________________
१००
औरतशेखरसूरिसन्हब्धम् द्यूतकारो:-परपाताः, पाशकपातनादि ७ । गणिका:-परव्याजाः, व्याज:-कपटम् ८ । वरगायनाः-प्रारवायाः प्रकृष्ट आरवस्य आयः-विस्तारो येषाम् ९ । विप्राः-परव्यादाः परं-श्रेष्ठं विशेषेण अदन्तीति 'कर्मणोऽण्' (सिद्ध०५-१-७२) १०। धनिवरकुविन्दावासाः-परावायाः, आवायः-कुविन्दशाला ११ । सुभिक्षे कणाः-परवाताः प्रकृष्टसमूहाः १२। ग्रीष्मजलधितटा:-परवाताः, वातः-वायुः १३ । धूर्ताः-परव्याचाः, 'व्यचत् व्याजीकरणे' (सिद्ध० धा०) व्यचनं व्याचः-वचनम् १४ । दुनेयसत्त्वाः -परापायाः, अपाय:-अनर्थः १५ । धार्मिकचित्ता धर्मे-परबादाः, 'वद स्थैर्ये' (सिद्ध० धा०) प्रकृष्टस्थैर्याः १६ । वेदविदः-परवाकाः वाक्-ऋग्-यजुःसमूहात्मकं वाक्यम् १७ । दयालुः-परपाता, परान् पातीति शीलार्थे तृन् १८ । अशुभवेला परपाता, पातः क्रान्तिसाम्यादिः १९ ।
पटः-परव्याता, 'व्यंग् संवरणे' (सिद्ध० धा०) परं व्ययति-आच्छादयतीति तृन् २०। १५ महासुभटः-परपायाः, पररक्षकशस्त्रः २१।।
असती-परव्यागाः, प्रकृष्टविरुद्धापराधाः २२ । सुतन्तुवायः-परवाता, 'वेंग् तन्तुसन्ताने' (सिद्ध० धा०) प्रकृष्टं वयतीति तृन् २३ । महावाता-(परवाता ?), 'वांक् गतौ (गतिगन्धयोः?)' (सिद्ध० धा०) तृन् २४ । प्रांवृषि यवासः-परपाता, 'मैं (ओ) शोषणे' (सिद्ध० धा०) तृन् ,२५ । मद्यव्यसनी-परपाता, प्रकृष्टं पिवतीति तृन् २६ । अन्त्याधिस्थितिः-परव्यापा, प्रकृष्टविस्तारा २७ । मत्स्यसङ्कुलतडागाः-परवाकाः, वकसमूहो बाकम् २८ । अनुकूलपवनाः पोताः-परव्यायाः, 'व्ययी गती' (सिद्ध० धा०) प्रकृष्टगमनाः २९ ।
अजापालगृहाः-प्ररपाजाः, प्ररपन्तीत्यचि प्ररपा:-अजा यत्र ३० । २५
अब्धिमुखाः-पराबायाः, प्रकृष्टः अपामायः-लाभो यत्र ३१ । परप्रार्थनापरमनसः-परव्यजाः, परेषु विशेषेण आजो-गतिर्येषाम् ३२ । नित्यदरिद्रा:-परापायाः, परं-दूरमपगतमयो-भाग्यं येभ्यः ३३ । महाऽब्धयः-परापायाः, परा भृशार्थे परापां-भृशापाम् आयो येषु ३४ । हालिका:-परवापाः प्रकृष्टोप्तयः ३५ । वधकाः-परपापाः ३६ । कुम्भकारा:-परापाकाः, आपाकः-मृद्भाण्डपाकस्थानम् ३७ । गिरिनदी-परवापू (१) (टुक्षु) रु(कुं)क् शन्दे' (सिद्ध धा०) अचि प्ररवा आपो यत्र ३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org