________________
९८
पण्डितश्रीगुणविनयगणिगुम्फितः सा लक्ष्मीः तद्धेतुत्वात् - सा आः-ब्रह्मा तेन वीयते-जन्यते या सा आवी:-ब्रह्मपुत्री 'वीलू प्रजनने' ( ) विप, पश्चात् सा चासौ आवीश्च सावीः तथा प्रकटिता ये अर्थास्ते साव्योः ॥११७ ॥
सरस्वत्या हि मन्मुखद्वारा अमी 'सवत्थशब्दस्यैतावन्तोऽर्थाः प्रकाशिता इति कवि५गर्वपरिहारः, यदहं विदधाम्यर्थजातं तत्र श्री भगवत्या वाग्देवतायाःप्रसाद इति ध्येयम् ॥ इति श्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणिशिष्यपण्डितगुणविनयगणिभिरमी अर्थाः स्वबुद्ध्योत्प्रेक्षिता इति यत्किञ्चिदिहायुक्तमिवाभाति तदपि प्राकृतशैल्या सर्वमपि
सङ्गच्छते न दोषलवोऽप्याशय इति विज्ञप्तिरस्ति ॥ श्रीरस्तु ॥
"दिति' इति पालन्तरम् ।.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org