________________
नवकारस्मरणम् ।
नमो लोए सबसाहूणं ॥ ५ ॥ [ नमो लोके सर्वसाधुभ्यः ]
सि० व्या०-- नमो-नमस्कारः । केभ्यः ? 'लोके सर्वसाधुभ्यः' । लोके - मनुष्यलोके सम्यग्ज्ञानादिभिर्मोक्षसाधकाः सर्वसत्त्वेषु समावेति साधवः सर्वे च ते स्थविरकल्पिकादिभेदभिन्नाः साधवश्चेति सर्वसाधवस्तेभ्यः इति 'कर्मधारयः' । यथा
"निवाणसाहए जोए, जम्हा साहंति साहुणो ।
समाय सवभूएस, तम्हा ते सबसाहुणो ।। १ ।।" - ( आर्या )
ह० व्या०- ( नमो० इति ) तथा नमो लोके सर्वसाधुभ्यः । सम्यग्ज्ञान- दर्शन -चारित्रादिभिः साधयन्ति मोक्षमार्गमिति साधवः । लोके - सार्थद्वयद्वीपलक्षणे पञ्चचत्वारिंशलक्षयोजनप्रमाणे मनुष्यलोके सर्वे च ते साधवश्च । यद्वा सार्वस्य - अर्हतः साधवः सार्वसाधवः तेभ्यो १० नमो-नमस्कारोऽस्तु ॥ ५ ॥
एसो पंचनमुक्कारो ॥ ६॥
[ एष पञ्चनमस्कारः ] auraपणासणो ॥ ७ ॥ [ सर्वपापप्रणाशनः ]
Jain Education International
५
निर्वाणसाधकाम योगान् यस्मात् साधयन्ति ( ततः ) साधवः । समाश्व सर्वभूतेषु तस्मात् ते सार्वसाधवः ॥
४ अत्रापि विशेषो दरीदृश्यते भगवतीविवरणे
१ 'सार्वसाधुभ्यः' इत्यपि सम्भवति ।
२ आदिशब्देन सूच्यन्ते जिनकल्पिक प्रतिमाकल्पिक-यथाछन्दकल्पिक- परिहार विशुद्धिकल्पिक - स्थितकल्पिकाऽस्थितकल्पिक - स्थितास्थितकल्पिक - कल्पातीत - प्रत्येकबुद्ध - स्वयंसम्बुद्ध - बुद्धबोधिता भारतादिभेदाः सुषमादुप्पमादिविशेषिता वा ।
३ दृश्यते इयं गाथा आव० नम० ४४९ तमे पत्राङ्के भग० विवरणेऽपि, परन्तु तत्र 'सम्ब' स्थाने 'भाव' - २० शब्दः । एतच्छाया यथा
५
For Private & Personal Use Only
१५
“सर्वेभ्यो जीवेभ्यो हिताः सार्वाः, ते च साधवश्व, सार्वस्य वा भर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, १५ सर्वान् वा शुभयोगान् साधयन्ति-कुर्वन्ति, सार्वान् वा अर्हतः साधयन्ति- तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्ननिराकरणादिति सर्वसाधवः सार्वसाधवो वा, अथवा श्रन्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि-दक्षिणानि अनुकूलानि यानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वा अतस्तेभ्यः ।... एषां च नमनीयता मोक्षमार्ग साहायक करणेनोपकारित्वात्, आह च ( आव० नम० ४४९ तमे पत्राङ्के ) -
असहाए सहायत्तं, करेंति मे संजम करितस्स । एएण कारणेणं, नमामिऽहं सन्त्र साहूणं ॥ १ ॥” [ असहाये सहायत्वं कुर्वन्ति मे संयमं कुर्वतः । एतेन कारणेन नमाम्यहं सर्वसाधून् ॥ ]
३०
www.jainelibrary.org