________________
परवायाशब्दार्थनिरूपणम्
१०१
मरुभूः-परापाऽगा दूरमपगतवृक्षा ३९ । काश्मीरमही-परवाक्, वाक्-सरस्वती ४०।। सिद्धाः-परापाकाः, प्रकृष्टमपगतमकम्-अघं येभ्यः ४१ । महाद्रुमाः-परपादाः, पादाः-मूलानि ४२। नृपस्थितिः-परवाक्, परान्-शत्रून् वाजति-अवक्षिपतीति क्विप् ४३ । शतपदी-परपाद्, बहुत्वात् प्रकृष्टांहिः ४४।। भेर्यः-परव्यावाः 'उंड् (कुंड गुंड्- धुंड् डुङ्) शब्दे' (सिद्ध० धा०) 'युवर्णवृदृवशरणगमृद्ग्रहः' (सिद्ध०५-३-२८) इति अलि अवः-शब्दः, परान् (अवान्-) शब्दान् व्ययतिआच्छादयतीति 'आतो डोऽह्यावामः' (सिद्ध०५-१-७६) इति डे परव्योऽवो यासाम् ४५। फलितशालयः-परवाचाः, वचाः-शुकास्तत्समूहो वाचम् ४६ । मन्त्रिवराः-परावापाः, आवापः-अरिचिन्तनम् ४७ । धूर्तमैत्री-परापाता, आपातः-तत्कालः ४८। त्रयः प्रथमनरकाः-परापाकाः, परेभ्यः-परमाधार्मिकेभ्य आप्यत इति परापम् अर्कदुःखं येषु ४९।
नृपकन्याः-परवायाः, 'त्रीश वरणे' (सिद्ध० धा०) प्रकृष्टो वायो यासाम् ५०। १५ राजानः-परपायाः, परः पाय:-रक्षा येपाम् ५१ । याचकाः-परव्याताः, 'अत सातत्यगमने' (सिद्ध धा०) अतनम् आतः, परेषु विशेपेण आतो येपाम् ५२।
सुगृहाः-परव्यायाः, परेभ्यो विशिष्टा आया-ध्वजधूमादयो येषु ५३ । कुपिताः सुभटा:-परावापाः, परे-शत्रौ अवापः-प्राप्तिर्येषाम् ५४ ।
तृपिताः-(परपायाः), परं-केवलं पिवन्तीति परमते 'तन्व्यधी(श्वसातः) (सिद्ध० ५-१-६४) इति णे परपायाः ५५ ।
चनोद्देशाः-परन्यायाः, प्रकृष्टो वीनामायः-आगमनं येषु ५६ । वाजः पक्ष-मुनि-निस्वनेष्वपि वाजं सर्पि-रि-यज्ञा-ऽन्नेषु, पाकः शिशु-दैत्ययोरपि, पततीति वा ज्वलादि(दुनीभूग्रहास्तोर्णः)' (सिद्ध०५-१-६२) इति णे पातः, पतती २५ त्यचि पतः-पक्षी, तत्समूहः पातम् , व्याजोऽपदेशेऽपि, अगोऽधेऽपि, “अजश्छागे हरे विप्णी, रघुजे वेधसि स्मरे' (हैमेऽनेकार्थे का० २, श्लो० ८०) उप्यतेऽस्मिन्निति वापः क्षेत्रेऽपि, पापः पापिष्ठेऽपि, अगः शैलसरीसृपा-ऽर्केप्वपि, पादोऽशु-तुर्याशा-इंहि पर्यन्ताद्रि-पूजास्वपि, आवापः पात-भेदा-ऽऽलवाल-प्रक्षेप-भाण्डपचन-वलयेप्वपि आपातः पातेऽपि, बको रक्षोभेद-श्रीद-शिव-मल्ली(-बकोटे)ष्वपि,
"पदं स्थाने विभक्त्यन्ते, शब्दे वाक्यैकवस्तुनोः ॥ त्राणे पादे पादचिहने, व्यवसाय-प्रदेशयोः।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org