SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठि-देवचन्द्र-लालभाइ-जैनपुस्तकोद्धार-प्रन्थाके श्रीसमयसुन्दरगणिकृता ॥अर्थरत्नावली॥ (अष्टलक्षार्थीत्यपरनानी) श्रीसर्वज्ञाय नमः । श्रीसूर्यः श्रेयसे भूयाद्, भक्तितत्परभूस्पृशाम् । यस्य नामसहस्रस्य, जापः पापहरो भवेत् ॥ १॥-अनुष्टुप् सान्निध्यं कुरुताद् ब्राह्मी-देवता वरदायिनी । सेवका यत्प्रसादेन, साधयन्तीप्सितं फलम् ॥ २ ॥-अनुष्टुप "राजानो ददते सौख्यं” इति श्लोकैकपादस्य मया निजबुद्धिवृद्धिनिमित्तम् अर्थाः १. क्रियन्ते । तत्र प्रथमं श्रीसूर्यदेववर्णनमाद्द राजा नो ददते सौख्यम् ॥ १॥ "सावित्रीभाविता राजा, विसृजो विघृणो विराट् । सप्तार्चिः सप्ततुरगः, सप्तलोकनमस्कृतः ॥१॥"-अनुष्टुप् इति श्रीस्कन्दपुराणे श्रीसूर्यसहस्रनामान्तर्भणितत्वाद् राजा-श्रीसूर्यः नः-अ-१५ स्माकं सौख्यं-सुख-ददते-ददाति । इदं श्रीसूर्यदेवताभकजनानां वचनम् ॥ १॥ पुनः प्रकारान्तरेण श्रीसूर्यदेवस्यैव वर्णनमाह राजा आ नो ददते असौख्यम् ॥ २॥ "शब्दः पावके सूर्ये, धर्मे दाने धने पुमान् । आ अरौ अर एतानि, अरं चारौ श्च शसि ॥१॥"-अनुष्टुप् । इति श्रीविश्वशम्भुवचनप्रामाण्यात् आ-सूर्यः-श्रीआदित्यदेवः, "अमानोनाः प्रतिपेधे” इति (एकाक्षरी)वचनात् नो-न असौख्यं न सौख्यं असौख्यं, दुःखमित्यर्थः, तत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy