________________
सप्त स्मरणानि ।
उक्तखरूपाः । तुशब्दस्यावधारणार्थत्वात् “तुः स्याद् भेदेऽवधारणे" इत्यनेकार्थवचनात् यान्त्येव वशाम वश-आयत्तता तस्यां अमनं अमः-अवगमनं वशामस्तं, वशगत्वमित्यर्थः । अन्येध्वपि वर्तमाना ग्रहरोगादयः तस्य वशवर्तिनो भवन्ति, तत्प्रतीकारसामर्थ्यादिति भावः । उक्तं हि वृहत्तौ-"शान्तिकपौष्टिकवश्याकर्षणोच्चाटनस्तम्भनविद्वेषणमारणलक्षणकर्मनिर्माणालंके५र्मीणत्वमेतन्मत्रस्य" । अस्याश्च गाथाया यद्यपि विषधरस्फुलिङ्गमत्रस्य भगवन्नामगर्भितत्वेन वस्तुतः स्तुतिरूपताऽस्ति, तथापि भगवद्वाचकयुष्मच्छब्दाद्यभावान्मा दुर्विदग्धाश्चर्चयिष्यन्तीत्यन्यथापि व्याचक्ष्महे । विषधरस्फुलिङ्गे-एतनामकर्मतत्र(मन्त्र)विशेषे माति-संनिविशते इति विषधरस्फुलिङ्गमस्तम् । मत्रसनिविष्टमित्यर्थः । अथवा विषधरस्फुलिङ्गममति-गच्छति (इति) विषधरस्फुलिङ्गामस्तं, विषधरस्फुलिङ्गाख्यमत्रगतमित्यर्थः । 'लुक' (सिद्ध०८-१-१०) इति •प्राकृतलक्षणेनाकारलोपाद् ‘विसहरफुलिंगम' त्ति सिद्धम् इति त्वां यः कण्ठे धारयति । न च भगवतः कण्ठधारणमनुपपन्नमिति वाच्यम् । परमेश्वरस्यापि मत्रादविष्वग्वृत्तित्वेन मत्ररूपत्वात् । तथाच मन्त्राधिराजस्तवे श्रीगुणशेखरसूरयः
"न पार्थादपरो मत्रो, न मत्रादपरो विभुः। तद्वयादपरो नात्मा, ध्यायेदित्येकतानताम् ॥१॥ आत्मा पार्धात्मकः पार्थो, मत्रात्मा तौ तदात्मकौ ।
एकं वित्रास्त्रयोऽप्येके, नेति तल्लयमावहेत् ॥ २ ॥" अथवा कण्ठे धारयतीति विषधरस्फुलिङ्गयन्त्ररूपं त्वां विद्यामणीकृत्य स्वकण्ठे परिदधातीति । परस्य च कण्ठे परिधापयतीति यथासङ्ख्यं स्वार्थपरार्थसम्पत्तिपक्षयोर्योज्यम् । पाचयक्षपद्मावती-धरणेन्द्रस्तवपक्षेपि तुल्यैव व्याख्या, प्रस्तुतमन्त्रस्य तत्रयेण अधिष्ठितत्वात् । २० इति गाथार्थः॥२॥
सि० व्या०-विसहरेति । यो (मनुजः-) मनुष्यः यदिवा मनुः-मन्त्रस्तं गच्छति-जानातीति मनुगो-मात्रिकः । विषधरस्फुलिङ्ग इति नाम स चासौ मन्त्रश्च विपधरस्फुलिङ्गमन्त्रस्तं विषधरस्फु- . लिङ्गमत्रं इति 'कर्मधारयः' । 'नमिऊणपासविसहरविसहजिणफुलिङ्ग' इति भगवन्नामगर्भितमष्टा
दशाक्षरात्मकं त्रैलोक्यकमलाईदीजैरन्ते च तत्वप्रणिपातबीजाभ्यामष्टाविंशत्यक्षरात्मकं वा कण्ठे२५ गले सदा-सर्वकालं धारयति-धत्ते, कण्ठस्थं करोति जपतीत्यर्थः, तस्य मनुष्यस्य मात्रिकस्य च
ग्रहाः-भूत-प्रेत-राक्षसादयः सूर्यादयो वाऽशुभगोचरवर्तिनः रोगाश्च-कास-श्वास-भगन्दर-कुष्ठादयः मारिश्च-सर्वगमृत्युलक्षणमशिवं दुष्टज्वराश्च-एकान्तर-तृतीय-चातुर्थिकादयः अथवा दुष्टा-दुजेनाः कुपितनृपाद्याः ज्वराच-शीततापज्वराः उपशमं-निवृत्तिं यान्ति, उपशाम्यन्तीत्यर्थः । ग्रहाथ
'तु मेदे' इति ग-पाठः । . 'माणस्व.' इति ख-पाठा, 'कृकर्मीण.' इति ग-पाठः। । विनिमयो' १०इतिख-पाठ: भयं पाठोप-प्रत्यामेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org