________________
सप्त स्मरणानि । मंगलाणं च सवेसि ॥ ८॥
[मङ्गलानां च सर्वेषाम्] पढम हवइ मंगलं ॥९॥
[प्रथमं भवति मङ्गलम् ] ५ सि० व्या०-एष पश्चनमस्कारः । एष-प्रत्यक्षो विधीयमानः पञ्चानामर्हदादीनां नमस्कारः-प्रणामः । स च कीदृशः १ 'सर्वपापप्रणाशनः' सर्वाणि च तानि पापानि च सर्वपापानि इति 'कर्मधारयः' । सर्वपापानां प्रकर्षेण नाशनो-विध्वंसकः सर्वपापप्रणाशनः इति 'तत्पुरुषः । सर्वेषां द्रव्य-भावभेदमिन्नानां मङ्गलानां प्रथममिदमेव मङ्गलम् । “होइ मंगलं" इति पाठस्त्वप्रामाणिकः, सर्वत्र "हवइ मंगलं" इत्येव दर्शनात् । चः समुच्चये । पञ्चसु पदेषु चतुर्थ्यर्थेषु षष्ठी । १. अत्र चाष्टषष्टिरक्षराणि, नव पदानि, अष्टौ च सम्पदो-विश्रामस्थानानि तत्र सप्त एकैकपदा, अन्त्या तु द्विपदा इति नमस्कारार्थः ॥६-९॥
ह० व्या०-( एसो० इति ) एपः-पूर्वोक्तः 'पञ्चनमस्कार' पञ्चानाम्-अर्हत्-सिद्धाऽऽचार्यो-पाध्याय-सर्वसाधूनां नमस्कारः-प्रणामः, सर्वपापप्रणाशनः-(समस्तदुरित)निवारकः।
पुनः सर्वेषां मङ्गलानां-मङ्गलकारकवस्तूनां दधि-दूर्वा-ऽक्षत-चन्दन नालिकेर-पूर्णकलश१५ स्वस्तिक दर्पण-भद्रासन-वर्धमान-मत्स्ययुगल-श्रीवत्स-नन्द्यावर्तादीनां मध्ये प्रथम-मुख्यं मङ्गलं
मङ्गलकारको भवति । यतोऽसिन् पठिते जप्ते स्मृते च सर्वाण्यपि मङ्गलानि भवन्तीत्यर्थः॥ ६-९॥
इदं च सरणमनादिभूतं, यतो जिनानां चतुर्विंशतयोऽनन्ताः सञ्जाताः अनन्ताश्च भविप्यन्ति तदा सदैवेदमेव, अतोऽनाद्यनन्तमित्यर्थः ।।. २. अत्र पदानि नव (९), सम्पदः अष्टौ (८), अक्षराणि अष्टपष्टिः (६८), लघ्वक्षराणि एकपटिः (६१), गुर्वक्षराणि सप्त (७) ज्ञेयानि ॥
नागपुरीयतपोगण-राजः श्रीहर्षकीर्तिसरिवरः।। प्रथमसरणे व्याख्यां, सञपाद् विहितवान् सम्यक् ॥ १॥
॥ इति प्रथमसरणव्याख्या ॥
२५
.०वायमेव ' इति ख-पाठः। २ इतं पद्यं स्व-प्रत्यां न वर्तते। ३ स्मरणस्य टीका इति ख-पाठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org