________________
१४
सप्त स्मरणानि । न्यादिनक्षत्राणां सञ्चारः सम्यक् निरीक्षितः । ततस्तं चेतसि धृत्वा मर्त्यलोकमवतीर्य लोकोपकारायेदं ज्योतिःशास्त्रं निर्मितमिति । ततः स तेन दम्भेन मिथ्यादृष्टीन् विप्रतारयन् तेभ्यो दानादिकां पूजां च लभमानः तया चौलिकप्रसिद्ध्या प्रमोदं दधानः कालम पीत् । अन्ते चाज्ञान
तपोऽनुष्ठानेन कालं कृत्वा व्यन्तरेमृत्पन्नः । ततो विभङ्गावधिज्ञानेन पूर्वभवस्वरूपं ज्ञात्वाऽर्हत्प्रवचने ५ प्रवेपमुद्वहन् पूर्ववैरनिर्यातनार्थमाहतसङ्के उपसर्गान् कर्तुमारेभे । ततः श्राद्धरपि तद् व्यन्तरकतमुपद्रवं ज्ञात्वा सर्वैरप्यालोच्य तत्स्वरूपगर्भा विज्ञप्तिका श्रीभद्रवाहुस्वामिगुरुभ्यः प्रेषिता । तामवधाये श्रीभद्रबाहुखामिभिस्तदुपसर्गनिवारणार्थ महाप्रभावं श्रीउपसर्गहरस्तोत्रं नूतनं कृत्वा सर्वत्र प्रेषितम् । ततः सर्वोऽपि सङ्घस्तत्पठनप्रभावान्निरुपद्रवो जातः । अत इदं सरणं ऐहलौकिकपारलौकिकसुखाभिलापिभिनरैः सर्वदा स्मरणीयम् । यतः
"स्तोत्रस्याष्टातिरिक्तं शतं यः, कुर्याजापं पञ्चगाथात्मकस्य ।
तस्यावश्यं मङ्ख नश्यन्ति विना-स्तं निःशेपा वृण्वते सिद्धयश्च ॥१॥"-शालिनी पूर्व किलास्य सरणस्य सप्त गाथा अभूवन् । ततो गाथाद्वयं श्रीभद्रबाहुस्वामिभिर्भाण्डागारे स्थापितम् । साम्प्रतं तु पश्चैव गाथाः प्रवर्तन्ते । अतोऽस्य पञ्चाशीत्यधिकशताक्षर १८५
मानस्य स्तोत्रस्येयमादिगाथा-'उवसग्गहरं पासं' इति । अहं पार्थ-श्रीपार्श्वनाथं वन्दे-नम१५ स्करोमि । कथम्भूतं पार्श्वम् ? 'उपसर्गहरपाश्च' उपसर्गाणां-देव-मनुष्य-तिर्यक् कृतोपद्रवाणां हरोनिवारकः पार्श्वनामा शासनाधिष्ठायकः सेवकयक्षो यस्य स तम् । यद्वा उपसर्गहरं पार्श्वसमीपं यस्य स तम् । अथवा उपसर्गहरा-उपसर्गनिवारका धरणेन्द्रादयः पार्थे यस्य स तम् । प्राकृतत्वाद् विन्दुरलाक्षणिकः । यद्वा उपसर्गहरमिति पृथक् पदम् । प्राशमिति पृथक् पदम् ।
उपसर्गान् हरतीत्युपसर्गहरः तम् , प्रगता आशा-प्रार्थना वाञ्छा यस्य स प्राशस्तम् । पुनः २० कथम्भूतं पार्श्वम् ? 'कर्मघनमुक्तं' ज्ञानावरणीयाद्यष्टकमोण्येव घना-मेघाः, ज्ञानाच्छादकत्वात् । तेभ्यो मुक्तो-रहितः पृथक् । (उक्तं च )___ "स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया।
चन्द्रिकावच विज्ञानं, तदावरणमभ्रवत् ॥ १॥" जीवश्चन्द्रवत् ज्ञानं चन्द्रिकावत् कर्माणि मेघवत् तदावरणं अत एव कर्मघनमुक्तम् । अथवा २५ धनानि-निविडानि-दीर्घकालस्थितिकानि च तानि कर्माणि च कर्मघनानि । प्राकृतत्वात्
व्यत्ययः । कर्मघनैः-घनकर्मभिः मुक्तो-रहितस्तम् , उत्पन्न केवलज्ञानमित्यर्थः । पुनः कथम्भूतं पार्श्वम् ? 'विषधरविपनि शं' विषधराणां-सर्पाणां विपं निर्नाशयति-निश्चितमपहरतीति विष० तम् । भगवन्नाममैत्रादपि विषधरविषनि शो भवतीति । अथवा विपं-मिथ्यात्वकषायलक्षणं . . . . ., 'चातीव प्रसिध्या' इति क-पाठः। २ 'श्रीपाश्व-श्रीपार्श्वनाथं' इति क-पाठः। ३ 'मतदेष विष' ३.इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org