SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [ अर्थाः ६७३-६९७ ] श्री समय सुन्दरगणिकृता राजानोऽददत ई सौख्यम् ॥ ६७३ ॥ राजानो - नृपाः ई-लक्ष्मी च पुनः सौख्यं सुखं अददत ॥ १ ॥ एवं राजानो - नृपाः ईकामं सुखं (सौख्यं ?) यथा स्यात् तथा अददत | धातूनामनेकार्थत्वात् प्रमदाजनं कामवन्तं कृतवन्त इत्यर्थः । अत्र चित्रादित्वादनुस्वारागमनगमनयोर्न विशेषः । यदवादि (श्रीवाग्भटैः) श्रीवाग्भटालङ्कारे ( श्लो० २० ) - “यमक-श्लेष-चित्रेषु, ववयोर्डलयोर्न भित् । नानुस्वार - विसर्गों तु, चित्रभङ्गाय सम्मतौ ॥ १ ॥ " इत्यादि । एवमग्रेऽपि । नन्वत्र चशब्दस्य कथमसतोऽपि ग्रहणम् ? सत्यमाह भवान् ।, तथापि महाग्रन्थान्तरे प्रयोगदर्शनात् युक्तम् । यदुक्तं श्री हेमबृहद्वृत्तिसारोद्धारकक्षपुढे "येथा अहर्नयमानो, गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति, सुराया इव दुर्मदी ||१|| " ॥ ६७३ ॥ राजानोऽददत ई सौख्य ! ॥ ६७४-६८५ ॥ हे सौख्य !-सौख्यसौख्यवतोरभेदोपचारात् हे सौख्यवत्पुरुष ! राजानो - नृप्राः १२. चन्द्राः २ यक्षाः ३ यमाः ४ वा ई-लक्ष्मीं इं-कामं वा अददत । शेषं पूर्ववत् ॥ ८ ॥ एवं १५ई इति इ इति वा पादपूरणे । राजानो - नृपाः १ चन्द्राः २ यक्षाः ३ यमाः ४ सौख्यं - सुखः अददत | अर्थयोजना० । पूर्वोक्त ८ मीलने ॥ १६ ॥ सर्वे ० || ६८५ ॥ राजानः ! दद तेसौख्य ॥ ६८६-६८९ ॥ ३७ हे राजानः ! - हे नृपाः ! १ चन्द्राः ! २ यक्षाः ! ३ यमाः ! ४ वा । यूयमिति शेषः । 'तेसौख्यं' ता-लक्ष्मीः इः - कामः तयोः सौख्यं तेसौख्यं दद इति ४ । अर्थयोजना स्वयं १०० विधेया ॥ ४ ॥ सर्वे ० ॥ ६८९ ॥ राजा नो ददत 'ईसौख्यम् ॥ ६९० - ६९५ ॥ जा- जेतारः पुरुषाः नः - अस्मभ्यं १ अस्माकं २ वा नो-न वा ३ ईसौख्यं लक्ष्मीसौख्यं १ इसौख्यं - कामसौख्यं २ वा अददत ॥ ६ ॥ अर्धयोजना स्वयं० । किं० १ “रा राजन्त इति राः । सर्वे० ॥ ६९५ ॥ राजाः ! नो दद तेसौख्यम् ॥ ६९६-६९७ ॥ Jain Education International १ 'यथाहयर्तयमानो' इति ख- पाठः । ५ हे जाः ! यूयं सौख्यं - लक्ष्मीकामसुखं नो-न दद । अथवा नो-न दद अपितुः अदध्वमित्यर्थः । अर्थयो० २ । किं० १ 'राः' पूर्ववत् । सर्वे० ॥ ६९७ ॥ २ अर्थान्तरे 'सौक्ष्यं' इति पृथक् पदं ज्ञेयम् । For Private & Personal Use Only २५ www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy