________________
[ अर्थाः ३६-४१] श्रीसमयसुन्दरगणिकृता
___ लाजाय नो ददते सौख्यम् ॥ ३६ ॥ लाजेभ्यः-तन्दुलेभ्य आय-लाभं आचष्टे इति लाजाय एवंविधः कोऽपि जनः नःअस्माकं सौख्यं ददते । णिजादिविधिः पूर्ववत् । अर्थयोजना स्वयं कार्या ॥ ३६॥ .
लाव जा ! नो ददते असौख्यम् ॥ ३७॥ "ला च लक्ष्मीलमम्वरे” इति विश्वशम्भुवचनात् लां-लक्ष्मी अवति-स्वामी- ५ भवतीति लावो-लक्ष्मीवान् । तमाचष्टे-स्तातीति णिजि लावयतीति णिज्लुकि क्विपि तल्लुकि च लाव् । “जंस्तु जेतरि” इति (विश्वशम्भु)वचनात् हे जाः!-जेत. जनाः! लाव-लक्ष्मीस्वामिस्तावकः नो-न असौख्यं ददते । अर्थयोजना स्वयं कार्या । अत्र 'अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमन]प्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवात्यालिङ्गनहिंसादानभागवृद्धिषु' इति (पाणिनीयधातुपाठे ६००) उक्तत्वात् अव-१० धातुः स्वाम्यर्थो ग्राह्यः । एवमेव शतार्थिभिर्जयसुन्दरसूरिभिरपि उक्तम् । तथाहिजं-जन्म यान्ति-प्राप्नुवन्तीति जया-जन्मिनस्तेषु ये वृषभाः-श्रेष्ठाः भव्यत्वात् तेषां अवति-स्वामीभवतीति जयवृपभावः इत्यादि ॥ ३७ ॥
राजा नो ददते असौख्यम् ॥ ३८ ॥ ___ "ऋतु कुत्सायाम्" इति सुधाकलश(श्लो० ६)वचनात् ऋ इति कुत्सा तां १५ अजन्ति-गच्छन्तीति रत्वे कृते रजाः-कुत्सागामिनः पुरुषाः तेषामिमे राजाः। एवंविधाः केचन पुरुपाः नः-अस्माकं असौख्यं ददते । इदं प्रतिष्ठितजनवचनम् ॥ ३८ ॥
लाजाव् नो ददते सौख्यम् ॥ ३९ ॥ लाजानां-तन्दुलानां अवं अवनं-रक्षणं करोतीति लाजाव्-तन्दुलरक्षकः । अत्र करोत्यर्थे णिज् ज्ञेयः । नः-अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या ॥ ३९॥ २०
राजाय नो ददते सौख्यम् ॥ ४०॥ रा-रमा-लक्ष्मीस्तस्या जो-जातः राजः-कामस्तं अयति-गच्छतीति राजायःकामिजनः तमाचष्टे-स्तौतीति णिजादिविधौ राजाय-कामिजनस्तावकः । नो-न सौख्यं ददते । इदं विरागिणो वचनम् ॥ ४०॥
राजाय नो ददते सौख्यम् ॥ ४१ ॥ राजानं-नृपं चन्द्रं वा अयति-गच्छतीति राजायः तमाचष्टे इति राजाय । एवंविधः कोऽपि जनो नः-अस्माकं सौख्यं ददते । अर्थयोजना स्वयं कार्या । यलोपः पूर्ववत् ॥ ४१ ॥
१ 'जश्च जेतरि' इति सुधा० (श्लो. १८)।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org