________________
१८
सप्त स्मरणानि ।
अस्य कारणभूतस्य स तथा भवति - सम्पद्यते । प्रणाम इत्येकवचनं च ज्ञापयति यदेकोऽपि नमस्कारो बहुफलो भवति, किं पुनस्ते बहुशः प्रयुक्ता इति' । येन च जन्तुना भगवन्तं प्रति नमस्कारमात्रमपि विशुद्धश्रद्धया विहितं सोऽवश्यं सम्यग्दृष्टिः, स च देवेष्वेव उत्पद्यते, "संम्मद्दिट्ठी जीवो विमाणवज्जं न बन्धए आउं" इति वचनात् । यदि च कदाचित् पूर्वबद्धायुष्कतादिना ५ हेतुना भवपारम्पर्येण वा नरेषु तिर्यक्षु वाऽसावुत्पत्तिमासादयति तदापि भगवन्नमस्कारप्रभावादेव न दुःखभाजनं भूयो भजते ( भवति १) इत्येतदेवाह - नरेत्यादि । नरास्तिर्यञ्च श्वेति 'द्वन्द्वः' तेषु नरतिर्यक्ष्वप्युत्पन्ना जीवाः - प्राणिनो न दुःखदौर्गत्यं प्राप्नुवन्ति । अपिः विस्मये । विस्मयश्व किल नरेषु तिर्यक्षु च दुःखदौर्गत्याभावो दुर्घट इति हेतोः । तत्र दुःखं शारीरं मानसं च । दुर्गतस्य भावो दौर्गत्यं - दारिद्र्यं ततः समाहारद्वन्द्वे दुःखदौर्गत्यम् । अयमभिप्रायः - यदि किल कथञ्चिन्नरेषूत्प१० 'द्यन्ते ते नमस्कारकर्तारः, तदापि रोगादिरहितत्वेन सद्यः सम्पद्यमानसमीहितार्थतया च न शारीरमानसदुःखभाजो भवेयुः, ऋद्धिसमृद्धतया च न जातु दारिद्र्येणोपद्र्यन्ते । तिर्यक्षु चोत्पद्यमानाः कमनीय कनक - रत्न- चिन्तामणि- कल्पद्रुम-पट्टतुरङ्गम-जयकुञ्जरादिभावमासाद्य तांस्तान् पूजाप्रका - रान् प्राप्नुर्वेन्तीति । पाठान्तरं वा 'दुक्खदोहग्गं' इति । दुःखं च दौर्भाग्यं चेति 'समाहारद्वन्द्वः' ॥
पार्श्वयक्षादिस्तवपक्षे चैवं नेयम् - तिष्ठतु दूरे मन्त्रः, तव - पार्श्वयक्षस्य पद्मावत्या धरणेन्द्रस्य १५ च प्रणामोऽपि बहुफलो भवति । 'णम प्रह्वत्वे (शब्दे च)' (पा० धा० ९८१) । प्रणमनं प्रणाम :प्रदत्वं प्रहीभावः, प्रसादाभिमुख्यमिति यावत् । अत्र तवेति कर्तरि षष्ठी । भगवत्पक्षे च कर्मणि । तथा तव प्रभावमात्रादेव नरास्तिर्यञ्च इव नरतिर्यश्चो - नृपशवः पांशुरपादाः पशुप्राया बालगोपालकृषीवलादयस्तेष्वपि मध्ये जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् । ते हि प्रायो दुःखिता एवोपलभ्यन्ते । केवलं त्वत्प्रसादात् तेऽपि सतत सुखिता एव स्युः । इति गाथार्थः ॥ ३ ॥
१०
२५
सि० व्या० - चिट्ठउ ति । योऽयं मत्रः प्राग् व्यावर्णितः स दूरे तिष्ठतु - दूरे आस्तामित्यर्थः । तव - भवतः प्रणामोऽपि - विशुद्ध श्रद्धाकृतो नमस्कारोऽपि बहुफलो भवति - सञ्जायते । बहूनि सौभाग्याऽऽरोग्यादीनि फलानि यस्य स बहुफलः इति 'बहुव्रीहि:' । यतस्तव प्रणामात् जीवाः - प्राणिनः दुःखदौर्गत्यं न प्राप्नुवन्ति-न लभन्त इत्यर्थः । तत्र दुःखं मानसं शारीरं वा,
१ उक्तं च सिद्धस्तवे
--
"इको वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥
[ एकोऽपि नमस्कारो जिनवरवृषभाय वर्धमानाय । संसारसागरात् तापयति नरं वा नारीं वा ॥ ]
२ 'जविन सम्मत्तजढो महव ण बद्धाढभो पुब्वि' इति उत्तरार्धस्, सम्पूर्ण च्छाया तु यथा
Jain Education International
सम्यग्टष्टिर्जीवो विमानवज्ये न बभाति आयुः । यद्यपि न स्यसम्यक्त्वोऽथवा न बद्धायुष्कः पूर्वम् ॥
'इन्दे' इति कन्पाठः 1 ४ 'वन्धि' इति कन्पाठः ।
For Private & Personal Use Only
www.jainelibrary.org