________________
अर्थराखाली
[अौँ ८६-८७ 'राज(ऋग्) दीप्तौ इत्यस्य धातोरुभयपदित्यत् परस्मैपदम् । उदाहरणमपि नैषध. काव्ये (स० १, श्लो० १०)
"अनल्पदग्धारिपुरानलोज्वलै-निजप्रतापर्वलयं ज्वलद्भुवः ।।
प्रदक्षिणीकृत्य जयाय सृष्टया, रराज नीराजनया स राजघः॥१॥" ५ हे अदते ! "दो दाने पूजने क्षीणे" इत्याधुकत्वात् न दा-न क्षीणा प्रोता तिः-पूजा यस्य सः अदतिः, तत्सम्बोधनं हे अदते ।। इति पञ्चपरमेष्ठिन आश्रित्यार्था उक्ताः ॥ ८५॥
__ अथ पुनरपि प्रकारान्तरेण श्रीआदिदेव १ श्रीशान्तिनाथ २ श्रीनेमिनाथ३श्रीपार्श्वनाथ ४ श्रीमहावीराभिध५ तीर्थङ्करपश्चकसञ्जातपश्चतीर्थीमाश्रित्यार्था लिख्यन्ते । १. तत्र प्रथमं श्रीआदिदेववर्णनमाह
र! अज! (अ!) न! उत् अद! ते सौख्यम् ॥८६॥ अजो-ब्रह्मा पङ्किरथन्यायेन नाभिभूः । तथा त्वमपि नाभिभूः, नाभिनामनृपजातत्वात्, तत्सम्बोधनं हे अज! हे श्रीआदिदेव! ते-तव उत्-भाषा अर्थाद् व्याख्यानध्वनिः सौख्यं सौख्यहेतुरित्यर्थः । हे र! "रः सूर्येऽग्नौ धने कामे" इति १५विश्वशम्भुवचनात् हे सूर्य !, भव्यजीवराजीवराजीनां विकासहेतुत्वात् । पुनः हे अ!
“अस्थादर्हति सिद्धे च” इति वचनात् हे अर्हन् ! । पुनः हे न! “नः पुनर्योधबुद्धयोः" इति वचनात् हे बुद्ध!-हे अवगततत्त्व! । पुनः हे अद! “अः शिवे केशवे वायौ, ब्रह्मच. न्द्राग्निसानुषु" इति विश्वशम्भुवचनात् अः ब्रह्मा अग्निर्वा तद्वत् "दो दाने पूजने क्षीणे,
दानशौण्डे च पालके। देवे दीप्तौ" इति विश्वशम्भुवचनाद् दो-दीप्तिर्यस्य सोऽदः २. पीतवर्णत्वात् आदिदेवस्य तत्सम्बोधनं हे अद!॥
- नन्वत्र चतुस्त्रिंशदतिशयसङ्ग्राहकातिशयचतुष्टयमध्ये कोऽतिशयः केन पदेनोच्यते सूच्यते वा इत्यभिधीयते । उदिति पदेन वचनातिशयः सूचितः॥१॥ तथा 'अ' इति पदेन च पूजातिशयः । 'अ' इति पदस्य अर्हति चतुःषष्टिसुरेन्द्रकृतां पूजामिति अर्हन्निति पर्यायव्युत्पत्तेः ॥२॥ तथा नेति पदेन च ज्ञानातिशयः ॥३॥ स चापायापगमातिशयमन्तरेण न २५ सम्भवति । अतो ज्ञानातिशयेन अपायापगमातिशयोऽप्याक्षिप्तः ॥ ४ ॥ इति अतिशयचतुष्टयमपि अत्रेदं ज्ञेयम् । इति आदिदेववर्णनेन प्रथमोऽर्थः ॥ ८६ ॥
रा-अजा नो ददते असौ खी अम् ॥ ८७॥ अजं-मेष मेषराशिं अटति-गच्छति इति अजाः शान्तिः, मेषराशित्वात् । ततः । सोमसौभाग्येऽपि (स० १, श्लो० ३५)
"राजन्ति यत्र जिनराजगृहेषु पञ्च-वर्णाचिरवमणिरवसुतोरणानि ।
एनोजयाद् विजयलक्ष्मिवृतस्य धर्म-भूपस्य मालकृते किमु सजितानि " १ एवंदू विश्वशम्भुवचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org