________________
अर्थरत्नावली
[अर्थाः ७९-८४] राजाव नो ददते सौख्यम् ॥ ७९-८० ॥ रे-अग्नौ अजाः-त्रैवार्षिका व्रीहयः तान् अवति-दहतीति राजाव-वहौ त्रिवार्षिकश्रीहिहोता ताचष्टे णिजादिविधौ राजाव् नः-अस्माकं सौख्यं ददते । इदं याज्ञिक
जनवचनम् । अथवा नो-न सौख्यं ददते । दुःखं ददातीत्यर्थः । इदं तद्विरुद्धजनवचनम् । ५वलोपादिः पूर्ववत् ॥ ८० ।।
अथ प्रकारान्तरेण श्रीजैनमतप्रसिद्धान् अर्हत् १ सिद्ध २ आचार्य ३ उपाध्याय४ साधु ५ रूपान् पश्चपरमेष्ठिनः स्तुवन्नाह
राजा अःनो ददते सौख्यम् ॥ ८१॥ "अः स्यादर्हति सिद्धे च विष्णावपि" इति वचनात् अ-अर्हन् नः-अस्मभ्यं सौख्यं १० ददते । किंविशिष्टः अः? 'राजा' स्वामी, त्रिजगत्प्रभुरित्यर्थः । इदं जैनवचः॥ ८१॥
राजा नो ददते सौख्यम् ॥ ८२॥ राजन्ति-सिद्धिशिलायां दीप्यन्ते 'क्वचित्' (सिद्ध० अ०५, पा० १, सू० १७१) डे राः। तथा जायन्ते-पुनरुत्पद्यन्ते ते जाः, न जाः अजाः-जन्ममरणरहिताः। अजाः-सिद्धाः। ततो राश्च ते अजाश्च राजाः न:-अस्माकं सौख्यं ददते । इदं जन्ममरणादिदुःखखिन्ननर• १५वचनम् ॥ ८२॥
राजा आः नो ददते सौखी अम् ॥ ८३ ॥ "आः स्याद् गणधारिणि" इति वचनात् आः-आचार्यः नः-अस्माकं अं-परब्रह्म ददते । किं० आः ? 'राजा' रञ्जयति अमृतस्राविण्या सन्देहसन्दोहकाननकृपाण्या स्याद्वा
दवाण्या सभामिति राजा । पुनः किं ? 'सौखी' सुखानां संसारविरक्तिरूपाणां समाहारः २. सौखं तदस्यास्तीति सौखी ॥ ८३ ॥
राज! आन् ! ओ! अदद! ते असौख्यम् ! ॥ ८४॥
रिति पदैकदेशे पदसमुदायात् उः-उपाध्यायः तत्सम्बोधनं हे ओ!-हे उपाध्याय! ते-तव रा-दीप्तिः, भवत्विति शेषः । हे ज! "जस्तु जेतरि” इति (विश्व०)वचनात् हे
प्रतिपक्षजेतः! । पुनः हे आन् ! आ-सामस्त्येन नो-ज्ञानं येभ्यस्तानि आनानि-शा२५ स्त्राणि, शास्त्रेभ्य एव ज्ञानोत्पादात् अर्थात् द्वादशाङ्गरूपाणि तानि आचष्टे-अर्थतः पाठ
यतीति णिजादिविधौ आन् तत्सम्बोधनं हे आन् ! | पुनः हे अदद!। अतन्ति-गच्छन्तीति अतः-प्राणिनः तेषु तेषां वा न विद्यते दो-बन्धः छेदो वा यस्मादसौ अददः, षड्जीव
. समीक्ष्यतां द्वादशं पृष्ठम् । २ अवलोक्यतां पञ्चदशं पृष्ठम् । ३ 'नो ज्ञानबन्धनयोः' इति सुधा० १९ (लो०२०)। ४ 'दाने दातरि दा केचिद् विदुर्दा छेदबन्धयोः' इति सुधा० (को० २५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,