________________
५
३.६
अर्थरत्नावली
राजानः अददत 'ईसौख्यम् ॥ ६६२-६६३ ॥
राजानो-नृपाः ईसौख्यं-लक्ष्मीसौख्यं इसौख्यं - कामसौख्यं च अददत- अदुरित्यर्थः ॥ २ ॥ सर्वे ० ॥ ६६३ ॥
२०
राजानः ! दद तेसौख्यम् ॥ ६६४ ॥
हे राजानः ! - हे नृपाः ! यूयमिति क्रियासामर्थ्याद् गम्यम् । 'तेसौख्यं दद' तालक्ष्मीः इः- कामः तयोः सौख्यं तेसौख्यं दद- अदद्ध्वमित्यर्थः । अत्र ददेति परोक्षामध्यमपुरुषबहुवचने रूपम् । एवमग्रेऽपि ज्ञेयम् । सर्वे० ॥ ६६४ ॥
र-अ-अः जा ! नो ददते "सौख्यम् ? ॥ ६६५–६६६ ॥
हे जाः - हे जेतृपुरुषाः ! र अर्थात् अग्निदेवः अः - कृष्णः अः - गरुडः । ततो द्वन्द्वे १० कृते राः - अग्नि-विष्णु-गरुडाख्या देवाः नो-न सौख्यं सुखं ददते ? अपि तु ददते इत्यर्थः । एवं नो-न असौख्यं ददते ॥ २ ॥ सर्वे० ॥ ६६६ ॥
राजानः ! अददत 'इसौख्यम् || ६६७-६७२ ॥
हे राजानः । हे चन्द्रमसः ! भवन्त इति शेषः क्रियासामर्थ्याद् गम्यः इसौख्यं - - कामसौख्यं अददत - अदुरित्यर्थः । संयोगिनीनामिति शेषः ॥ १ ॥ एवं ईसौख्यं - लक्ष्मीं १५ (लक्ष्मीसुखं) अददत | देवत्वेन स्वसेवाजुषां लक्ष्मीसौख्यदानत्वात् तेषाम् । अत्र चन्द्रसां बहुत्वं जैनमतमाश्रित्य -
[ अर्थाः ६६२-६७२ ]
“दो ससि दो रवि पढमे दुगुणा लवणम्मि धाइय ( यई ?) संडे । वारस ससि वारस रवि तप्पभिइ निद्दिट्ठससिरविणो ॥ १ ॥ तिगुणा पुलिजुया अणंतराणंतरम्मि खित्तम्मि | काठोए वायाला विसत्तरी पुक्खरद्धमि ॥ २ ॥”
इत्यादिप्रकारेणासङ्ख्येयत्वं चन्द्रमसाम् ॥ सर्वे० ॥ २ ॥ एवं हे राजानः ! - हे यक्षाः ! भवन्त इति शेषः ईसौख्यं इंसौख्यं वा अददत, अदुरित्यर्थः ॥ २ ॥ अर्थयोजना स्वयं कार्या । एवं हे राजानः ! - हे यमाः ! भवन्तः ईसौख्यं १ इसौख्यं वा २ अददत ? अपि नेत्यर्थः ॥ एवं ||४|| सर्वे० ॥ ६७२ ॥
१ छाया
Jain Education International
द्वौ शशिनो द्वौ रवी प्रथमे द्विगुणा लवणे धातकीखण्डे । द्वादश शशिनो द्वादश स्वयः तत्प्रभृति निर्दिष्टशशिरवयः ॥ त्रिगुणाः पूर्वीययुता अनन्तरानन्तरे क्षेत्रे । कालोदधौ द्विचत्वारिंशद् द्वासप्ततिः पुष्करार्धे ॥
२ 'कुया' इति ख- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org