________________
[ अर्थः ८५ ]
श्री समय सुन्दरगणिकृता
निकायवत्सलत्वात् तत्सम्बोधनं हे अदद ! । पुनः चित्रादित्वात् विन्दुलोपे हे असौख्य ! आत्-अर्हतः तीर्थङ्करात् सकाशात् सौख्यं - मुखं यस्य सः असौख्यस्तत्सम्बोधनं असांख्य ! । अत्र राशब्दो दीप्तौ ज्ञेयः । तथाच श्रीजय सुन्दरोदाहरणम् -'तरां तस्य ' तस्य तत्त्वस्य ज्ञानस्य वा रां-दीप्तिम् । तशब्दस्तत्त्वे ज्ञाने चास्ति । राशब्द आकारान्तो दीप्तौ च वर्तते इत्यादि । अत्र ओ इति एकाक्षरत्वेन पदैकदेशोऽपि पदप्रतीतिजनको ज्ञेयः । ५ दृश्यते च इत्थं यथा अप्रशिख इत्यस्य व्याख्याने ।
"अनेन तव पुत्रस्य, प्रसुप्तस्य वनान्तरे ।
शिखामाक्रम्य पादेन, खड्गेन निहतं शिरः ॥ १ ॥ " इति । यथा वा ""मिच्छामि दुक्कडं” इत्यस्य व्याख्यायाम्“मित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । मित्ति य मेराइ (ऍ) ठिओ, दुत्ति दुगुंछामि अप्पाणं ॥ १ ॥ कत्ति कडं मे पावं, उत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कड - पयक्खरत्यो समासेणं ॥ २ ॥”
१ अस्य काव्यस्य प्रत्येकपादप्रारम्भिकाक्षरसंयोजनेन अप्रशिखेति निष्पत्तिः ।
२ मिथ्या मे
'दुष्कृतम् ।
१ छाया
- ( आवश्यकनिर्युक्तौ गा० ६८६ - ६८७ )
तथा श्री आवश्यक बृहद्वृत्तावपि “मित्ति मिउमद्दवत्ते" इत्यादि । एवमनेकग्रन्थ- १५ संवादः स्वयं ज्ञेयः सुधीभिः । अक्षराणामपि च वाचकत्वं न चेत् तेषु समुदाये कथं स्यात् सिकतासु तैलवत् इत्यादि ॥ ८४ ॥
राज अना - उत्! अदते ! सौख्यम् ॥ ८५ ॥
"नः पुनर्बन्धबुद्धयोः” इति वचनात् न विद्यते नो-वन्धः कर्मबन्धनं यस्याः यस्यां वा अना - निष्पापा एवंविधा उद्-भाषा यस्य सः अनोत् । 'विशेषणाद् विशेष्यप्रतीति' रिति २० साधुः, निरवद्यभाषत्वात्, तत्सम्बोधनं हे अनोत् ! - हे साधो ! । त्वमिति क्रियाक्षिकर्तृत्वे । राज- दीप्तिं प्राप्नुहि । सौख्यं यथा स्यात् तथा, क्रियाविशेषणमेतत् । “क्रियाविशेषणस्यापि, सकर्माकर्मधातुषु ।
नपुंसकत्वमेकत्वं, कर्मकत्वं च युज्यते ॥ १ ॥”
'मि' इति मृदुमार्दवस्वे 'छ' च इति दोषाणां छादने भवति । 'मि' इति च मर्यादायां स्थितः 'दु' इति जुगुप्सामि आत्मानम् ॥ १॥ 'क' इति कृतं मया पापं 'ड' इति च लयामि तद् उपशमेन । एष मिथ्यादुष्कृतपदाक्षरार्थः समासेन ॥ २ ॥
४ हारिभद्रीयवृतौ ।
Jain Education International
प
१
For Private & Personal Use Only
१०
२५
www.jainelibrary.org