________________
[ अर्धाः ६५४-६६१ ] श्रीसमयसुन्दरगणिकृता
इत्यादि ॥ ४ ॥ एवं राजा-चन्द्रो नः-अस्मभ्यं १ अस्माकं २ वा अं-पर० ददते । किं. १ 'खी' ख-सुखं देवसम्बन्धि अस्यास्तीति खी । इदं रोहिण्या वचनम् ॥ २॥ पू० ६॥ असौ राजा-चन्द्रः चन्द्रग्रहः नो-न अं-पर० ददते । किं०? यतः 'खी' खं-निन्दा अयं पापिष्ठो मां पीडयति इत्यादिरूपा यस्य स खी। द्वितीयचतुर्थपञ्चमाष्टमनवमद्वादश इत्यर्थः । द्वितीयादिचन्द्रो हि कृते अशुभे लोकैनिन्द्यते । यदुक्तं रनकोशे
"जन्मस्थः कुरुते पुष्टिं, द्वितीये नास्ति निर्वृतिः । तृतीये राजसन्मानं, चतुर्थे कलहागमः ॥ १ ॥ पञ्चमेऽर्थपरिभ्रंशः, पष्ठे धान्यधनागमः। सप्तमे राजपूजा च, अष्टमे प्राणसंशयः॥२॥ नवमे कार्यहानिः स्यात् , सिद्धिश्च दशमे भवेत् ।
एकादशे जयो नित्यं, द्वादशे मृत्युमादिशेत् ॥ ३॥" ॥७॥ एवं राजा-यक्षः असौ-प्रत्यक्षः नः-अस्मभ्यं १ अस्माकं २ वा आराधितः इति अर्थवशात् गम्यम् अं-पर० ददते । किं०? खी-सुखवान् । इदं यक्षदीयमानपरब्रह्मणां यक्षसेवकानां वचनम् ॥ २॥ पू०७मी० ॥९॥ असौ राजा-यक्षो अनाराधित इति शेषः अं-पर० नो-न ददते । किं.? 'खी' पूर्ववत् ॥१॥ पूर्व ९मी० ॥१०॥ सर्वे० ॥ ६५३ ॥१५
र-अज-आ नः अददत ईसौख्यम् ॥ ६५४-६५७ ॥ र:-कामः अजो-हरः आ-ब्रह्मा, ततो द्वन्द्वे कृते राजाः- कन्दपेश्वरब्रह्माणः । एते त्रयोऽपि देवाः नः-अस्मभ्यं १ अस्माकं २ वा ईसौख्यं इसौख्यं च-लक्ष्मीसौख्यं कामसौख्यं च अददत-अंदुरित्यर्थः । अत्र 'डुदाञ् दाने' (पा० धा०१०९१) इत्यस्य धातोरात्मनेपदविवक्षायां अनद्यतनीविषये प्रथमपुरुषवहुवचने अददत इति रूपम् । एवमग्रेऽपि विज्ञे- २० यम् । अर्थाः ॥ ४ ॥ सर्वे० ॥ ६५७ ।।
रे-अज-आ नः अददत ईसौख्यम् ॥ ६५८-६६१ ॥ रो-रविः अजः-स्मरः अः-कृष्णः, ततो द्वन्द्वे कृते राजाः-रवि-स्मर-कृष्णाः नःअस्मभ्यं १ अस्माकं २ वा 'ईसौख्यं अददत-अदुरित्यर्थः ॥२॥ एवं हे र!-हे अग्निदेवते! अजाः-छागाः, हुता इति शेषः, न:-अस्मभ्यं १ अस्माकं २ वा "ईसौख्यं-स्वर्गादिसौख्यं २५ राज्यादिसौख्यं वा अददत-अदुरित्यर्थः । पूर्वमी० ॥ ४ ॥ इदं अग्निहोत(त्रि?)वाक्यम् । तेषां हि अयं अभिप्रायः-अजादिहोमात् स्वर्गादिसुखं प्राप्यते ॥४॥ सर्वे० ॥ ६६१ ।।
'रम्भकोशे' इति ख-पाठः। २ अर्थान्तरे तु 'र! मजाः नः०' इति पाठः । ३-४-५ 'इसौख्यम्' इति
ख-पाठः।
भनेन विद्धन सूच्यते यदुतार्थान्तरे ईकारस्थाने इकारः इकारस्थाने ईकारो वा ज्ञेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org