________________
अर्थरनावली
[अर्थस्तृतीयः] ददते, प्राणिनामिति शेषः, सर्वदैव सर्वेषां सौख्यदानात् । किंविशिष्ट आ ? 'राजा' राजते-दीप्यते विश्वव्यापिप्रभाभिरिति राजा । इदमपि श्रीसूर्यसेवकानामेव वचनम् ॥२॥ अथ पुनः प्रकारान्तरेण श्रीब्रह्मविष्णुशिवदेवानाश्रित्यार्थमाह
रा-अज-अ-अ नः अददत ईसौख्यम् ॥ ३॥ ५ "रा रमा रमणी वाला” इति विश्वशम्भुवचनात् रा तत्पर्यायत्वात् श्रीः। तथा
अजः-ब्रह्मा । “अः कृष्ण" इति श्रीअमरवचनात् अः-श्रीकृष्णः । तथा “अः शिवे केशवे वायौ, ब्रह्मचन्द्राग्निभानुषु" इति विश्वशम्भुवचनप्रामाण्यात् अः-शिवः । ततः अजश्च अश्च अश्च अजाः । (रया-) श्रिया उपलक्षिता अजाः (राजा:-) श्रीअजाःश्रीब्रह्मविष्णुशिवाख्यास्त्रयोऽपि देवाः नः-अस्माकं, “ईः श्रीः" इति श्रीअमरकविव१० चनप्रामाण्यात् ई:-श्रीः तस्याः तत्सम्बन्धि वा सौख्यं-सुखं ईसौख्यं ऋद्धिसौख्य मिति __यावत् अददत-अदुरित्यर्थः । इदं तत्तत्सेवकानां वचनम् ।
___ अत्र राशब्दो व्यवधानेन श्रीप्रतीतिकृदपि श्लेपचित्रादित्वात् न दोषभाक् । यथा- "येन ध्वस्तमनोभवेन वलिजित्कायः पुराऽस्त्रीकृतो
यश्चोद्वत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः॥१॥"-शार्दूलविक्रीडितम् इत्यादि । एवमग्रेऽपि सति प्रयोजनेऽनुसतव्यम् ॥ ३॥ .. 'यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः' इति पाठः सुभाषितरत्नभाण्डागारे। २ 'सोऽच्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः' इत्यपि पाठः सुभाषितरत्नभाण्डागारे।
३ इदं कूटकाव्यं तस्मादस्य टिप्पणकं दीयते, हरपक्षे यथा-स उमाधवः-पार्वतीपतिः त्वां सर्वदा-सदा पापात्रक्षतु । स किंभूतः? यो गङ्गामधारयत् येन बलि जितवानिति बलिजित्-विष्णुः तस्य काय:-शरीरं पुरा-त्रिपुरवधकाले अस्त्रीकृतः-अनत्वेन सम्पादितः। किंभूतेन येन? 'ध्वस्तमनोभवेन' वस्त:-क्षपितः मनोभवः-रतिपतिर्येन स तेन । पुनः किंभूतः सः । 'यश्चोत्त०' हाराश्च वलयानि च हारवलयम्, उदृत्ताच ते भुजङ्गाश्च उत्तभुजङ्गाः, ते हारवलयं यस्य सः, उद्वृत्तभुजङ्गाः-सर्पाः हारः-कण्ठाभरणं वलय-कटकं भुजभूषणमित्यर्थः । पुनः स किंभूतः? यस्य शिरः-मस्तकं 'शशिमत्' शशी-चन्द्रोऽस्ति यस्मिन् तत् शशिमत् । पुनः स किंभूतः यस्य स्तुत्यं-प्रशंसनीय नाम-अभिधानं अमरा-देवा इति आहुः-अकथयन् । इतीति किम् ? हर इति-महादेव इति । पुनः स किंभूतः? स्वयं-भारमना अन्धकनामा देत्यः तस्य क्षयकरः-अन्तकृत् । हरिपक्षे यथा
येन ध्वस्तमनो भवेन बलिजिस्कायः पुरा स्वीकृतो
यशोवृत्तभुजङ्गहा रवलयोऽगं गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ॥ १॥ सर्व-समस्तं ददाति-यच्छतीति सर्वदः स माधवः-लक्ष्मीपतिः मा-लक्ष्मीः तस्या धवः-पतिः माधवः स्वा पायात्-अवतु । स कः? येन भवेनेत्युत्पन्नमात्रेण पृतदेहेनेत्यर्थः, अनः-शकटाकृतिर्दानवः ध्वस्तं-अधानि, अथवा अकारमशेष करवा अभवेनेति घोरसंसारसमुद्रे पूर्वकर्मानुसारेण न विद्यते भवो-जन्म यस्य स तेन कृष्णलीलामृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org