________________
अनुयोगचतुष्टयव्याख्या ।
१२७ सः सोमे सोमपानेऽपि सूर्ये पक्षिणि तापसे । वृपे च सः सदानन्दे सा स्त्रियां संवने घने११२ यौवनेपि समासे च वस्तुवृन्दे समाहृतम् । पूजायां सु निपातोऽस्ति सर्वधूवच्च मातरि॥११३॥ सोमसूः सूः सुवी पुंसि प्रसवार्ता नितम्बिनी । सं सिः पुंसि परोक्षेऽपि सा च देवी सरस्वती। हं हर्षे चैव हिंसायां हीरे हारे हरौ च हः । हौस्त्यागे च रणे ज्याधः क्षः क्षं क्षेत्रे क्षये गृहे११५
___ इति श्रीविश्वशम्भुप्रणीता एकाक्षरनाममालिका समाप्ता।। शके १७२३ दुर्मतिनामसंवत्सरे माघशुद्धदशम्यां गुरुवासरे तहिने बरवोपनामक
केशवसूनुबाळकृष्णाख्येन लिखितम् ॥ श्रीकृष्णार्पणमस्तु ।।
श्रीजिनप्रभसूरिविरचिता अनुयोगचतुष्टयव्याख्या।
श्रीप्रवचनाय नमः। इह प्रवचने चत्वारोऽनुयोगाः, तद्यथा-चरणकरणानुयोगो १, धर्मकथानुयोगो २, गणितानुयोगो ३, द्रव्यानुयोगश्च ४ । तत्राद्यः कालिक श्रुते ओघनिर्युक्त्यादौ च प्ररूप्यते । द्वितीय ऋषिभाषितोत्तराध्ययनपष्ठाङ्गादौ । तृतीयः सूर्यप्रज्ञप्त्यादौ । चतुर्थो दृष्टिवादे । श्रीवज्रस्वामिनं यावदपृथक्त्वानुयोग आसीत्, एकस्मिन्नेव सूत्रे चतुर्णामपि अनुयोगानां तदा व्याख्यानात् । ततोऽर्वाग् आर्यरक्षितादारभ्य पृथक्त्वानुयोगः, प्राक् १५ कथितप्रतिनियतसूत्रेषु पृथक् पृथक् तेषां प्ररूपणात् । तत्राभियुक्तविद्वच्छिष्याणां कथमेकत्रैव सूत्रे चत्वारोऽनुयोगाः पूर्वैर्व्याख्यायन्ते स्मेति तत्कौतूहलपूरणार्थ चतुर्दशपूर्ववित्श्रीभद्रबाहुस्वामिप्रणीतावश्यकनियुक्ति(३३६)गाथायां अपृथग्विभागोपदर्शनवास्तवार्थायां चत्वारोऽपि ते यथाप्रज्ञं लेशतो दर्यन्ते । सा चेयं गाथा
"पउमाभवासुपूजा रत्ताससिपुप्फदंत ससिगोरा। '
सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥" . अत्र प्रथमपादे गणितानुयोगः, तत्र 'पर' इति पौषः, पौरादित्वात् औकारस्य अनु आदेशे आद्याक्षरद्वयेन पौषः, 'मा' इति माघः, 'भ' इति भाद्रपदः, आनायादेषां सितपक्षेऽकारप्रश्लेषात् 'अव' इत्यवमराने तिथिहासे 'लुक्' (सिद्ध०८-१-१०) इत्यकारलोपे पउमाभ(व) इति सिद्धम् ।
सम्प्रति फलमाह'असुपूज्जा' इति । ( 'सु' इति सुभिक्षम् ) असु-दुर्भिक्षम् , 'पू' इति पुहवीलोगा पुहवीसो वा तस्या 'जा' इति ज्यानिः-विनाशः। तथा चाहुः (
ख-'समाख्याते'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,