________________
१५
३०
अर्थरत्नावली इति डे रः तत्सं० हे र!। पुनः हे दत!। व्युत्पत्त्यादि पूर्ववत् ॥१॥ एवं ईसौख्यं अजक्षिप, दूरीकुरु इत्यर्थः । इदं श्रीकृष्णं प्रति प्रतिबोधसमये यतीश्वरवचनम् ॥ २॥ एवं "ईभुवि श्रियाम्" इति तिलकानेकार्थवचनात् ईसौख्यं-पृथ्वीसौख्यं अज-गच्छ । इदं सेवकानामाशिषा वचनम् ॥ ३ ॥ एवं ईसौख्यं-पृथ्वीसौख्यं अज-त्यज । इदमपि ५यतिवचनं प्रतिबोधसमये ॥४॥ एवम्
"इः कुत्सार्थेऽपि पापे (कामे)ऽपि, निषेधे नयनभ्रमे ॥ ६ ॥ ई रमा-मदिरा-मोहे, महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुपाद्यन्तो, नान्तोऽस्माल्लोपनं सुपः ॥ ७ ॥
ईयौँ योऽयात्र जसा रूपं, स्यादमारूपमी शसि ।" १० इति विश्वशम्भु(श्लो० ६-८)वचनात् इसौख्यं-कुत्सासौख्यं अज-क्षिप ॥ ५॥
एवं ईसौख्यं-मदिरासौख्यं ६ मोहसौख्यं ७ अज-क्षिप । अर्थयोजना स्वयं कार्या । एवं ईसौख्यं-महानन्दसौख्यं अज-गच्छ ॥८॥ एवं ईसौख्यं-प्रत्यक्ष(१)सौख्यं अज-गच्छ । अर्थयो० ॥९॥ एवं “इः स्मरेऽर्थेऽव्ययं खेदे कोपोक्तौ" इति तिलकानेकार्थवचनात् इसौख्यं-कामसौख्यं अज-गच्छ ॥ १० ॥ पक्षे क्षिप ॥ ११॥ अर्थयो० ।
(र! अज अनोद! दते! सौख्यम् ) दतेसौख्यं इत्यत्र एवं पदविश्लेपः कार्यः-दते असौख्यम्। तत एवं उक्तिः हे अनोद ! त्वं असौख्यं-दुःखं अज-क्षिप ॥ १२ ॥ एवं असौख्यं-दुःखं अज-गच्छ । इदं कृष्णस्य दुःखमिच्छतस्तथाविधस्य कस्यचिद्वचनम् ॥ १३ ॥ हे दते! दस्य-देवस्य तिः-पूजा यस्य
सः। अथवा दवत्-देववत् तिः-पूजा यस्य स दतिस्तत्सं० हे दते !। शेषं पूर्ववत् ॥१३॥ २० एवं सौख्यं अज-गच्छ ॥ १४ ॥ क्षिप वा ॥ १५ ॥ अर्थयो । एवं एते एव पञ्चदशार्थाः
॥ १५ ॥ परोक्षाप्रथमपुरुपैकवचनजातया आज इत्येवंरूपक्रियया समं योज्याः। यथा हे अनोद ! त्वं ईसौख्यं-लक्ष्मीसौख्यं आज-जगाम । शेषं पूर्ववत् । एवमन्येऽपि अनया पूर्वोत्तरीत्या च ॥ १४ ॥ अर्थाः कार्याः । अर्थयोजना स्वयं कार्या । जाताः ॥ ३० ॥
(राज अनोद-द! त! ई-सौख्य !) २५ एवं अनोदं-श्रीकृष्णं दयते-पालयति-रक्षतीति अनोददः-नन्दगोकुली तत्सं०
हे अनोदद! हे नन्दगोकुलिन् ! त्वं राज-दीप्तिं प्रामुहि । हे ईसौख्य ! पूर्ववत् । हे त! तस्य-तत्त्वस्य ज्ञानस्य वा इत्यादिप्रयोगदर्शनात् तो-ज्ञानं आधाराधेययोरभेदोपचारात् "कुन्ताः प्रविशन्ति” इत्यादिवत् लक्षणया वा त इति कोऽर्थः ? ज्ञानवानित्यर्थः। अथवा तनोति सुखादिकं इति डे प्रत्यये तः तस्य सं० हे त!। यत्र च ते सौख्यं ३० असौख्यं एवं पदविभागस्तत्र तस्य पूर्वोक्त एव अर्थः । इ इति च सम्बोधने पादपूरणे वा
'हे र ! पूर्ववत्' इत्यधिकः पाठः क-ख-ग-ध-प्रतिषु वरीवर्ति, किन्तु सोऽस्थानीय इति प्रतिभाति । '! भज मनोदर !! ई-सौस्य' इति पाठसम्भवे तस्वीकारः कर्तुं शक्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org