________________
उवसग्गहरस्मरणम् ।
दर्गतस्य भावो दौर्गत्यं-दारिद्यं, दुःखं च दार्गत्यं चेति 'द्वन्द्वः' । केषु सत्स्वपि ? 'नरतिर्यक्ष्वपि' नराश्च तिर्यञ्चश्व नरतिर्यञ्चः इति 'द्वन्द्वः' तेष्वपि, नरतिर्यग्लक्षणभवान्तेष्वपीत्यर्थः । एतावता यथाकथञ्चित् जीवानां (समुद्भवेऽपि तत्र तव प्रणति)करणात् तत्रापि मानसशरीरदुःख. भाजो न भवेयुः । न जातुचित् दारियोपहताश्च । यदि च जीवाः तिर्यक्षु कदाचिदुत्पद्यन्ते तदा तव प्रणतिप्रसादात् कमनीयकनक-रन-चिन्तामणि-कल्पद्रुम-पट्टतुरग-जयकुञ्जरादिभावमापन्नास्त-५ प्रापि न दुःखदौर्गत्यं प्राप्नुवन्तीति फलितार्थः । क्वचित् 'दुक्खदोहग्गं' इति पाठः, तत्र दुःखं च दौभाग्यं चेति 'द्वन्द्वः' एवावगन्तव्यः ॥ ३ ॥
ह० व्या०-अथ स्तुतिमत्रादि विनव श्रीपार्श्वनाथप्रणाममात्रेणैव सर्व फलं स्यादित्याहचिहउ दूरे इति । मन्त्रस्तव स्तुतिरूपः प्रागुक्तोऽष्टादशाक्षरात्मकः स तु दृरे तिष्ठतु-आस्तां, तस्य किं कथनीयमिति, किन्तु तब-भवतः प्रणामोऽपि त्वयि विषये कृतः प्रणामो-नमस्कारोऽपि १० बहुफलो भवति । बहूनि-प्रचुराणि सौभाग्या-ऽऽरोग्य-धन-धान्य-कलत्र-पुत्र-द्विपद-चतुष्पदराज्य-स्वर्गादीनि फलानि यस्मात् सः । अन्यच्च-त्वत्प्रणामात् जीवाः-प्राणिनो नरतियक्षु दुःखदौर्भाग्यं न प्राप्नुवन्ति । 'दुक्खदोगचं' इति पाठे दुःखदीर्गत्यं न प्राप्नुवन्ति । त्वन्नमस्कारकर्तारः सम्यग्दृष्टयो जीवाः प्रायो वैमानिकदेवेषूत्पद्यन्ते, कदाचित् पूर्ववद्धायुषो भवपरमरया वा नरेषु तिर्यक्षु उत्पद्यन्ते तथापि तत्र तेषां दुःखं शारीरं मानसं च दुर्गतस्य भावो दौर्गत्यं दारियं न १५ भवति, नरेषु रोगादिरहितत्वेन सम्पद्यमानसमाहितार्थतया च शारीरं मानसं च दुःखं न प्राप्नुवन्ति, तथा ऋद्धिसमृद्धतया च दारिद्यभाजोऽपि न भवन्ति । तिर्यक्षु तु कमनीयकनक-रत्नचिन्तामणि-कल्पद्रुम-पट्टतुरङ्गम-जयकुञ्जरादिघृत्पद्यन्ते पूजां च प्राप्नुवन्ति । अथवा नरा एव तिर्यश्चो नरतियश्च:-नृपशवो नृपु पशुतुल्या वालगोपालकृपीवलादयस्तेष्वपि दुःखदौर्भाग्यं न प्राप्नुवन्ति । त्वत्प्रसादात् तेऽपि सदा सुखिन एव स्युरिति ॥ ३ ॥ जि० वृ०-साम्प्रतं चतुर्थगाथार्थः स्पष्टीक्रियते
तुह सम्मत्ते पत्ते, चिंतामणिकप्पपायवभहिए। पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥४॥ [तव सम्यक्त्वे प्रासे चिन्तामणि कल्पपादपाभ्यधिके ।
प्रामुवन्त्यविनेन जीवा अजरामरं स्थानम् ।।] पूर्वगाथायां भगवत्प्रणामात् सम्यक्त्वं तत्फलं चोक्तम् । अनया तु गाथया प्रकर्षकोटिप्राप्तं तस्यैव पर्यन्तफलमुच्यते । तव सम्बन्धिनि नेतरीयसम्बन्धिनि सम्यक्त्वे विशिष्टप्रमाणात्मके देवतत्त्व गुरुतत्व-धर्मतत्वनिश्चयरूपे वा प्राप्ते-लन्धे सति । किंविशिष्टे ? चिन्तामणिः-चिन्तिता
धनुश्विद्वान्तर्गतोऽयं पाठोऽनुमानिकः, मूलप्रतौ अक्षराणामस्पष्टरवात् ।
२ कमनीय' इति ख-पाठः। 'यत्रापि' इति व पाठः। 'मदे' त्यपि पा ५ चिंता-३. मणि 'इस्यपि सम्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org