________________
उवसग्गहरस्मरणम् !
११
न्द्रादयः पार्श्वे - समीपे सततसन्निहितत्वात् यस्य तम् । अथवा उपसर्गहर मिति पृथक् । पश्यति कालत्रयवर्ति वस्तुजातमिति पश्यस्तम् । प्राकृतव्युत्पच्या 'पास' इति । यद्वा प्रगता आशा यस्य स प्राशस्तं निराकाङ्क्षमित्यर्थः । पार्श्व - श्री पार्श्वनाथं 'वेन्दामि' ति वन्दे - नमस्करोमि । तथा कर्माणि ज्ञानावरणीयाद्यष्ट तानि जीवचन्द्रमसो ज्ञानांशुमण्डलच्छादकत्वाद् घना इवजलदा इव कर्मघनाः,
“स्थितः शीतांशुवजीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥ १ ॥ ”
इति वचनात्, तेभ्यो मुक्तः - पृथग्भूतः कर्मघनमुक्तस्तम् । अत्र चन्द्ररूपकाभावेऽपि विशेषणान्यथानुपपच्या तदवगमः । अथवा और्यत्वात् घनशब्दस्य विशेषणत्वेऽपि परनिपातात् घनानि - दीर्घकालस्थितिकानि बहुप्रदेशाग्राणि वा यानि कर्माणि घातिकर्माणि तैर्मुक्तं- त्यक्तम्, उत्पन्न केवलज्ञान - १० मित्यर्थः । तथा विषधरा- अनन्त वासुकि- तक्षक-कर्कोट-पद्म- महापद्म-शङ्खपाल - कुलिक-जय-विजयलक्षणदशनागकुलजाता नागास्तेषां विषं पार्थिवादिभेदभिन्नं निर्नाशयति - निश्चितमपहरति (इति) विषधर विषनिर्नाशस्तम् । भगवन्नामÎतमन्त्रजापाद् हि सर्वविषधरविषनाशः सुप्रतीत एव मात्रिकाणाम् । यदिवा विषं-पानीयं प्रस्तावात् 'मैणिकर्णिका'जलं तत्र 'घरं' ति गृहं निवासो यस्यासौ पिगृहः । प्रायेण 'वाराणसी 'वासिनः पञ्चाग्नितपश्चरणं 'मणिकर्णिका' तीर एव कुर्वाणा दृश्यन्ते । १५ स च सामर्थ्यात् कम मुनिस्तस्य वृपं धर्मं लौकिकैर्धर्मतया गृह्यमाणत्वात् पञ्चाग्नितपश्चर्यालक्षणं निर्नाशयति यः, प्रज्वलज्वलनदह्यमान काष्ठ कोटरान्त म्रियमाण र्सर्पप्रदर्शनेन मातुर्लोकानां च मनसि तत्तपसोऽधर्मरूपत्वनिश्चायनात् तम् । अनेन गृहस्थावस्थावदातसूचितं परमकारुणिकत्वं च कुमार्गनिर्लोठनात् । अथवा विषं-मिथ्यात्वकपायादिलक्षणं भावविषं धारयन्तीति विषधरा विषगृहा वा मिथ्यात्वकषायादिदोषदूषितात्मानः प्राणिनः तेषां विषं यथोक्तरूपमेव निर्नाश- २० यति-निजवचनामृतरसोपयोजनेनापगमयतीति विपधरविषनिर्नाशो विपगृहविषनिर्नाशो वा तम्, तथा मङ्गलानि च विपदुपशमरूपाणि, कल्याणानि च सम्पदुत्कर्षरूपाणि तेषां उभयेषामप्यावास इवावासः - क्रीडास्थानं तम् । अत एव हि भगवन्तं मङ्गलकल्याणावासं पर्युपासीना अपि तदुभयभाजनं भवेयुः ।
Jain Education International
[ सिद्धाः ! भो प्रयतो नमो जिनमताय नन्दिः सदा संयमे देवनागसुवर्णकिन्नरगणसद् भूतभावार्चिताय ।
लोको यत्र प्रतिष्ठितो जगदिदं त्रैलोक्य मर्त्या सुरं
धर्मों वर्धतां शाश्वतो विजयतां धर्मोत्तरं वर्धताम् ॥ ]
१ 'बन्दामि इति' इति क-पाठः । २ 'आर्थत्वेन' इति ख- पाठः । ३ 'भूत' इति पाठः । ४ श्रीम. णिकर्णिकाष्टकं मुद्रितं वृहत्स्तोत्रमुक्ताहारे ( पृ० ३१९ ) । ५ ' तपश्चर्यादि-' इति पाठः । इति ख- पाठः, 'सर्पेऽपि हर्श०' इति गन्पाठः ।
६ 'सर्वोपदर्श'
५
For Private & Personal Use Only
२५
३०
www.jainelibrary.org