________________
[ अर्थाः ६३८-६४३ ]
श्रीसमयसुन्दरगणिकृता
३३
इति श्रीविश्वशम्भु ( श्लो० २४ - २५ ) वचनात् खं सुखं तस्य भावः ख्यं, सुखत्वमित्यर्थः । असौ - कृपाणे सति ददते । वैरिणामिति शेषः । अपि तु न ददते इति काकुवचनम् ॥१॥ एवं राजा-नृपः नो-न असौ-कृपाणे सति ख्यं -सौख्यत्वं ददते, वैरिणामिति शेषः ॥२॥
।
एवं राजा-नृपो नः - अस्मभ्यं १ अस्माकं २ वा असौ - कृपाणे (सति) ख्यं - सुखत्वं ददते । कोऽर्थः ? यावद् राजा सशस्त्रः तावत् शत्रुभ्यो भयाभावेन अस्माकं सदा ५ सौख्यमेवेति भावः ॥ २ ॥ पूर्वोक्त २ मीलने ॥ ४ ॥
एवं असौ - प्रत्यक्षो राजा - नृपो नः - अस्मभ्यं १ अस्माकं २ न ३ वा ददते । अर्ययोजना स्वयं कार्या ॥ ३ ॥ पूर्वोक्त ४ मीलने ॥ ७ ॥ सर्वे० ॥ राजा नो ददते असौ खी अम् ॥ ६३८- ६४० ॥
असौ राजा । खीति विशेषणात् स्वामी इन्द्रो नः - अस्मभ्यं १ अस्माकं २ (वा) "अं मान्तो ब्रह्मसंवादे, परब्रह्मप्रवाचकः ॥
व्यसने व्याधिते व्याधौ, ज्ञानविज्ञानवन्दने ।”
इति विश्वशम्भु (श्लो० १९-२० ) वचनात् अं- परब्रह्म ददते, परब्रह्मसदृशं सौख्यं ददातीत्यर्थः । किं० ? 'खी' खे - स्वर्गे तिष्ठतीति खी । इदं स्वर्गाधिपसन्मानितसुरवचनम् ||२||
एवं असौ राजा अर्थवशात् यादवेशः खी-सुखी सन् अं-कृष्णं नो-न ददते । इदं १५ कंसवधानन्तरं जरासन्धराज्ञा कृष्णे याचिते सति वलमानं जरासन्धं प्रति गतप्रत्यागत निजपुरुषवचनम् || १ || सम्वन्धश्चान्यशास्त्रान्तरादवसेयः ॥ ३ ॥ सर्वे० ॥ ६४० ॥ राजा नो ददते अः सौखी अम् ॥ ६४१-६४३ ॥
ख्यं - सौख्यत्वं
६३७ ॥
अः - कृष्णः नः - अस्मभ्यं १ अस्माकं २ वा अं- परब्रह्म ददते । किं० ? 'राजा' स्वामी पुनः 'सौखी' सुखसमाहारयुक् ॥ १ ॥ एवं अः - कृष्णः अं ददते । किं० ? 'राजा' । पुनः २० नो- न सौखी असौखी-सुखसमाहारवियुक्तः, प्राप्तकष्टस्थितिरित्यर्थः । भगवतो हि श्रीनारायणस्य दशावतारान्तर्गतमी नावतारस्य शङ्खदैत्यापहृत वेदोद्धारपरायणस्य पातालगमने प्राप्तकष्टत्वात् । यदुक्तं खण्ड प्रशस्त काव्ये -
"मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्कष्टुतिः पुच्छाच्छोटसमुच्छलज्जलभरप्राग्भाररितोदधेः ।
Jain Education International
पातालावटमध्य सङ्कटतया पर्याप्तकष्टस्थिते
वेदोद्धारपरायणस्य सततं नारायणस्य प्रभोः ॥ १ ॥ " - शार्दूल०
इत्यादि । अत्रत्यसम्बन्धस्त्वैन्यशास्त्रान्तरादव सेयः । मया तु ग्रन्थविस्तर भीत्या न लिखितः । इदं शङ्खदैत्यान्तकरणानन्तरं वेदे वालिते निजसेवकजनवचनम् ॥ २ ॥
१ अन्यशब्दचिन्त्यः । २ 'युक्तः' इति ग घ पाठः । ३ अन्यशब्दश्चिन्त्यः । अर्थ. ५
१०
For Private & Personal Use Only
२५
www.jainelibrary.org