________________
श्रीमदरत्नशेखरसूरिसन्डब्धं ॥ परवाया'शब्दार्थनिरूपणम् ॥
"सुअणा १ पवरतुरंगा २ सारहिणो ३ नाणिणो ४ अ वाइवरा ५ । सूआरा ६ जूआरा ७ गणिआ ८ वरगायणा ९ विप्पा १० ॥१॥ धणिवरकुविंदभवणा ११ कणा सुभिक्खम्मि १२ गिम्हि जलहितडा १३ । ५ धुत्ता १४ दुन्नयसत्ता १५ धम्मिअचित्ता य धम्मम्मि १६ ॥२॥ वेअविऊ १७ अ दयालू १८ वेला असुहा १९ पडो २० महासुहडो २१ । असई २२ सुतंतुवाओ २३ महवाओ २४ पाउसि जवासो २५ ॥३॥ मज्जवसणी २६ अ अंतिमजलहि ठिई २७ मच्छसंकुलतडागा २८ । अणुकूलपवणपोआ २९ अयवालगिहा ३० य जलहिमुहा ३१ ॥४॥ १. परपत्थणापरमणा ३२ निच्चदरिद्दा ३३ महासमुद्दा ३४ य । हलवाहगा ३५ य वहगा ३६ कुंभारा ३७ गिरिणई ३८ मरुभू ३९ ॥५॥ कम्हारमही ४० सिद्धा ४१ महदुमा ४२ निवठिई ४३ सयपई ४४ अ । भेरीओ ४५ फलिअसाली ४६ मंतिवरा ४७ धुत्तमित्ती ४८ अ ॥ ६॥ तिपढमनरगा ४९ निवकन्नगा ५० य राया ५१ य जायगा ५२ सुगिहा ५३ । १५ सुहडा कुविआ ५४ तिसिआ ५५ वणउद्देसा य केरिसया ५६ ॥७॥ पागयभासाइ इहं वण्णचउक्केण चेव पइपसिणं ।
पञ्चत्तरं पयच्छसु जइ अइछेयत्तणं वहसि ॥ ८॥" ईपद् विमृश्य तयोक्तम्-‘परवाया' इति । तत्र सुजनाः परवाचः प्राणान्तेऽप्यन्यथाऽकरणात् , प्रकृष्टगिर इत्यर्थः १ ।
प्रवराश्वाः-परवाजाः प्रकृष्टवेगाः ‘क-ग-च-ज-त-द-प-य-वां प्रायो लुग्' (सिद्धहैमे अ० ८, पा० १, सू० १७७) इति जलुक्, 'अवर्णो यश्रुतिः' (सिद्ध०८-१-१८०) इति अवर्णस्य यः २। सारथयः-प्ररवाजाः, प्रकृष्टरवेण आजः-क्षेपः प्रेरणमर्थाद् वृपयोर्येषाम् ३ ।
ज्ञानिनः-परावायाः अवायः-निश्चयः, 'दीर्घ-इस्वो मिथो वृत्तौ' (सिद्ध०८-१-४) २५ इति इस्वः ४।
वादिवरा:-परवादा: ५। सूपकाराः-परपाकाः, 'पो वः' (सिद्ध० ८-१-२३१) इति पस्य वः ६ । , श्रीरतशेखरसूरिसूत्रितस्य श्राद्धप्रतिक्रमणसूत्रस्य अर्थदीपिकाऽऽस्यस्वोपज्ञविवरणान्तर्गत मिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org