________________
[ अर्थाः ५७३-६२० ] श्रीसमयसुन्दरगणिकृता जेयम् । सन्धी कृते च रूपसिद्धिः इत्येवंरीत्या स्वयं ३१ अर्थाः कार्याः। अर्थयो । मया तु विस्तर भीत्या न विस्तरतया लिखिताः । जाताः ॥ ६१ ॥ सर्वे० ॥ ५७२ ॥
र! अजा नो ददते सौख्यम् ॥ ५७३-५८४ ॥ र:-अग्निः तत्सम्बोधने हे र! अर्थादधिष्ठानाधिष्ठात्रोरभेदोपचाराद् वा हे अग्न्यधिछायकदेवते!, हे अग्निदेवते ! इत्यर्थः । अजाः-छागाः हुता इति अर्थसामर्थ्याद् गम्यम् , ५ न:-अस्मभ्यं १ अस्माकं २ वा सौख्यं-स्वादिसुखं ददते । इदं अग्निहोतृवाक्यम् । एवं असौख्यं ददते । इदं तद्विपरीतानां वचनम् ॥ ४॥ एवं नो-न सौख्यं ददते ॥५॥ एवं नोन असौख्यं ददते ॥ ६ ॥ शेषं पूर्ववत् । अर्थयोजना स्वयं कार्या ॥६॥
एवं “अजस्त्रैवार्षिको ब्रीहिः” (अनेका० श्लो० २१ इति) धनञ्जयी(य)कोशाभिधा नात् अजाः-त्रैवार्षिका व्रीहयः इति त्रिवार्षिकत्रीहिवाचिनाऽपि अजशब्देन समं पूर्ववत् १० पडर्थाः कार्याः ॥ ६॥ यथा-हे र!-हे अग्निदेवते ! अजास्त्रैवार्षिका व्रीहयो नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । अर्थयोजना स्वयं कार्या । एवमन्येऽपि अर्थाः कार्याः । अथवा प्रकारान्तरेण अर्थाः कार्याः । तथाहि-हे र!-हे नर! अजाः-त्रैवार्षिका व्रीहयो नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं केनचिद् वैगुण्येन येषां त्रैवार्षिका ब्रीहय एव रोचन्ते नान्यत् धान्यं तेषां वचनम् । एवं असौख्यं ददते तद्विपरीतानाम् ॥ ६ ॥१५ उभयमीलने जाताः ॥ १२॥ सर्वे० ॥ ५८४ ॥
- रा-अजा नो ददते सौख्यम् ॥ ५८५-६२० ॥ __ "अजो विष्णौ रघूद्भवे । विरश्चे मन्मथे रुद्रे, मेपे” इति तिलकानेकार्थवचनात् रा-श्रीः, ततः रया-श्रिया उपलक्षिताः अथवा रापूर्वकाः अजाः राजाः, श्रीकृष्णाः इत्यर्थः। नःअस्मभ्यं १ अस्माकं २ वा सौख्यं ददते । इदं वैष्णववचनम् ॥२॥ एवं असौख्यं द-२. दते । इदं कालनेमि-हयग्रीव-शकटा-ऽरिष्टदैत्यादीनां वचनम् । जाताः ॥ ४ ॥ एवं नो-न सौख्यं असौख्यं च ददते इति ॥ २॥ अर्थों । शेषं पूर्ववत् । जाताः ॥ ६॥
एवं राजाः । व्युत्पत्त्यादि पूर्ववत् । रघूद्भवाः अजाभिधाना राजानो नः-अस्मभ्यं १ अस्माकं २ वा सौख्यं १ असौख्यं २ च ददते-प्रयच्छन्ति । इदं तन्मित्राणां तच्छत्रूणां च वचनम् । एवं ६ अर्थाः कार्याः ॥ जाताः ॥ १२ ॥
२५ एवं राजाः-श्रीब्रह्माणः १ श्रीकामदेवाः २ ईश्वराश्च इत्यर्थवाचिनाऽपि राजशब्देन समं षट् षडाः ६ कार्याः । जाताः ॥१८॥ पूर्वाक्त १२ मीलने ॥३०॥
एवं हे र!-हे नर! अजाः-छागाः गलस्तन्यो वान:-अस्मभ्यं १ अस्माकं २वा सौख्यं असौख्यं च ददते । नो-न सौख्यं असौख्यं च ददते । इदं अजापालानां तद्विपरीतानों
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org