________________
४९
श्रीसमयसुन्दरगणिकृता अनोदः-शकटखण्डकः स चासो दः-पालकः अथवा तस्य दः-पालकः, तत्सं० हे अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः शकटखण्डकपालकवाचिना अनोददपदेन केवलेन कार्याः । सर्वे० ॥ २९४ ॥ ___अनोदः-शकटखण्डकः कोऽप्येवंविधो वलिष्ठः, तद्वद् दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० इत्यादि ७ अर्थाः शकटखण्डकदीप्तिवा० कार्याः । सर्वे० ॥ ३०१॥ अथ पुनः प्रकारान्तरेण अर्थानाह
अनः-शकटं अर्थात् शकटरूपं दैत्यं (तं) द्यति-खण्डयति इति अनोदो-नारायणः। एवं अग्रेऽपि नारायणवाचि अनोदशब्दस्य व्युत्पत्तिः कार्या । तं दयते-पालयतीति अनोददः अर्थान्नन्दगोकुली । तेन हि वाल्यावस्थायां हरिः पालितो-निजगृहे रक्षितः पुत्रवदिति श्रुतिः। सम्बन्धस्तु शास्त्रान्तरादवसेयः। तत्सम्बोधनं हे अनोदद ! हे अ!-प्राणिन् ! ते- १० तुभ्यं राजा सौख्यं ददातु इत्यादि ७ अर्थाः नन्दगोकुलिवाचिनाऽनोददपदेन केवलेन कार्याः । अत्र 'अ' इति विशेष्यं(?) पूर्ववद् गण्यम् । ततः तेआदेशस्यावैषम्यम् । सर्वे० ॥३०८॥
अनोदवत्-नारायणवत् दो-दानं यस्य सोऽप्यनोददस्तत्सं० हे अनोदद ! इत्यादि ७ अर्थाः नारायणदानवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३१५ ॥
अनोदो-नारायणस्तस्य तस्मिन् वा दः-पूजनं यस्य सोऽप्यनोददः, तत्सं० हे १५ अनोदद ! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः नारायणपूजनवाचिना अनोददपदेन के. कार्याः सर्वे० ॥ ३२२ ॥
__ अनोदवत्-नारायणवत् दो-दानशौण्डो यः सोऽप्यनोददः, तत्सं० इत्यादि ७ अर्थाः नारायणदानशौण्डवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३२९ ॥
अनोद एव-नारायण एव दो-देवो यस्य सोऽप्यनोददः, तत्सं हे अनोदद ! २० इत्यादि ७ अर्थाः नारायणदेववाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३३६ ॥
अनोदवत्-नारायणवत् दो-दीप्तिर्यस्य सोऽप्यनोददः, तत्सं० हे अनोदद! हे अ!-प्राणिन् ! इत्यादि ७ अर्थाः नारायणदीप्तिवाचिना अनोददपदेन के० कार्याः। सर्वे० ॥ ३४३ ॥
अनोदवत्-नारायण इव ददाति अर्थाद् दानं यच्छतीति अनोददः, एवंविधः २५ कोऽपि दाता, तत्सं० इत्यादि ७ अर्थाः नारायणसमदायकवाचिना अनोददपदेन के० कार्याः । सर्वे० ॥ ३५० ॥
अनोदो-नारायणस्तद्वद् दयते अर्थाद् दयावत्त्वेन परप्राणान् रक्षतीति अनोददः, तत्सं० हे अनोदद! इत्यादि ७ अर्थाः नारायणपालकवाचिना अनोददपदेन के० कायोः । सर्वे० ॥ ३५७ ॥ १ अर्थदानं' इति ख-पाठः।
अर्ष..
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org