क्वचिड्डः' (सिद्धहेमे अ०५, पा० १, सू० १७१) इति डप्रत्यये अपि च रा ।। १० ॥
राजा नो ददते सौख्यम् ॥ ११ ॥ ___ “रं जले रङ्गवेगयोः" इति विश्वशम्भुवचनात् रेण-रङ्गेण अजेन-छागेन वाहनरूपेण अजति-गच्छतीति राजा-अग्निः, छागवाहनत्वात् नो-न सौख्यं ददते-ददाति, दाहकत्वात् । अथवा नः-अस्माकं सौख्यं-सुखं ददते, रन्धनशीताद्यपहारकत्वेन परमोपकारकत्वात् ॥ ११ ॥ विग्रह इति । पुनः स कीदृशः? येन सुधाविभागार्थ शिवमोक्षार्थ वा बलिजिच्चासौ कायश्चेति पुरा स्वीकृतः-श्रीभावं प्रापितः । पुनः कीदृशः? यः अग-गोवर्धननामगिरि गां-पृथ्वीं च अधारयत्-दधे । पुनः कोशः? यः अन्धेभगाधे के-जले क्षयं-गृहं करोतीति, विष्णुर्जलशायीति प्रसिद्धिः। पुनः कीदंशः? भमरा यस्य इति स्तुत्यं नाम माहुः । इतीति किम् ? शशिमच्छिरोहर इति, शशिनं-चन्द्रं मनातीति शशिमत्-राहुः तस्य शिरोहरतीति सः । पुनः कीशः? उद्धृत्तो भुजङ्गहा-रुडो यस्य सः, तथा रवे-परब्रह्मणि लयः-एकाग्रता यस्य सः अथवा भकार. प्रक्षेपं कृत्वा भरं-सुदर्शनमामचक्रं वलयं यस्य सः ।
भयमोलेखः श्रीसुधाकलशमुनीशकतैकाक्षरीनाममालिकाया आधारेण सूचितः । २ भत्र द्वौ अधों पृथग शेयो न वेति प्रभः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org