SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३४ अर्थरत्नावली [ अर्थः ६४४] ___ एवं नो-न अं-परब्रह्म परब्रह्मसदृशं सौख्यं ददते । शेपं पूर्ववत् । इदं कृष्णस्य द्वारिकागमने विरहव्याप्तवृन्दावनवर्तिगोपाङ्गनावचनम् ॥३॥ अत्र चित्रादित्वात् विसर्गलोपो न दोषाय ॥ ३ ॥ सर्वे० ॥ ६४३ ॥ राजा नो ददते असौ खी अम् ॥ ६४४ ॥ ५ असौ राजा-नृपः नः-अस्मभ्यं १ अस्माकं २ वा अं-परब्रह्म ददते । किं० ? - 'खी' खं-संविदस्यास्तीति खी । इदं ज्ञानिराजदीयमानपरब्रह्मणो नरस्य वचनम् ॥१॥ एवं असौ राजा अं-पर० नो-न ददते यतः। किं.? खी-ज्ञानी। इदं जडवचनम् । ज्ञानिनो हि गुणान् ज्ञानिन एव जानन्ति, न तु अतद्विधा अज्ञानिनः । अतो मूर्खाणां ज्ञानिनो न सौख्यप्रदाः । यदुक्तं श्रीचम्पूकथायाम् "जानन्ति हि गुणान् वक्तुं, तद्विधा एव तादृशाम् । वेत्ति विश्वम्भरा भारं, गिरीणां गरिमाश्रयम् ॥१॥" इति ॥२॥ असौ नः-अस्माकं राजा-अस्मत्स्वामी अं-पर० ददते । भक्तानामिति गम्यम् । किं० १ 'खी' ज्ञानी, अर्थादुत्पन्नकेवलज्ञानः । इदं कोपि स्विकस्वामिनं अङ्गीकृतसंयमभारं १५ ततः समुत्पन्नकेवलज्ञानं सममालोक्य अवादीत् ॥३॥ एवं असौ राजा-यमो नो-न अंपर० ददते। किं० ? 'खी' खं-वितर्कः किममुं नरादिकं संहरामि किममुमित्यादिरूपो विद्यते यस्मिन् यस्य वा स खी। यमस्य हि प्राणिप्राणसंहरणस्वभावत्वात् परब्रह्मदानं कुतः । इदं यमापह्रियमाणनरवचनम् ॥ ४ ॥ असौ राजा-यमो नः-अस्मभ्यं १ अस्माकं २ वा अं-पर० ददते ? अपि तु नेत्यर्थः इति काक्का व्याख्येयम् । यतो हि परो लक्षोपा२० यैर्निजजीवितरक्षणकृते क्रियमाणैरपि यमो जनादि हरत्येव । यदुक्तम् “चदत यदीह कश्चिदनु सन्ततसुखपरिभोगलालितः प्रयतनशतपरोऽपि विगतव्ययमायुरवाप्तवान् नरः । न खलु नरसुरौघसिद्धविद्याधरकिन्नरनायकोऽपि यः सोऽपि कृतान्तदन्तकुलिशाक्रमणकशितो ने नश्यति ॥१॥ नश्यति नौति यति वितनोति करोति रसायनक्रियां चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदीर्यते ॥२॥" , 'समालोक्य' इति क-पाठः। २ 'नश्यति' इति ख-पाठः। ३ 'यतति' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy