SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अर्थरत्नावली [ अर्थाः २८-३५] राजा आ नो ददते सौख्यम् ॥ २८ ॥ ___ आ-अग्निः नः-अस्माकं सौख्यं ददते । किं० आ ? 'राजा' राजते-दीप्यते भूतले इति राजा ॥ २८ ॥ राजा आ नो ददते सौख्यम् ॥ २९-३१॥ ५. आ-धर्मो नः-अस्माकं सौख्यं ददते । किं० आ ? 'राजा' रञ्जयति चतुरनरचेतासीति राजा । इदं धर्मिष्ठजनवचनम् ॥ २९ ॥ ___एवं आ-दानं धनं च नः-अस्माकं सौख्यं ददते । कि० आ? 'राजा' । व्युत्पत्त्यादि पूर्ववत् अर्थद्वयम् ॥ २॥ सर्वे ॥ ३१ ॥ -आ-अजा नो ददते असौख्यम् ॥ ३२॥ १. ऋ:-देवमाता तां आ-सामस्त्येन अजन्ति-मातृत्वेन गच्छन्तीति रत्वे कृते सन्धी च सति राजा-देवाः नः-अस्माकं असौख्यं ददते । इदं दैत्यानां वचनम् ॥ ३२॥ -आ-अजा नो ददते असौख्यम् ॥ ३३ ॥ "ऋर्दितौ स्यादजे" इति तिलकानेकार्थवचनात् ऋः-दितिस्तां आ-सामस्त्येन अजन्ति-मातृत्वेन गच्छन्तीति राजाः-दैत्याः नः-अस्माकं असौख्यं ददते । इदं सुराणां १५ वचनम् ॥ ३३ ॥ ऋ-आ-अजा नो ददते असौख्यम् ॥ ३४ ॥ -मेषस्तं आ-सामस्त्येन अजन्ति-क्षिपन्तीति रत्वे कृते राजाः-सिंहादयः नःअस्माकं असौख्यं ददते । इदं मृगाणां वचनम् ॥ ३४ ॥ ल-आ-अजा नो ददते सौख्यम् ॥ ३५॥ २० "(ल?)राह्याम्" इति तिलकानेकार्थवचनात् ऋः (लः?)-वाराहीदेवता तां आ-सामस्त्येन अजन्ति-देवत्वेन गच्छन्तीति लाजाः-वाराहीभक्ताः पुरुषाः नः-अस्मभ्यं सौख्यं ददते । इदं तद्विधानामेव वचनम् । अत्र 'इवर्णादेरस्वे स्वरे यवरलम्' (सिद्धा अ० १, पा० २, सू० २१) इति सूत्रेण लत्वं विधेयम् । अत्र चित्रादित्वाद् रलयोरक्यं न दोपाय । यदाह "अहमपि परेऽपि कवय-स्तथापि महदन्तरं पर ज्ञेयम् । ___ऐक्यं रलयोरिति यदि, तत् किं केलभायते करभः ? ॥ १॥" एवमग्रेऽपि सति प्रयोजनेऽनुसतव्यम् ॥ ३५ ॥ " , "लारामां" इन्ते सुधा० (सो..)। २ 'करभायते कलभः' इति सुभाषितः । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy