SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [ अर्थाः ५७-७८ ] श्री समय सुन्दरगणिकृतां राजावू नो ददते सौख्यम् ॥ २५७-६३ ॥ " रा रमा रमणी वाला” इति (विश्व०) वचनाद् रा-रमा-लक्ष्मीः तस्या आजंक्षेपं - तिरस्कारं अवति - ददातीति राजावः - लक्ष्मीतिरस्कारदाता तं आचष्टे - स्तौतीति राजाव् नः-अस्माकं सौख्यं ददते । एवं असौख्यं च ददते । अर्थयोजना वलोपादिः पूर्ववत् ॥ २ ॥ एवमेव रमणीवाचकेन वालावाचकेन च राशब्देन समं आजाव्शब्देन च समं ५ सौख्यासौख्यपदद्वयं मीलयित्वा अर्थचतुष्टयं कार्यम् । व्युत्पत्त्यादि सर्व पूर्ववत् । अत्र अवधातुर्दानार्थो ज्ञेयः । तथा चोदाहरणं श्रीजय सुन्दर सूरिकृतार्थे - अं - परब्रह्म तत्र सीदन्तीति अंसदः - सिद्धाः तेषां आ-लक्ष्मीः नमतांसदा तां अवति - ददातीत्येवंशीलः नमतांसदावी इत्यादि ॥ ६३ ॥ राजावू नो ददते सौख्यम् ॥ ६४-६७ ॥ रस्य - स्मरस्य आज - तिरस्कारं अवति - ददातीति राजाव-ईश्वरः तमाचष्टे - स्तौतीति राजाव - ईश्वरस्तोता नः - अस्माकं सौख्यं ददते । असौख्यं च ददते । इदं तद्विधानामतद्विधानां च वचनम् । वलोपादिः पूर्ववत् । एवं वह्निवाचकेन नरवाचकेन च रशब्देन समं आजाव्शब्दे सौख्यासौख्यपदद्वयं च मीलयित्वा अर्थचतुष्टयं कार्यम् । वलोपादिः पूर्ववत् ॥ ६७ ॥ राजावू नो ददते सौख्यम् ॥ ६८ ॥ राजा - यमः अर्थात् मरणं तस्माद् अवति-रक्षतीति राजावः- मरणरक्षको भगवद्धर्म इत्यर्थः, तमाचष्टे इति राजावू नः - अस्माकं सौख्यं ददते । इदं धर्मिष्ठजनवचः । वलोपः पूर्ववत् ॥ ६८ ॥ राजाव् नो ददते सौख्यम् ॥ ६९-७६ ॥ राज्ञां - चन्द्र - नृप-यक्ष- यमानां आं-शोभां वृश्चन्ति - छेदयन्तीति राजवृश्वो-राहुप्रमुखाः ४ तान् आचष्टे - स्तौतीति राजावू ४ नः - अस्माकं सौख्यं असौख्यं च ददते । अर्थ योजना वलोपादिः पूर्ववत् । अत्र विस्तरान्वेषिणा पृथक् पृथक् अष्टौ अर्थाः कार्याः ॥ ८ ॥ ७६ ॥ १० Jain Education International १५ २० -राजा ! नो ददते सौख्यम् ॥ ७७-७८ ॥ २५ रावं - शब्दं करोतीति राव् एवंविधः कोऽपि शब्दकारकः । हे जाः ! - हे जेतृपुरुषाः ! मो - न ददते सौख्यम् । अनिष्टशब्दस्य ( जनस्य ) वचनमेतत् १ | एवं राव्-शब्दकारकः नो-न ददते असौख्यम् २ | इदमिष्टशब्दस्य जनस्य वचनम् । वलोपादिः पूर्ववत् ॥२॥७८॥ For Private & Personal Use Only १' असौख्यं ' इति अर्थान्तरे, अग्रेऽपि प्रस्तावे एवंविधा संयोजना कार्या । २ अत्र पढर्था दरीदृश्यन्ते तथाप्यादर्श पुस्तकेषु अर्थसप्तकसूचकसंज्ञा समस्ति तद् विचारणीयं विद्वद्भिः । ३ अर्थषट्कस्थाने आदर्शपुस्तकेषु तु ३० चत्वारोऽर्था गणिताः, तदपि चिन्त्यम् । अर्थ. २ www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy