Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika
Catalog link: https://jainqq.org/explore/600200/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Educat श्री वीर संवत् २५१८ द्रव्य सहायका एका श्रमणोपासका भीनमाल (राज० ) णमो समणस्स भगवप्रो महावीरस्स मोखमासमणानं सूरि राजइन्दाणं महामुणिगं श्री चक्कवट्टिस्स कहा ( श्री द्वादश चक्रवर्ती चरितम् ) संयोजक : मुनि श्री जयानंद विजयः S 卐 श्री राजेन्द्र सं० ८५ प्राप्ति स्थान शा बाबुलालजी अमीचंदजी बाफना माघ कॉलोनी शा दौलतराजः पृथ्वीराजः कम्पनी शा देवीचन्दः छगनराजजी भीनमाल : ( राज० ) rary.org Page #2 -------------------------------------------------------------------------- ________________ EXXXXXXXXXXXXXXXXXXXXX प्रस्तावना णमो समणस्स भगवनो महावीरस्स श्री वीर संवत्सरसार्द्धद्विसहस्राष्टदशमेवर्षे भीनमालनयरे श्रीयुत् बाबुलालजी अमीचन्दजी बाफणा परिवारेण कारिते चातुर्मासे विदुषी संयत्योऽध्ययनार्थे प्रतिदिनमागच्छन् । तत्समये संस्कृत चरितम् प्रकाशनार्थवार्तालापोऽभवन् । यद्यपि त्रिषष्ठी शलाकापुरूषाणां चरित्राणि वर्णनीयमस्ति, तेषां रचनाः पूर्वाचार्यैर्बहुविधाः कृताऽस्ति । तथा प्यसामवसपिण्यां द्वादश चक्रीणां चरितम् पृथग् नास्तीति स्मृतिपथमागतः । श्री लक्ष्मीवल्लभगणिकृता श्री उत्तराध्यन सूत्रटीकान्तर्गताष्टादशमसंयताध्ययनात् श्री रामविजयजी गणिकृता श्रीउपदेशमालाटीकायैवं श्री त्रिषष्ठिशलाका पुरूषगद्यमयचरित्रात् द्वादशचक्रीणां चरित्राणि संकलनेन शुश्रुषाणां भव्यजीवानामुपकारायेदं चरितम् प्रकाशितकरणमिति निश्चित कृतं । तदनुसारेणेदं संकलनं सतां हितायभविष्यतीति स्वपरोपकाराय मया किंचित प्रयास कृतं । तत्समये एकया श्राविकया गुप्तनामेनेदं चरितं प्रकाशनार्थे वित्तं समर्पितम् । इदं चरितं प्रकाशन करणविषये विदुषीसंयतीभिरतीव सहायता कृता । मम अल्पज्ञेनेदं संकलनं कृतं । अतो जिनाज्ञाविरूद्धं किंचिद् भवेत् तद् मिच्छामि दुक्कडं । भीनमालः "शुभम्” शुभम्" शुभम्" ज्ञान पंचमी जयानन्दः वी. २५१८ RXXXXXXXXXXXXXXXXXXXXXXXX ॥२॥ For Personal & Private Use Only wwwjamelibrary.org Page #3 -------------------------------------------------------------------------- ________________ ३ “शुद्धि-पत्रक" शुद्ध करोमीति कुतः घिङ्मां एते XXXXXXXXXXXXXXXXXXXXXXXX पेज पंक्ति प्रशुद्ध ३ भरतश्चितयति ४ गतकोर: ९ सन्मुस्वं ११ चक्रिणपि १० पुत्र १ चेद ३ षट्खंडण्ज्येनापि २ मद्वाहरेक ६ तेवायं & सहिष्यानि २ विलेषु १२ १२ कृस्य 2020mn Garwa भरतश्चिन्तयति गतकोपः सन्मुखं . चक्रिणापि पुत्री चेद् षट्खण्डराज्येनापि मद्वाहुरेक तैवार्य सहिष्यामि पेज पंक्ति अशुद्ध १२ १३ करोमोति १० कृतः १३ ११ घिडमा १४३ पते ५ ममापरिमितेन १२ काकिणीरत्ने न ११ मरिचिश्च ११ तच्छु त्वा १६९ जहनु कुमारोवर्तते ३ अभिनिवकारणात् २५ १० क्रोद्रव्य ३१ १२ वकुलमतिके BREXXXXXXXXXXXXXXXXXXXXXX मम परिमितेन काकिणीरत्नेन मरीचिः तच्छु त्वा जह नुकुमारो वर्तते अभिनवकरणात् कोद्रव्य बकूलमतिके बिलेषु कृत्य Jain Education n ational For Persona & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ शुद्ध शुद्ध ॥४॥ देवेन पेज पंक्ति अशुद्ध १३ वकुलमति ३५ २ सन्ध्वया ३८ १० पष्ठः ६ वजनं बकुलमति सन्ध्या षष्ठः वचनं पेज पंक्ति अशुद्ध ६. १४ देबेन ६१६ खड १०५ १३ सोडन्तः १० भणितावान् ८ र्भारयित्वा ८ इत्यंभिप्रायं . १३० १३ पुश्चाणामूपर्यंह १३१ ६ उक्तं १३१७ क्व EXXXXXXXXXXXXXXXXXXXXXXX खण्ड सोऽन्तः भणितवान् मरियित्वा इत्यभिप्राय पुरुषाणामुपर्यहं उक्तं क्व? १२७ १२ तव ५ ममम ११ परलकोऽपि १ चक्रयक्त तत् मम परलोकोऽपि चक्रय क्त KXEXXXXXXXXXXXXXXXXXXXXXXXX ॥४॥ For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ ************************ णमो समणस्स भगवओ महावीरस्स” " णमो खमासमणाणं गोयमाणं महामुनिणं" " गमो खमासमणाणं सूरिराजइन्दाणं महामुणिणं” " श्री चक्कवट्टिस्स कहा” ( श्री द्वादशचक्रवर्ती चरितम् ) णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं । णमो उवज्झायाणं, णमो लोए सव्व साहूणं ॥ एसो पंच नमुक्कारो, सव्वपावपणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ नमिऊण जिणवरिंदे इंदन रिंदच्चिए तिलोयगुरू । चक्कवटि टस्स कहा, बुच्छामि गुरूवरसेणं ॥ अस्मिन् जम्बुद्वीपे भरतक्षेत्रेऽस्यामवसर्पिण्याम् भरतचक्रिणा ऋषभदेवः पृष्टः । हे भगवन् ! अस्याम् पर्षदि भगवता सदृश भात्री तीर्थंकरजीवः सन्ति न वा १ तदा भगवानाह - "समवसरणे नास्ति परं बहिर्तवसुतो मरीचिना For Personal & Private Use Only ******* ************ Page #6 -------------------------------------------------------------------------- ________________ चकवट्टिस्स कहा" "प्रथमः श्रीभरतचक्रवर्तीचरितम्" KXXXXXXXXXXXXXXXXXXXXXXX म्नाऽस्यामऽवसर्पिण्यां चरमतीर्थकरो महावीरनामा भविष्यति। तदनुसारेण क्षत्रियकुंडनगरे श्रीसिद्धार्थ राज्ञा गृहे त्रिशला राज्याः पुत्रत्वेन श्रीमहावीरो जातः । श्रीमहावीरो दीक्षा गृहीत्वा सार्द्धद्वादशवर्षपर्यंतं देवमनुजतियंचादि कृतानि घोरोपसर्गानि कर्मक्षयार्थ शांतभावेन सहमानेन व्यहरत । ___ माधवशुक्लदशम्यादिवसे ऋजुवालिकानद्यास्तीरे केवलज्ञानमुत्पन्नम् । तत्पश्चात् तीर्थस्थापनांकृत्वा विहरतिस्म। एकदा गौतम गणधरेण महावीरस्वामिनं प्रपच्छ "हे भगवंत् ! अस्यामवसपिण्याम् द्वादश चक्री बभुव । तेषाम् चरित्राणि श्रवणार्थ मम महत्युत्कंठाऽस्ति, अतः कृपां कृत्वा तेषाम् चरित्राणि श्रावय । तदा भगवता निम्नानुसारेण द्वादशचक्रिणाम् चरित्राणि अश्रावयत । "प्रथमः श्रीभरतचक्रवर्तीचरितम्" अयोध्यायां नगर्या ऋषभात्मजो भरतनामा चक्री बभूव. श्रीऋषभस्वामिना संयमग्रहणवेलायां शतसंख्येभ्यो निजपुत्रेभ्यो निजनिजनामांकितादेशा दत्ताः, बाहुबलये बहलीदेशे तक्षशिलाराज्यं दत्तं. भरताय चाऽयोध्याराज्यं दत्तं, स भरत एकदा सभायां स्थितोऽस्ति, तस्मिन्नवसरे यमकशमकनामानौ द्वौ नरौ वर्धापनिकां दातुंसभामुखप्रतोल्यामागतो. प्रतिहारेणागत्य भरताय निवेदितं. भूसंज्ञयाऽनुज्ञापितो दौवारिकस्तौ यमकशमकावाकारयामास. तौ चागत्य करकमलौ मुकुलीकृत्य भरतमाशीर्वचनपुरस्सरं तुष्टुवतुः, तयोर्मध्यादेको यमकनामाविज्ञपयति देव ! पुरिमतालपुरे XXXXXXXXXXXXXXXXXX ॥२॥ Jain Educa t ional For Personal & Private Use Only Mbikhelibrary.org Page #7 -------------------------------------------------------------------------- ________________ ॥ ३ ॥ ********** शकटोद्याने श्री ऋषभस्वामिनः केवलमुत्पन्नं, अतोऽनया वर्द्धापनिकया वर्द्धाप्यसे, अन्यः शमकनामा वक्ति देव ! आयुधशालायां सहस्र सुरसेवितं कोटिसूर्यप्रकाशासंकाशं चक्ररत्नं समुत्पन्नं एतन्नरद्वयमुखाद्वर्षापनिकाद्वयं श्रुत्वाऽतीवहर्षितो भरत आजीवितांतं दत्तभोगाऽक्षयं धनं दत्वा तेन तौ सन्मानितौ भरतश्चितयति प्रथमं कस्योत्सवं करोमि ९ ज्ञानस्य वा चक्रस्येति विचारणायां पुनरपि विचारितं, घिग्मया किं चिंतितं १ अक्षयसुखविधायी तातक्व ९ संसारसुखहेतुकं चक्रं क्व ९ ताते पूजितं चक्रमपि पूजितमिति निश्चित्य महाडंबरेण मरुदेवां सुतमोहविह्वलां ऋषभऋषमेति नाम जयंती स्वां पितामहीं गजस्कंधामारोप्य भरतो वंदनार्थं चलितः, भरतो मार्गे मरुदेवां वक्ति मातर्विलोकय निजपुत्र ! त्वं प्रतिदिनं मामेवमवादीर्यन्मदीयोंगजो वने पर्यटतिं दुःखं सहते, त्वं तु तस्य सपर्या न करोषि इति प्रतिदिनमुपालंभं दत्तवती. अधुना सुतैश्वर्यं विलोकय ९ एतस्मिन् समये चतुःषष्टिसंख्यैः सुरेद्रैर्मिलित्वा समवसरणं विरचितं देवदेवीनां कोट्यो मिलिताः संति. अनेकवाजित्ररवापूर्णदिगंतरालगगनमंडलं जयजयशब्दध्वनीगीतगानादिपुरस्सरं प्रभुः सिंहासने स्थित्वा देशनां ददाति. तदा देवदु दुभिनिर्घोषं जयजयारवं च श्रुत्वा मरुदेवा वक्ति किमेतत्कौतुकं १ भरतो वक्ति एतत्तवांगजस्यैश्वर्यं. मरुदेवा चितयति अहो पुत्रेणैतावती ऋद्धिर्लब्धास्तीत्युत्कंठावशादानंदाश्रुनिर्गमनेन नयनयोः पटलदोषो गतः, सर्वमपि प्रत्यक्षेण दृष्टं, अहो अयं त्वेतादृशमैश्वर्यं भुनक्ति, परंत्वेकवारमध्यहमनेन पुत्रेण न स्मृताः, अहं त्वेकवर्षसहस्र यावत्पुत्रमोहेन दुःखिता, एतस्य तु मनसि किमपि मोहकारणं नास्ति, अहो घिग्मोह चेष्टितं ! मोहांधाः किमपि Jain Educatinational For Personal & Private Use Only ॥ ३ ॥ elibrary.org Page #8 -------------------------------------------------------------------------- ________________ र "श्री चक्कवट्टिस्स "प्रथमः श्रीभरत| चक्रवर्ती| चरितम्" कहा" ॥४॥ ९XXXXXXXXXXXXXXXXXXKAL न जानंति इति वैराग्यरसैकमग्नया क्षपकश्रेणिमासाद्याष्टकर्मक्षयं कृत्वांतकृत्केवलित्वेन मोक्षं गता निर्मितः, इंद्राद्याः सर्वेऽपि सुराः समवसरणादम्येत्य मरुदेवाशरीरं क्षीरोदधिप्रवाहे वाहयामासुः, सशोकं भरतमग्रेसरं कृत्वा समवसरणामागताः, प्रभु त्रिःप्रदक्षिणीकृत्य भरतोऽपि यथास्थानं निविष्टः, प्रभोर्देशना श्रुता गतशोकश्च जातः, देशनाते प्रभु वंदित्वा श्राद्धधर्म प्रतिपद्य भरतोऽयोध्यामागत्य चक्ररत्नोत्सवं करोतिस्म. अष्टसु दिवसेषु गतेषु चक्रं पूर्वाभिमुखं चलितं, भरतोऽपि देशसाधनार्थ तदनु ससैन्यो निर्गतः, योजनावधिप्रयाणं कुर्वन् कतिभिर्दिनः पूर्वोदधितटं सैन्यं स्थापयायमास, अष्टमं तपश्चकार, मागधनामानं सुरं मनसि कृत्वा तस्थौ. दिवसत्रयानंतरं रथमारुह्य समुद्र जलं रथनाभिपर्यतमवगाह्य निजनामांकितं वाणं धनुषा संयोज्य मुमोच, द्वादशयोजनानि यावद्गत्वा तद्वाणं मागधसभायां सिंहासने निपत्य भूमौ पपात. तत्पातदर्शनादेव जातकोपो मागधस्तं बाणं करे धृत्वा अक्षराणि वाचयामास. भरतचक्रिणमागतं ज्ञात्वा गतकोरः प्राभुतं गृहीस्वा सन्मुस्वं सपरिकरचलितः, आगत्य चक्रिणश्चरणयोः पतत् स्वामिन् क्षमस्व मदीयापराधं ? तब सेवकोऽहं इयंति दिनानि यावदनाथोऽधुना त्वदर्शनेन सनाथो जात इति नमस्कृत्य चक्रिणमावर्जयित्वाऽनुज्ञातः सत् स्वस्थान जगाम. चक्रिणपि पश्चादेत्याष्टमतपःपारणं कृतं. तदनु चक्रमाकाशे चलितं, सैन्यमपि तदनुचलितं. दक्षिणोदधितटं प्राप्तं च पूर्ववत्तद्दिक्स्वामी वरदामोऽपि जितः, तदनु पश्चिमदिशि प्रभासं विजित्योत्तराभिमुखं चक्रं चलितं. तस्यां दिशि वैताढ्यनगमासाद्याऽष्टमतपो विधाय तमिस्रागुहाधिष्टातारं देवं मनसि धृत्वा तस्थौ, अष्टमतपोंते देवेन प्रत्यक्षीभूय तमिस्राविवरमुद्धाटितं ससैन्यश्चकी तमिस्रामध्ये चचाल. मणिरत्नप्रकाशेन सैन्यं SEXXXXXXX ॥४॥ Jain Educatatemalonal For Persons & Private Use Only nelibrary.org Page #9 -------------------------------------------------------------------------- ________________ ।। ५ ।। ***** गच्छति गुहामध्ये निम्नगोन्निम्नगे द्वे नद्यौ समागते, चर्मरत्नेन च ते द्वे नद्यौ समुत्तीर्णे, अग्रेतनं गुहाद्वारमा - साद्य सैन्यं स्थापितं, तत्र म्लेच्छराजानो बहवो मिलिताः, चक्रिणा सार्द्धं च युद्धं कर्तुं लग्नाः, चक्रिणा ते सर्वेऽपि जिताः सर्वेऽपि सेवकाच जाताः, तत्रत्यं खंडत्रयं च जित्वा पश्चाद्वलितश्चक्री, मार्गे समागच्छता तेन गंगातीरमासाद्य सैन्यं स्थापितं तत्तीरे च नवनिधानानि प्रकटितानि, तन्निधानस्वरूपं च किंचिद्गाथया लिख्यते, तत्र प्रथमं तन्ना - मानिस १ पंडुए २ | पिंगलए ३ सव्वरयणं ४ महपउमे ५ || काले अ ६ महाकाले ७ | माणवग ८ महानिहीसंखे ६ | १ | चक्कद्धपइठाणा अठ्ठुस्सेहा य नव विख्खंभे || बारसदीहा मंजूससंठिआ जाह्नवीमुहे || २ || वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा || पलिउचउमठिईणं । देवाणं ते अ आवसा || ३ || इति निधानगाथाः. तत्राष्टौ दिवसान् यावन्महोत्सवं कृत्वा तत्र गंगातीरे से तस्थौ, तदधिष्टायिकया गंगया नाम्न्या देव्या सह वर्षसहस्र यावद्भोगान् बुभुजे . ततोऽनंतरं चक्रं चलितं. वैताढ्यपर्वते तेन नमिविनमिनामानौ विद्याधरौ जितौ, तेन नमिविद्याधरेण स्वकीया पुत्र चक्रिणे दत्ता, सा च स्त्रीरत्नं जाता. एवं षष्टिवर्षसहस्राणि यावदिग्विजयं कृत्वायोध्यायां पुन-. राजगाम । ततोनिजपुरुषाः षष्टिं वर्षसहस्राणि विरहाद्दर्शनोत्सुकान् निजान् राज्ञोऽदर्शयन् । ततः कृशां म्लानां प्रणष्ट लावण्यां पाण्डुक्षामकपोलां बाहुबलिनः सोदरां सुन्दरीं नाम ग्राहं स्वपुरूषैर्दृश्यमानां स ददर्श । तां तथाविधां प्रेक्ष्य भरतः सकोपं स्वायुक्तानवोचत् - " किं मद्गृहे भक्ष्यान्नपानफलादीनि न सन्ति १ येनेषा सुन्दरीदृशीं दशां गता १, Jain Education national For Personal & Private Use Only ॥ ५ ॥ Page #10 -------------------------------------------------------------------------- ________________ "प्रथमः चक्कवट्टिस्स कहा" . श्रीभरतचक्रवर्तीचरितम्" यद्येषारोगिणीचेद, भिषग्वरा न सन्ति ?, ततस्ते प्रणभ्य भरतं प्रोचुः-“देवस्य सर्वमप्यस्ति, किन्तु देवस्य दिग्विजय गमनादारभ्यैषा प्रागताणाय केवलमाचाम्लान्येव कुरूते। प्रवज्यानिषेधकालाच्चारभ्यैषा भावतः संयतैव तिष्ठति"। ततो राज्ञा मुदितेन व्रतायाऽनुज्ञाता सा तपः कृशाऽप्यकृशेव जाता। भरतसुन्दयौं तमष्टापदगिरि प्रापत् । सपरिवारेण जिनं वंदित्वा स्तुत्वाच यथोचितभुवमुपरिवेश । सुन्दरी दीक्षा याचितवती। जिनेश्वरश्च “साधु साधु महासत्वे !" इति तामभिनन्द्य सामायिकसूत्रोचारपूर्वकं तस्यैदीक्षामनुशासनात्मिका देशनां च ददौ । ततः सा मोक्षप्राप्तमिवात्मानं मन्यमाना वतिनीनां मध्येऽनुज्येष्ठं निषषाद । ततो भरतो स्वामिनो देशनां श्रुत्वा प्रणम्याऽभ्योध्यानगरी प्रति मुदितो ययौ। सुषेण सेनापतिनागत्य नृपाग्रे प्रोक्तं, प्रभो! चक्रमायुधशालायां नायाति, चक्रिणोक्तं किं कारणं? सुषेणेनोक्तं भवतामुनुजा भवदाज्ञा न मन्यन्ते ततः भरतेन । सर्वेषामष्टनवतिसंख्याकानां बांधवानामाकारणार्थ दृता प्रेषिताः, दूतैस्तत्र गत्वोक्तं भवतो भरतः समाह्वयति, ततः सर्वेऽपि बांधवा मिलिता मनसि विचारं कतु लग्नाः. यदयं भरतो लोभपिशाचेन ग्रस्तो मत्तो जाता. षट्खंडराज्यं गृहे प्राप्तं, तथाप्यस्य लोभतृष्णा न शांता, अहो लोमांधता! यदुक्तं-लोभमूलानि पापानि । रसमलाश्च व्याधयः॥ स्नेहमृलानि दुःखानि । त्रीणि त्यकत्वा सुखीभव ॥१॥ तथा चोक्तं-भोगा न भुक्ता वयमेव भुक्ता-स्तपो न तप्तं वयमेव तप्ताः॥ कालो न यातो वयमेव याता-स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥२॥ अतो बलात्कारेणाप्ययं राज्यं गृहीष्यति, ततश्च तस्य सेवा कर्तव्या भविष्यति, एवं XXXXXXXXXXXXXXXXXXXX ॥६ ॥ Jain Educa t ional For Persona & Private Use Only Imandinelibrary.org Page #11 -------------------------------------------------------------------------- ________________ तस्य सेवा तु वयं न करिष्याम इति सर्वैरपि बांधवैरंगीकृतं, सर्वेऽपि श्रीऋषभस्वामिसमीपं निजवृत्तांत निवेदनार्थ गताः, तत्र प्रभं वंदित्वा करौ योजयित्वा विज्ञपयामासः, प्रभो मत्तोऽयं भरतोऽस्माकं राज्यं गृहीतमुद्यतः, वयं व यामः १ वयं तु श्रीतातदत्तैकदेशराज्येनापि संतुष्टाः स्मः, स तु षखंडण्ज्येनापि न संतुष्टः, इति तेषां वचनानि श्रुत्वा प्रभुः प्राह किमेतया नरकांतया राज्यलक्ष्म्या १ अनेन जीवेनानंतशो राज्यलक्ष्मीरनुभूता, तथापि न तृप्तो जातः, स्वप्नोपमोऽयं राज्यलीलाविलासः, यदुक्तं संपदो जलतरंगविलोला । यौवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव चञ्चलमायुः । किं धनैः कुरुत धर्ममनिद्यं ॥१॥ अतो भो पुत्राः कोऽयं मोहविलासः कस्य सुता ? कस्य राज्यं ? कस्य नायः १ किमपि सार्थे नागमिध्यतीति. यदुक्तं-द्रव्याणि तिष्टन्ति गृहेषु नार्यो। विश्रामभूमौ स्वजनाः स्मशाने ॥ देहं चितायां परलोकमार्गे। कर्मानुगो याति स एव जीवः ॥१॥ अतो राज्यं त्यजध्वं ? कुरुध्वमक्षयं मोक्षराज्यं ? इति प्रभुर्देशनां श्रुत्वा सर्वे| ऽपि प्रवजिताः, निरतिचारं चारित्रं च प्रपन्नाः, दूतैरागत्य भरताय तन्निवेदितं, तदा तेनापि बंधुसुतानाकार्य निजं निजं राज्यं दत्तं. तैः भरताज्ञा स्वीकृतं ततोऽपि चक्रमायधशालायां न प्रविशति, तदा सुषेणसेनापतिनागत्य नृपाय प्रोक्तं, प्रभो चक्रमायुधशालायां नायाति, चक्रिणोक्तं किं कारणं ? सुषेणोनोक्तं स्वामिन्नद्यापि कोऽपि रिपुः स्थितो विलोक्यते, चक्रिणोक्तं षट्खंडमध्ये मम शिरसि कोऽपि रिपुर्नास्ति. सुषेणेनोक्तं स्वामिन् भवतामनुजो बाहुबलिनामा भवदाज्ञां न मन्यते. अतोऽनुजोऽपि सन् यो वृद्धभ्रातुराज्ञां न मन्यते, स रिपुरेव ज्ञेयः, यस्याज्ञा स्वगृहेपि न XXXXXXXXXXX XXXXXXXXXXXXXXXX ॥ ७ ॥ Jain Educati Plelibrary.org For Personal & Private Use Only o nal Page #12 -------------------------------------------------------------------------- ________________ "श्री "प्रथमः बकाहिस्सा कहा" श्रीभरतचक्रवर्तीचरितम्" ॥८ ॥ KXXXXXXXXXXXXXXXXXXXXXXX चलति स किं स्वामी ? अतः स आज्ञावती विधेयः. भरतेन चिंतितं मद्भयात्सर्वैरपि बांधवैश्चारित्रं गृहीतं, अधुना तु मद्वाहुरेक एव बन्धुरास्ते, सोऽप्यनुजस्तस्योपरि किं विधीयते ? सुषेणेनोक्तं स्वामिन्नत्र विचारो न विधेयः, किं तेन गुणहीनेन बन्धुना ! स्वर्णमय्यपि छुरिका हृदये क्षेप्तुन योग्या, अतो दूतं मुक्त्वा तमाकारयत ? परं तु सर्वथापि स नाऽऽयास्यति, इति सुषेणवचनात्संजातम! भरतः सुवेगनामानं दूतमाहूय प्रोक्तवान् , तक्षशीलायां मदीयानुजबाहुबलिसमीपं व्रज ? तमाकार्य समागच्छेति भरतवचनं श्रुत्वा शिरस्याज्ञा मान्यमिव निधाय रथमारुह्य सपरिकरः सुवे. गश्चचाल. मार्गे व्रजतस्तस्य प्रथमं बहून्यपशकुनानि जातानि, तेर्वायमाणोऽपि स्वाम्याज्ञापालनोद्यतश्चचाल, कियद्भिदिनैर्बहलीदेशं प्राप. तन्निवासिभिलों के पृष्टं कोऽयं ? क्व व्रजति ? तदनुचरेरुक्तं सुवेगनामानं भरतदूतो बाहूबलेराकारणार्थ व्रजति. तदा लोकैः पुनरुप्युक्तं कोऽयं भरतः ? सुवेगसेवकैरुक्तं षट्खण्डाधिपतिर्जगद्विभुभरतो लोके विख्यातोस्ति. तदा लोकैरुक्तं एतावदिनपर्यंतमस्माभिस्तु न श्रतः, स क स्थितः १ अस्माकं तु देशे स्त्रीणां स्तनोपरिवर्तिनीषुकंचुकीषु भरतचित्रं यद्वर्तते तत् श्रूयते परंतु स न श्रतः, अस्माकं विभुः क्व ? क्व चायं भरतः? योऽस्मत्स्वामिभुजदन्डप्रहारं सहते तादृशः कोऽपि नास्तीति लोकमुखाद्वाहुबलिबलप्रकर्षशृण्वन् स चकितः सन् तक्षशिलायां प्राप. बाहुबलेरास्थानसभायामागतः. दौवारिकेण नृपाय दूतागमनं निवेदितं तदाज्ञया रथादुत्तीर्य दूतो बाहुबलिसमीपमेत्य तच्चरणौ ननाम. बाहुबलिना दूताय सर्वमपि भ्रातृकुशलादिकं पृष्टं, दूतेनोक्तं कुशली तव सोदरो भरतः, कुशलिनी चोऽयोध्यापुरी, कुशलिनस्तस्य सपादकोटयः पुत्राः यस्य गृहे चतुर्दशरत्ननवनिधानादिमहत्यैश्वर्यसंपत , तस्याऽकुश K*************XXXXXXXXX ॥८॥ Jain Educa t ional For Personal & Private Use Only W eitrary.org Page #13 -------------------------------------------------------------------------- ________________ ॥8 ॥ XXXXXXXXXXXXXXXXXXXXX विधातु का क्षमः १ परंतु सर्वापि संपत्प्राप्ता, तथापि स्वकीयसहोदरदर्शनाय तस्य महत्युत्कंठास्ति. अतस्त्वं तत्रागत्य स्वसंगमजनितसुखातिरेकेण तं परमप्रमोदयुक्तं कुरु ? यदि नागमिष्यसि तदा तवोपरि कुपितः सन् स महतीं बाधामुत्पादयिष्यति. यस्य द्वात्रिंशत्सहस्रराजानः सेवा कुर्वन्ति, तस्य चरणसेवनया तवापि न कोऽप्युपहासः, न दुःखं पञ्चभिः सहेति वचनात्. अतो मानं त्यक्त्वा समागच्छेति वचो निशम्य क्रुद्धो ललाटे त्रिवलिं विधाय भुजास्फोटं कुर्वत् जगाद. भोः कियन्मानं भरतः १ कियन्मात्राणि तस्य चतुर्दश रत्नानि ? कियन्मात्रास्तस्य सेवकाः १ एतस्य भरतस्य किं तद्विस्मृतं १ यत्पूर्व गंगातीरे बाल्यावस्थायामाकाशे कन्दुकवदुच्छालितः. पश्चाद्गगनानिपतन् कराभ्यां च धृतः, तन्मदीयं बलमेतस्य विस्मृतं विलोक्यते, यत्वं प्रेषितोऽसि. एतावदिनपर्यतं मया स वृद्धभ्राता पितेवाराधितः, अधुना तु मयोपेक्षितः, किं तेन गुणहीनेन लोभातुरेण वृद्धेनापि भ्रात्रा ? येनाष्टानवतिसंख्यामामपि सोदराणां राज्यानि गृहीतानि, ते तु कातरत्वेन लोकापवादभीत्या राज्यं त्यक्त्वा संयम ललुः, परं त्वहं न सहिष्यानि. मदीयभुजप्रहारं केवलं स एव भरतः सहिष्यति, परंतु तत्सहनार्थमन्यः कोऽपि नापास्यति, ततो याहि ? अवध्योऽसि, मदीयदृष्टेरपसरेति क्रोधारुणलोचनं सूर्यमंडलमिवोदिप्तं तदीयमुखमालोक्य सुवेगो भीतः सन् शनैः शनैरपससार. पश्चाद्वलित्वा क्षतमानो भूत्वा रथमारुह्य निर्गच्छतिस्म. बहलीदेशं विलोकयन् लोकवाक्यानि शुश्राव, अहो कियन्मानं भरतः ! यदस्मत्स्वामिना सार्द्ध युद्धं कर्तुं वाञ्छति, परमेतत्समानः कोऽपि मूखो नास्ति, येन सुप्तसिंहोच्छापनं कृतमिति लोकानां वाक्यानि शृण्वन् सुवेगो EXXXXXXXXXX XXXXXXXXXXXXXX Jain Educa t ional For Persona & Private Use Only Kelibrary.org Page #14 -------------------------------------------------------------------------- ________________ "श्री "प्रथमः किवाट्टिस्स कहा" श्रीभरतचक्रवर्तीचरितम्" विस्मयं प्राप. अहो ! यदेशनिवासिनो लोका अप्येवं शौर्य रक्षन्ति तत्खलु स्वामिप्रभावोऽयं, न त्वेषां प्रभावः, भरतेन किमिदं कृतं ? असमंजसमेतत्कृतं, इति विचारयन् कियद्भिर्दिनैलोकान् भाषयन् सोऽयोध्यां पुरीं प्राप. भरताय तेन सर्वमपि निवेदितं, स त्वदीयोऽनुजस्त्वां तृणवन्मन्यते. किंबहुनेति दूतवाक्यं श्रुत्वा ससैन्यो भरतस्तं प्रति चचाल महती भरतसेना चलिता, दिक्चक्रं चलितं यदुक्तं सैन्यस्वरूपं-दिक्चक्रं चलितं भयाजलनिधिर्जातो महाव्याकुलः। पाताले चकितो भुजंगमपतिः क्षोणीधराः कम्पिताः॥ भ्रान्ता सा पृथिवी महाविषधराः श्वेडं वमत्युत्कटं । वृत्तं सर्वमनेकधा दलपतेरेवं चमूनिर्गमे ॥१॥ अष्टादशकोटीप्रमिताश्ववारं दलं मेलयित्वा भरतः स्वहस्तिरत्नमारुह्य बाहुबलीजयार्थ निर्गतः, कियद्भिर्दिनैहलीदेशं प्राप्तः, बाहुबलिनापि श्रुतं भरनः समागतः, महतीं सेना मेलयित्वा विलक्षपुत्रपरिवृतः सोमयशानामानं स्वपुत्र सेनापति स्थापयित्वा स महता दलेन निर्गतः, उभयमपि सैन्यं सन्मुखं मिलितं, उभयोरपि सैन्ययोश्चतुरशीतिसहस्राणि रणतूर्याणां निनादैर्भरीणां भांकारैनिःस्वनानां निर्घोषैः कर्णयोः पतितः शब्दोऽपि न श्रूयते, उद्भटेरणभुवि विकटगाहितानेकसंघट्टमर्दितपश्चाननभटेविस्तारितयशःपटैभेटै युद्धमारब्धं, महान वीरध्वनिरभूत, शब्दाद्वैतमयं जगजातं. एके वै हन्यमाना रणभुवि सुभटा जीवशेषाः पतन्ति । ह्य के मूर्छा प्रपन्नाः स्युरपि च पुनरुन्मूर्छिता वै पतन्ति ॥ मुश्चन्त्येकेऽट्टहासान्निजपतिकृतसन्मानमाद्यं प्रसादं । स्मृत्वा घावन्ति मार्गे जितसमरभयाः प्रौढिवतो हि भक्त्या ॥१॥ एवं महति युद्ध केचिद्भटा गजघटा चरणे गृहित्वा नभसि भ्रामयन्ति, केचित्सिंहनादं कुर्वति, केचिद् भुजास्फाटेन *****XXXXXXXXXXXXXXXXXXXX ॥१०॥ Jain Educa l ernational For Personal & Private Use Only Pakhinelibrary.org Page #15 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXXXXXX वैरिहृदयं विदारयंति. एवं स्वामिना भ्रूसंज्ञया हक्कारितं भटैरुत्कटं रणमारब्धं, यदुक्तं-राजा तुष्टोऽपि भृत्यानां, मानमात्रं प्रयच्छति । ते तु सन्मानमात्रेण, प्राणैरप्युपकुर्वते ॥ १॥ मित्रं मित्राय वक्ति कातरो मा भव ? रणे उभयथा सौख्यं, जिते सति इह लोके सौख्यं मते सति सुरवल्लभालिंगनादिजनितं सौख्यं लभ्यते. तथा चोक्तं-जिते च लभ्यते लक्ष्मी-मृते चापि सरांगना । क्षणविध्वंसिनी काया, का चिंता मरणे रणे ॥१॥ एवं युद्धे जायमाने द्वादश वर्षाणि व्यतीतानि. किमपि सैन्यं न पश्चाद्वलितं. एतस्मिन्नवसरे देवानां कोटयो युद्धविलोकनार्थ नभोमण्डलमार्गेणागताः, सौधर्मेन्द्रेणागत्य चिंतितमहो विषमा कर्मणां गतिः ! यत्सोदरावपि राज्यलवनिमित्तं मनुष्याणां कोटि विघट्टयतः, अहोऽहं तत्र गत्वा युद्ध निवारयामीति बुद्ध्या इन्द्रेणागत्य भरताय निवेदितं, भो षट्खण्डाधिपते ? किंकरीभृताऽनेकभूमिपते हे प्रभो किमिदमारब्धं त्वया ? हेलया कि जगत्संहरणं करोषि ? श्रीऋषभेण या चिरकालं पालिता, तां प्रजां किं संहरसि १ सुपुत्रस्य तदैतदाचरणं न घटते. यत्पित्राऽऽचरितं तत्पुत्रेणाप्याचरितव्यं, इत्यपसर लोकसंहरणात्. भरतेनोक्तं तातभक्तैर्भवद्भिर्यदुक्तं तत्सत्यं, अहमपि जानामि, परं किं करोमि १ चक्रमायुधशालायां नागच्छति, एकवारं यदि मम समीपेऽयं समागच्छति तदान्यत्किमपि मम कृत्यं नास्ति, अस्य राज्येन मम कृत्यं नास्ति, अतो गत्वा तमेव मदनुजं कथयध्वम् । इति भरतवाक्यं श्रुत्वा शक्रो बाहुबलिपार्श्व गतः बाहुबलिना महती भक्तिः कृता, उक्तं च स्वामिन्नादिश्यतां किमागमनप्रयोजनम् १ इन्द्रेणोक्तं तवैतन्न घटते यत्पित्तुल्येन वृद्धभ्रात्रा साद्ध युद्ध करोषि, अतस्त्वं गत्वा नमस्वापराधं च क्षामय । लोकसंहरणादपसर । बाहुबलिनोक्तमेतस्यैवायं दोषः, EXXXXXXXXXXXXXXXXXXXXXXXX ॥११ lelibrary.org For Personal & Private Use Only Jain Education Page #16 -------------------------------------------------------------------------- ________________ "प्रथमः चक्कवट्टिस्स RRRRRRXXX श्रीभरत कहा" चक्रवर्तीचरितम्" ॥ १२॥ XXXXXKR केनात्राहूतोऽयं भरतः १ किमर्थमत्रागतः १ अतृप्तस्यैतस्य लज्जा नास्ति. सर्वेषां बन्धूनां राज्यानि गृहीत्वा मदीयं राज्यं गृहीतुमयमागतोऽस्ति. परंत्वनेन न ज्ञातं, यहि सर्वेषु विलेषु मूषका एव, अतोऽहं नापसरामि, मानहाने प्राणहानिरेव वरं, तथा चोक्तं अधमा धनमिच्छति । धनमाने च मध्यमाः॥ उत्तमा मानमिच्छन्ति । मानो हि महतां धनम् ॥१॥ वरं प्राणपरित्यागो। मा मानपरिखण्डनं ॥ मत्योस्तत्क्षणिका पीडा । मानखण्डे दिने दिने ॥ २॥ इति बाहुबलेनैश्चयिक वचः श्रुत्वा इन्द्रेणोक्तं. एवं चेनिश्चयस्तर्हि द्वाभ्यामेव बन्धुभ्यां द्वन्द्वयुद्ध विधेय, किमर्थ लोकसंहारोऽयम् ? पञ्चयुद्धानि स्थापितानि, दृष्टियुद्ध, वाग्युद्ध, बाहुयुद्ध, मुष्टियुद्ध, दन्डयुद्ध चेति. भरतेनापि तान्यंगीकृतानि, द्वौ बांधवौ सैन्यं मुक्त्वा सन्मुखमागतो. प्रथमं दृग्युद्ध प्रारब्धं दृष्टया दृष्टौ मिलितायां सत्यां प्रथमं चक्रिनयने अश्रुजलाविले जाते साक्षिकैर्देवैः कथितं पराजितोऽयं चक्री जितोऽयं बाहुबलिः, एवं पञ्चभिरपि युद्धैर्जितो बाहुबलिः, विलक्षीभूतेन चक्रिणा मर्यादा मुक्त्वा चक्रं मुक्तं, बाहुबलिनोक्तं मैवं कुरु ? सतां मर्यादातिक्रमो नैव युक्तः, तथापि तेन चक्रं मुक्तं, बाहुबलिना मुष्टिरुत्पाटिता, चिन्तितं चानया मुष्टया सचक्रमेनं चूर्णयामि. चक्रं बाहुबलिसमीपमागत्य त्रिप्रदक्षिणीकृस्यपश्चाद्वलितं, गोत्रमध्ये चक्रं न चलतीति. अथ बाहुबलिना चिंतितमनया वज्रतुन्यमुष्टयैनं भरतं मृन्मयभाण्डमिव चूर्णीकरोमोति. पुनरपि तेन विचारितमहो सुखलवनिमित्तं किमियं बान्धवहानिर्विमृष्टा ! धिक् नरकान्त राज्यम् ! धिम्विषयान्, धन्या मदनुजा येऽनर्थहेतुकं राज्यं त्यक्त्वा जगृहुः संयम इति जातवैराग्येण बाहुबलिना मुष्टिमस्तके न्यस्ता, RXXX ॥१२॥ Jain Educatul national Mehelibrary.org For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ ॥१३॥ पञ्चमुष्टिको लोचः कृतः, अर्पितो देवतया रजोहरणादिसाधुवेषः, चारित्रं च गृहीतम्. गृहीतवेषं निजसद्दोदरं दृष्ट्वा भरतः स्वकर्मणा लजितः, नयनयोरणि वर्षन्मुहुर्मुहुश्चरणयोः पपात. धन्यस्त्वं क्षमस्व मदीयापराधं ! अनुगृहाण राज्यलक्ष्मी बाहुबलिसाधुनोक्तं अनित्योऽयंराज्यलक्ष्मीविलासः अनित्यं यौवनमनित्यं शरीरं, दुरन्ता विषयाः, इत्याधुपदेशदानेन भरतं वैराग्यवासनावशं विधाय स तत्रैव ध्यानमुद्रया तस्थौ. मनसि विचारयति छमस्थोऽहं कथं लघुवांधवान् वन्दिप्ये १ इति मानोद्धरकंधरः स कायोत्सर्गेण तस्थौ. भरतोऽपि तं बंदिस्वा सोमयशसे बाहुबलिराज्यं दत्वा स्वस्थानं गतः, बाहुबलिरपि वर्ष यावद शीतवातातपादिपरीषहान् सहन् सन् दवदग्धस्थाणुकन्पं शरीरं कृतवान् , वल्लिभिरभिवेष्टिता तनुः, प्ररूढा दर्भशूच्यः, चरणयोवल्मिकाः समुद्गताः, प्रसूता कूर्चादौ शकुनयश्चेति. ततो भगवता बाहुबलिभगिन्यौ ब्राह्मीसुंदरीनाम्न्यौ तं प्रतिबोधनार्थमादिष्टौ. तत्र गत्वा भगवतीभ्यामेवं वक्तव्यं, हे बान्धव ! गजादवतरेत्युपदिश्य तत्पार्श्व प्रहिते ते भगिन्यौ तत्र गत्वा भ्रातरं वंदित्वैवं कथयतः स्म, हे बन्धो, गजादवतर? इति भगिनीवचनं श्रुत्वा स मनसा दध्यावहो मुक्तसंगस्य मे हस्ती कृतः ? भगिन्यौ ! किं कथयतः १ प्राः ज्ञातं मान इति हस्ती सत्यमेवोक्तं, धिङमा दुष्टचित्तधारकम् ! वंद्यास्ते मदनुजाः, व्रजामि वंदितु मित्युत्पाटितचरणः केवलज्ञानमापदिति तत्र गत्वा प्रभुवन्दित्वा स केवलिसमायामुपविष्ट इति । अथेतश्च ऋषभप्रभोः शिष्यो भरतात्मजो मरीचिरेकादशाङ्गाऽध्येता श्रमणगुणसमन्वितः स्वभावसुकुमारः स्वामिना समं विहरन् ग्रीष्मे सर्वतः सूर्यातपतप्तस्तृष्णाऽऽक्रान्तोऽचिन्तयत्-"अहं केवलिन ऋषभस्वामिनः पौत्रश्चक्रिणो भरतस्य ॥१३॥ wa library.org Jain Education Laboral For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ "प्रथम: चक्कवट्टिस्स कहा" ॥१४॥ KXXXXXXXXXXXXXXXXXXXXXXX पुत्रश्चतुर्विधसङ्घसमक्षं प्राब्राजिषम् । एवं सत्यस्मात्स्थानालजया गृहं गन्तुं न युज्यते । श्रामण्यं च मुहूर्त्तमप्युद्वो न * शक्यते । सङ्कटे पतितोऽस्मि । “अथवाऽस्त्येष पन्थाः, यन्मनोवाक्कायदण्डानां जयिन इमे श्रमणाः। तैश्च विजितोऽहं श्रीभरतत्रिदण्डिको भविष्यामि । पते सर्वविरताः, अहं देशविरतः स्याम् । एते विगतमोहाः, अहं तु मोहमग्न इति तचिह्न चक्रवर्तीछत्रं धारयिष्यामि । एते निष्कषायाः श्वेताम्बराः, अहं सकषाय इति तत्स्मृत्यै काषायाणि वस्त्राणि धारयिष्यामि । चरितम्।' एते पापभीता जलारम्भं त्यजन्ति, ममापरिमितेन जलेन स्नानाद्यस्तु ।" एवं चिन्तयित्वा तादृशं लिङ्ग स्वीकृत्य स्वामिना सह विजहार। तदा च महर्षिषु विजातीयं तं दृष्टा जनाः कौतुकाद्धर्म पप्रच्छुः । स साधुधर्ममुपादिशत्, किन्तु स्वयं तदनाचरणेऽशक्ति हेतुं जगाद। तथा स मरीचि दीक्षार्थिनो भव्यान प्रतिबोध्य स्वामिसमीपं प्रेषयामास। स्वामी च तेभ्यो दीक्षा ददौ । ____एकदा स्वामिना साध विहरतो मरीचेः शरीरे रोग उत्पेदे । किन्तु व्रतभ्रष्टः स मुनिभिर्नाऽपाल्यत । अजातोपचारश्च स व्याधिनाऽधिकं पीडितोऽभूत् । तदा स चिन्तयामास-“ममात्रैव भवेऽशुभं कर्मोदीर्णम् । यदेते स्वेऽपि साधवः परमिवोपेक्षन्ते । एते सावविरताः सावद्यनिरतस्य मे वैयावृश्यं कथं कुर्युः १ । तत्स्वोपचाराय कमप्यन्यमल्पधर्माणमन्वेषयामि" । एवं चिन्तयन् स कथमपि नीरोगो जातः। ___अन्यदा च वृषभस्वामिनः पार्थे कपिलो नाम राजपुत्रः समाययौ । स्वामिदेशनां च श्रुतवान् । तत्र कथितो धर्मश्च कपिलाय नितरां रुरुचे। धर्मान्तरं शुश्रूषुश्चेतस्ततो दृष्टिं क्षिपन मरीचिं दृष्ट्वा तत्समीपं गत्वा धर्म पप्रच्छ । तदा ॥१४॥ XXXXXXXXXXXX Jain Educati e mational For Personal & Private Use Only library.org Page #19 -------------------------------------------------------------------------- ________________ ॥१५॥ XXXXXXXXXXXXXXXXXXXXXXXXX मरीचिरूचे-"इह धर्मो नास्ति, धर्मार्थी चेत्स्वामिनं श्रय" । स स्वामिपावं जगाम । पुनस्तथैव धर्म च शुश्राव । स च स्वकर्मपिताय तस्मै नाऽरुचत् । स पुनमरीचिमुपाययौ। मरीचिमपृच्छच्च-"किं तव कोऽपि धर्मो नास्ति, किं व्रतं निधर्म भवेत् ?" तदा मरीचिरीचिन्तयत्-"देवादयं कोऽपि ममाऽनुरूपो जातः, असहायस्य ममायं सहायोऽस्तु" । एवं विचिन्त्य तत्रापि धर्मोऽस्ति, अत्रापि धर्मोऽस्ती "त्युदतरत् । तेनैकेन दुर्भाषितेन च सोऽब्धिकोटीकोटिमानं भवमुपार्जयत् । तथा स कपिलं दीक्षयित्वा स्वसहायं चकार । ततः प्रभृति परिव्राजकपाखण्डं प्रावतत। एकदा भरतचक्रिणा पञ्चभिः शकटशतैराहारमानाय्य स्वानुजान्न्यमन्त्रयत । स्वामिना प्रोक्तं, "आधाकर्माहतं वस्तु यतीनां न कल्पते" इति निषिद्धश्चक्री पुनरकृताऽकारितेनऽन्नेन तान्न्यमन्त्रयत । "राजपिण्डो महर्षिणां न कल्पते” इति पुनः स्वामिनो निषिद्धो भरतो भृशमनुतप्तवान् । ततो विलक्षं भरतमनुलक्ष्य शक्रः-"कतिविधाऽवग्रहः स्यादि' ति प्रभुं पप्रच्छ । “इन्द्रं चक्रि-नृपा-ऽगारि-साधु-सम्बन्धभेदात्पञ्चधाऽवग्रहः" तेषूत्तरोत्तरो बलवानि ति प्रभुणा कथितश्च स, “ये साधवो विहरन्ति ममाऽवग्रहे, तेषां ममाऽवग्रहमनुजानामि इत्येवमुदित्वा, प्रभुं नत्वाऽवस्थितः । ततो भरतोऽपि “एभिर्यद्यपि मदीयमन्नादि नाप्यवग्रहाऽनुज्ञया कृतकृत्यः स्यामि" ति विचार्य स्वामिनोऽग्रे स्वमवग्रहमन्वजिज्ञपत् , "मयाऽमुना भक्तपानादिनाऽधुना कि कामि" ति वासवमपृच्छच्च । “गुणोत्तरेभ्यो दातव्यमि" ति शक्रेणोत्तरिते "श्रावका विरताऽविरता गुणोत्तरा" इति तेम्यो देयमिति निश्चित्य वासवस्य भास्वदा कृतिक रूपं दृष्टा विस्मितः पप्रच्छ "किं स्वर्गेऽपीदृशेन रुपेण तिष्ठथ, रुपान्तरेण वा"। ततो देवराजोऽब्रवीत “राजन् ! ॥१५॥ Jain Education M ww.hilibrary.org For Personal & Private Use Only ontal Page #20 -------------------------------------------------------------------------- ________________ "श्री चक्क हिस्स कहा" ॥ १६ ॥ स्वर्गे न तद्रूपं मम । तत्रत्यं रूपं मत्यैदृष्टु ं न पार्यते” । ततो भरतः पुनरप्यूचे - " तव तद्रूप दर्शन कौतुकं मेऽस्ति, तद्दर्शनेन मां प्रीणय" । ततः शक्रोऽब्रवीत् -"स्त्रमुत्तमः पुमानसि, तत एकमङ्गावयवं दर्शयिष्यामि " । तदनन्तरं स योग्याऽलङ्कारयुक्त स्वाङ्गुलीं दर्शयामास । तद् दृष्ट्वा च भरतो नितरां मुमुदे । ततः शक्रो भरतश्च भगवन्तं प्रणम्य स्वस्वस्थानके गतौ । भरतेन रत्नमयीं शक्राङ्गुलीं न्यस्याष्टाह्निकां चकार । ततः प्रभृतीन्द्रोत्सवः प्रारब्धो लोकैरद्यापि प्रवर्त्तते । _ अथ भरतः श्रावकान् समाहूय " मदीये गृहे प्रतिदिनं भवद्भिर्भोक्तव्यम्, कृष्यादि न विधेयम्, अन्वहं स्वाध्यायतत्परैः स्थातव्यम्, भुक्त्वा च मत्समीपमागत्य सर्वदा “जितोभवान् वर्धते भीस्तस्मान्मा हन मा हने' ति पठनीयमित्युक्तवान् । ते च तथा स्वीकृत्य तद्गृहे प्रतिदिनं भुञ्जन्ति स्म, तद्वचश्च स्वाध्यायमित्र पठन्ति स्म । भरतश्च प्रतिदिनं तच्शब्दं शृण्वन्नेकदाऽचिन्तयत् - " कषायैर्जितोऽस्मि, तेभ्य एव मम मयं वर्धते । अतः प्राणिनो मायाम् । विवेकिनो नित्यमेव स्मारयन्ति, तथापि प्रमादिनो मम धर्मे औदासीन्यंधिक" । इत्थं चिन्तया च तस्य क्षणं धर्मध्यानं प्रावर्त्तत । किन्तु स भोगफलस्य कर्मणोऽन्यथा कर्त्तुमनीश्वरत्वाद् भूयोऽपि विषयाऽसक्तो जातः । भरतः काकिणीरत्ने न श्रावकान् रेखात्रयं शुद्धिलक्षणं विदधे । ते “जितो भवानि" त्याद्युच्चैः पठन्त 'माहना' इति प्रख्याता जाताः । तथा तेषां स्वाध्यायाऽर्थमर्हत्स्तुति मुनिश्राद्धसामाचारीसहितानार्यान् वेदान् चक्री विदधे । कालक्रमेण ते माहना ब्राह्मणा इति विश्रुता बभूवुः । काकिणीरेखाश्च तेषां यज्ञोपवीततां प्रापुः । Jain Educationational For Personal & Private Use Only " प्रथमः श्रीभरत चक्रवर्ती | चरितम्" *** ॥ १६ ॥ elibrary.org Page #21 -------------------------------------------------------------------------- ________________ ॥१७॥ KXXXXXXXXXXXXXXXXXXXXXXX सुर्ययशा राज्ये स्वर्णयज्ञोपवीतानि, अन्ये च महायशः प्रभृतयः केचिद्राजतानि केचित्पसूत्रमयानि केचिच्च सूत्रमयानि यज्ञोपवीतानि चक्रिरे । यदा साधु विच्छेदो जातः तदा सुलसायाज्ञवल्क्यादिभिरनार्या वेदाः कृताः। एकदा भरतचक्रिणास्वामिनं पप्रच्छ "अत्र समवसरणे भवानिव कोऽपि तादृशोऽस्ति ?, यस्तीर्थ प्रवर्त्य भरतक्षेत्रं पावयिष्यति?" । भगवानाह-"तव पुत्रोऽयं प्रथमः परिव्राजको मरीचिराचरौद्रध्यानहीनः सम्यक्त्वयुक्तो रहसि धर्मध्यानं कुर्वन् सम्प्रति कर्ममलिनोऽपि शुक्लध्यानाच्छुद्धिमेष्यति । इहैव भरतक्षेत्रे पोतनाऽख्ये नगरे त्रिपृष्ठो नाम वासुदेवानां प्रथमो वासुदेवो भविष्यति । यः क्रमात्प्रत्यविदेहेषु मृकायां पुरि दाशार्हाणां प्रथमो धनञ्जयधारिण्योः पुत्रश्चक्री प्रियमित्रनामा भविष्यति । ततश्चिरं भवे संसृत्य भारते महावीरनामा चतुर्विशस्तीर्थकृद्भावी।" इति श्रुत्वा स्वाम्यनुज्ञामादाय भरतो वन्दितुं मरीचिमगात् । “त्वां त्रिपृष्ठं प्रियमित्रं वा न, ते इदं जन्म पारिवाज्यं वा न, किन्तु चतुर्विशं भाविनमहन्तं त्वां वन्दे" इति वाणो बद्धाञ्जलिपुटस्त्रि प्रदक्षिणीकृत्य भरतस्तं वन्दे । ततः प्रभु नत्वा भरतोऽयोध्या जगाम। तत्रस्थो मरीचिश्च तच्छु त्वा दर्पमागतस्त्रिःकरास्फोटपूर्वकमतिप्रमुदित एवं वक्तु प्रचक्रमे-“यद्यहं वासुदेवानां al प्रथमो विदेहेषु चक्री भारतेऽन्तिमोऽहंश्च भवितास्मी" त्येतावता पूर्ण मम । मम पितामहोऽर्हतामाद्यो मम पिता च चक्रिणामाद्योऽहं च वासुदेवानामाद्य इति मम कुलं सर्वश्रेष्ठम् ।" एवमात्मकुलाभिमानं कुर्वाणेन तेन स्वकीयं नीचगोत्रमुपार्जितम् । XXXXXXXXXXXXX Welibrary.org Jain Educati o nal For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ "श्री चक्कवट्टिस्स XXXXXXXXX "प्रथमः श्रीभरतचक्रवर्तीचरितम्" कहा" ॥१८॥ XXXXXXXXXXXXXXXXX चक्रवर्तिनाम् किश्चित् ऋद्धिस्वरूपं लिख्यते चतुरशीतिर्लक्षाणि गजाः, तावन्त एव रथाः. तावन्त एवाश्वाः, षण्णवतिकोटयः पदातीनां, द्वात्रिंशत्सहस्रसंख्या देशाः, द्वात्रिंशत्सहस्रसंख्या मुकुटधरा राजानो यस्य सेवकाः, अष्टचत्वारिंशत्सहस्राणि पत्तनानां, द्विसप्ततिसहस्राणि नगराणि, षण्णवतिकोटयो ग्रामाः, चतुर्दश रत्नानि, नव निधानानि, षष्टिसहस्रसंख्या भटा यस्याग्रे वर्णावलीकथकाः, षष्टिसहस्रसंख्या पण्डिताः, दशकोटिसंख्या ध्वजधारकाः, पंचलक्षसंख्या दीपिकाधारका, विंशतिसहस्रसंख्याः सुवर्णादिधात्वाकराः, पंचविंशतिसहस्रसंख्या देवा यस्य सेवकाः, अष्टादशकोटयोऽश्ववारा यस्यानुचलन्ति. एतादृशी ऋद्धिर्येन प्राप्ता, तथापि स मनसि विरक्त एवास्ते. अथ स भरतनामा चक्री बहुषु पूर्वलक्षेषु गतेषु एकस्मिन् दिने शृगारशालायां निजतनुप्रमाणादर्शमग्रे निधाय स्वकीयं रूपं विलोकयति. प्रत्यवयवसुदरतां विलोकयन् एकामंगुलीमंगुलीयकरहितमतीवनिःश्रीकां दृष्टा मनसि दध्यौ, अहो असारता देहस्य ! परपुद्गलैरेव शरीरं शोभते, न तु स्वकीयपुद्गलैः, किं कृतं मया एतदसारदेहनिमित्तं ! बहव आरंभाः कृताः, अस्मिन्नसारे । संसारे सर्वमप्यनित्यं. कोऽपि कस्यापि नास्ति. धन्या मदनुजायै तडिल्लताचंचलं राज्यसुखं त्यक्त्वा संयम मेजुः, अहं तु अधन्यो यदनित्ये सांसारिके सुखे नित्यबुद्ध्यामोहितोऽस्मि. धिगिमं देहं ! धिगिमान विषयान् भोगिभोगोपमान् ! हे आत्मन् ! त्वमेक एव संसारे, तवान्यः कोऽपि नास्तीति ध्यायन् परमपदाध्यारोहणभिःश्रेणीकल्पां क्षपकश्रेणिमारोह, घनघातिक्षयं विधायोज्ज्वलं केवलं प्राप, तस्मिन्नवमरे शासनदेव्या समेत्य वेषोऽर्पितः, साधुवेषं गृहीत्वा केवलित्वेन भूमौ विजहार, क्रमेण मोक्षसुखं प्रापेत्यत भरतचक्रिदृष्टांतः । KXXXXXXXX ॥१८॥ I Jain Educ nelibrary.org For Persona & Private Use Only a tors Page #23 -------------------------------------------------------------------------- ________________ ॥१९॥ द्वितीय चक्रि श्री सगर चरितम् अयोध्यायां नगर्यामिक्ष्वाकुकुलोद्भवो जितशत्रनपोऽस्ति, तस्य भार्या विजयानाम्न्यस्ति । सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते, तस्य यशोमतीनाम्नी भार्यास्ति । जितशत्रुराज्या विजयानाम्न्या चतुर्दशमहास्वप्नसूचितः पुत्रः प्रसूतः, तस्य नामाऽजित इति दत्तम् , स च द्वितीयस्तीर्थङ्कर इति । सुमित्रयुवराजपल्या यशोमत्या सगरनामा द्वितीयश्चक्रवर्ती प्रसूतः। तौ द्वावपि यौवनं प्राप्तौ, पितृभ्यां कन्याः परिणायिताः। कियता कालेन जितशत्रुराज्ञा निजे राज्ये जितकुमारः स्थापितः, सगरश्च यौवराज्ये स्थापितः । सहोदरसुमित्रसहितेन जितशत्रुनृपेण दीक्षा गृहीता । अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता । सगरस्तूत्पन्नचतुदेशरत्नः साधिकषट् खण्डभरतक्षेत्रो राज्यं पालयति । तस्य पुत्राः षष्टिसहस्रसङ्ख्याका जाताः, सर्वेषां तेषां मध्ये ज्येष्ठो जब कुमारोव तते । अन्यदा जब कुमारेण कथश्चित्सगरः सन्तोषितः । स उवाच, जह्न कुमार! यत्तभ्यं रोचते तन्मार्गय? जब रुवाच-तात ! ममास्त्ययमभिलाषः । यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिलभ्रातृपरिवृतः पृथ्वी परिभ्रमामि । सगरचक्रिणा तत्प्रतिपन्नम् । प्रशस्ते मुहूर्ते सगरचक्रिणः समीपात्स निर्गतः, सबलवाहनोऽनेकजनपदेषु भ्रमन प्राप्तोऽष्टापदपर्वते । सैन्यमधस्तानिवेश्य स्वयमष्टापदपर्वतमारूढः दृष्टवांस्तत्र भरतनरेन्द्रकारितं मणिकनकमयं चतुर्विशतिजिनप्रतिमाधिष्ठितं स्तूपशतसङ्गतं जिनायतनम् । तत्र जिनप्रतिमा अभिवन्ध जब कुमारेण मन्त्रिणः पृष्टम् , केन सुकृतवतेदमतीवरमणीयं जिनभवनं कारितम् ? मन्त्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जब कुमारोऽवदत् KEXXXXXXXXXXXXXXXXXXXXX** ॥१४ wwwrjaimelibrary.org For Personal & Private Use Only Jain Education international Page #24 -------------------------------------------------------------------------- ________________ वक्कवट्टिस्स ture "द्वितीय श्री सगर चक्रवर्तीचरितम्" ॥२०॥ अन्यः कश्चिदष्टापदसद्दशः पर्वतोऽस्ति ? यत्रेदृशमन्यं चैत्यं कारयामः । चतसृषु दिक्षु पुरुषास्तद्वेषणाय प्रेषिताः, ते सर्वत्र परिभ्रम्य समायाताः, ऊचुश्च स्वामिन् । ईदृशः पर्वतः क्वापि नास्ति, जब ना भणितं, यद्येवं, वयं कुर्म एतस्यैव रक्षाम् । यतोऽत्र क्षेत्रे कालक्रमेण लुब्धाः शठाश्च नरा भविष्यन्ति । अभिनिवकारणात्पूर्वकृतपरिपालनं श्रेयः । ततश्च दण्डरत्नं गृहीत्वा समन्ततोऽष्टापदपार्श्वेषु जल प्रमुखाः सर्वेऽपि कुमाराः खातुं लग्नाः। तच्च दण्डरत्नं योजनसहस्र भित्वा प्राप्त नागभवनेषु, तेन तानि भिन्नानि दृष्ट्वा नागकुमाराः शरणं गवेषयन्तो गता नागराजज्वलनप्रभसमीपे, कथितः स्वभवनविदीर्णवृत्तांतः। सोऽपि सम्भ्रान्त उत्थितोऽवधिना ज्ञात्वा क्रोधोधुर समागतः सगरसुतसमीपम् भणितवांश्च, भो भो किं भवद्भिदण्डरत्नेन पृथ्वीं विदार्यास्मद्भवनोपद्रवः कृतः१ अविचार्य भवद्भिरेतत्कृतम् । यत उक्तं'अप्पवहाए नूणं, होइ बलं उत्तणाण भुवणंमि । णियपरक्खबलेणं चिय, पभइ पयंगो पईवंमि ॥१॥ १. प्रात्मवधार्थ नूनं, भवति बलं उत्त भुवने । निजपक्षबलेन चैव, पतति पतङ्गः प्रदीपे ॥१॥ ततो नागराजोपशमननिमित्तं जह नुना भणितम् , भो नागराज ! कुरु प्रसादम् , उपसंहर क्रोधसम्भरम् , क्षमस्वास्मदपराधमेकम् , न ह्यस्माभिभवतामुपद्रवनिमित्तमेतत्कृतम्, किन्त्वष्टापदचैत्यरक्षार्थमेषा परिखा कृता । न पुनरेवं करिष्यामः । तत उपशान्तकोपो ज्वलनप्रमः स्वस्थानं गतः । जह नुकुमारेण भ्रातृणां पुर एवं भणितम् , एषा परिखा दुर्लध्यापि जलविरहिता न शोभते, तत इमां नीरेण पूरयामः दण्डरत्नेन गङ्गां भिवा जब मा जलमानीतम् , भृता च परिखा । तज्जलं नागभवनेषु प्राप्तम् , जलप्रवाहसन्त्रस्तं नागनागिनीप्रकरमितस्ततः प्रणश्यन्तं प्रेक्ष्य प्रदत्तावधि XXXXXXXXXX ॥२०॥ Jain Educ a tional For Personal & Private Use Only Cinelibrary.org Page #25 -------------------------------------------------------------------------- ________________ ॥२१॥ XXXXXXXXXXXXXXXXX ज्ञानोपयोगः कोपानलज्वालामालाकुलो ज्वलनप्रभ एवमचिन्तयत् , यदहो । एतेषां जह्न कुमारादीनां महापापानां मयै-* कवारमपराधः क्षान्तः, पुनरधिकतरमुपद्रवः कृतः, ततो दर्शयाम्येषामविनयफलम् । इहि ध्यात्वा ज्वलनप्रभेण तद्वधार्थ नयनविषा महाफणिनः प्रेषिताः, तैः परिखाजलान्तर्निगत्य नयनैस्ते कुमाराः प्रलोकिताः, भस्मराशीभूताश्च सर्वेऽपि सगरसुताः । तथाभूतांस्तान् वीक्ष्य सैन्ये हाहारवो जातः, मन्त्रिणोक्तमेते तु तीर्थरक्षां कुर्वन्तोऽवश्यभावितयेमामवस्था प्राप्ताः सङ्गतावेव गता भविष्यन्तीति किं शोच्यते ? अतस्त्वरितमितः प्रयाणं कियते, गम्यते च महाराजचक्रिसमीपम् । सर्वसैन्येन मन्त्रिवचनमङ्गीकृतम्, ततस्त्वरितप्रयाणकरणेन क्रमात्प्राप्तं स्वपुरसमीपे । ततः सामन्तामात्यादिभिरेवं विचारितं समस्तपुत्रवधोदन्तः कथं चक्रिणो वक्तुपायते ? ते सर्वे दग्धाः, वयं चाक्षताङ्गाः समायाता एतदपि प्रकामं त्रपाकरम् । ततः सर्वेऽपि वयं प्रविशामोऽग्नौ । एवं विचारयतां तेषां पुरः समायात एको द्विजः। तेनेदमुक्तम्-भो वीराः! किमेवमाकुलीभृताः? मुञ्चत विषादम् , यतः संसारे न किंचित्सुखम् , दुःखमत्यन्तमद्भुतमस्ति, भणितं च""कालंमि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, जं संसारे न संभवइ ॥१॥" १. कालेऽनादौ, जीवानां विविधकर्मवशगानाम् । तद् नास्ति संविधानं यद् संसारे न संभवति ॥ १॥ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि । सामन्तादिभिस्तद्वचः प्रतिपन्नम् । ततः स द्विजो मृतं बालकं करे धृत्वा मुष्टोऽस्मीति वदन् सगरचक्रिगृहद्वारे गतः। चक्रिणा तस्य विलापशब्दः श्रुतः। चक्रिणा स द्विज आकारितः, केन मुष्टोऽसीति चक्रिणा पृष्टः । स प्राह-देव! एक एव मे सुतः सर्पण दष्टो मृतः, एतदुःखेनाहं विलपा RXXX ॥२१॥ M Jain Educati otorary.org o For Personal & Private Use Only nal Page #26 -------------------------------------------------------------------------- ________________ र चक्कवट्टिस्स "द्वितीय श्रीसगरचक्रवर्ती कहा" ॥ २२ ॥ KXXXXXXXXXXXXXXX मीति । हे करुणासागर ! त्वमेनं जीवय, अस्मिन्नवसरे तत्र मन्त्रिसामन्ताः प्राप्ताः, चक्रिणं प्रणम्य चोपविष्टाः। तदानीं चक्रिणा राजवैद्यमाकार्यैवमुक्तम्, एनं निर्विषं कुरु ? वैद्येन तु चक्रिसुतमरणं श्रुतवतोक्तम् , राजन् ! यस्मिन कुले कोऽपि न मृतस्तत्कुलाद् भस्म यद्येष आनयति तदैनमहं जीवयामि । द्विजेन गृहे गृहे प्रश्नपूर्वकं भस्म मार्गितम् । गृहमनुष्याः स्वमातृपितृभ्रातदुहितप्रमुखकुटुम्बमरणान्याचख्युः। द्विजश्चक्रिसमीपे समागत्योवाच, नास्ति वैद्योपदिष्ट तादृशभस्मोपलब्धिः । सर्वगृहे कुटुम्बमनुष्यमरणसद्भावात् । [ चक्रिणोक्तं ] यद्येवं तत्किं स्वपुत्रं शोचसि ? सर्वसाधारणमिदं मरणम् । उक्तं च-- "२कि अस्थि कोइ भुवणे, जस्स जायाइं नेव यायाइं। नियकम्मपरिणईए, जम्ममरणाइं संसारे ॥१॥" २. किमस्ति कोऽपि भुवने, यस्य जातानि जातं नैव यातानि (यातम् ) । निजकर्मपरिणत्या, जन्ममरणानि संसारे ॥१॥ . ततो भो ब्राह्मण ! मा रुद ? शोकं मुश्च । आत्महितं कार्य चिन्तय । यावत्वमप्येवं मृत्युसिंहेन न कवलीक्रियसे । विप्रेण भणितम्-देव ! अहमपि जानाम्येवम् , परं पुत्रमन्तरेण सम्प्रति मे कुलक्षयः तेनाहमतीवदुःखितः, त्वं तु दुःखितानाथवत्सलोऽप्रतिहतप्रतापश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यभिक्षाम् ? चक्रिणा भणितं-भद्र ! इदमशक्यप्रतीकारम् । उक्तं च-- "'सीयंति सव्वसत्ताई, एत्थ न कम्मति मंततंताई। अदिट्ठपहरगंसि, विहिंपि किं पोरुसं कुणई ॥१॥" १. सीदन्ति सर्वसत्त्वानि, अत्र न क्रमन्ते मन्त्रतन्त्रादि । अदृष्ट प्रहरके विधिमपि कि पौरुषं करोति ।।१।। KXXXXXXXXXXXXX XXX:** ॥ २२॥ Jain Educ 81helorary.org a For Personal & Private Use Only tional Page #27 -------------------------------------------------------------------------- ________________ ॥२३॥ __ ततः परित्यज्य शोकं, कुरु परलोकहितम् १ मूर्ख एव हृते नष्टे मृते करोति शोकम् । विप्रेण भणितं-महाराज ! सत्यमेतत् , न कार्योऽत्र जनकेन शोकः, ततस्त्वमपि मा कार्षीः शोकम् , असम्भावनीयं भवतः शोककारणं जातम् । सम्भ्रान्तेन चक्रिणा पृष्टं-भो विप्र ! कीदृशं मम शोककारणं जातम् ? विप्रेण भणितं-देव ! तव षष्टिसहस्राः पुत्राः कालं गताः । इदं श्रुत्वा चक्री वज्रप्रहाराहत इव नष्टचेतनः सिंहासनानिपतितो मूछितः, सेवकैरुपचरितश्च । मूर्छावसाने च शोकातुरमना मुत्कलकण्ठेन रुरोद, एवं विलापश्चि चकार । हा पुत्राः! हा हृदयदयिता! हा बन्धुवल्लभाः! हा शुभस्वभावाः! हा विनीताः! हा सकलगुणनिधयः! कथं मामनाथं मुक्त्वा यूयं गताः १ युष्मद्विरहातस्य मम दर्शनं ददत ? हा निर्दय पापविधे! एकपदेनैव सर्वास्तान् बालकान् संहरतस्तव किं पूर्ण जातम् ! हा निष्ठुरहृदय ! असह्यसुतमरणसन्तप्तं त्वं किं न शतखण्डं भवसि ? एवं विलपमानश्चक्री तेन विप्रेण भणित:--महाराज! त्वं मम सम्प्रत्येवमुपदिष्टवान, स्वयं च कथं शोकं गच्छसीति ? उक्तं च"परवसणंमि सुहेण संसारासारत्तं कहइ लोओ। णियबंधुजणविणासे, सव्वस्सवि चलइ धीरत्तं ॥१॥" २. परव्यसने सुखेन, संसारासारत्वं कथयति लोकः । निजबन्धुजनविनाशे, सर्वस्याऽपि चलति धीरत्वम् ।। १ ।। एकपुत्रस्यापि मरणं दुस्सहम् , किं पुनः षष्टिसहस्रपुत्राणाम् ? तथापि सत्पुरुषा व्यसनं सहन्ते । पृथिव्येव वज्रनिपातं सहते, नापर इति । अतोऽवलम्बस्व सुधीरत्वं, अलमत्र विलपितेन । यत उक्तम् XXXXXXXXXXXXXXXXXXXXXXX *॥२३॥ Prelibrary.org Jain Education international For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ "द्वितीय वकट्टिस्म श्री सगरचक्रवर्ती चरितम्" ॥२४॥ (BXXXXXXXXXXXXXXXXXXXXKKKA "सोयंताणं पि नो ताणं, कम्मबंधो उ केवलो। तो पंडिया न सोयंति, जाणंता भवरूवयं ॥१॥" ३. शोचतामपि न त्राणं, कर्मबन्धस्तु केवलः । तस्मात् पण्डिता न शोचन्ति, जानन्ता भवस्वरूपम् ।। २ ॥ एवमादिवचनविन्यासेविप्रेण स्वस्थीकृतो राजा, भणिताश्च तेनैव सामन्तमन्त्रिणः, “वदन्तु यथावृत्तं षष्टिसहस्रपुत्रमरणव्यतिकरम् ।” तैरुक्तः सकलोऽपि तद्वयतिकरः, प्रधानपुरुषैः सर्वैरपि राजा धीरतां नीतः, उचितकृत्यं कृतवान् । अत्रान्तरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्चक्रिण एवं कथयन्ति, यथादेव ! यो युष्मदीयसुतैरष्टापदरक्षणार्थ गङ्गाप्रवाह आनीतः, स आसन्नग्रामनगराण्युपद्रवति, तं भवान्निवारयतु देवः । अन्यस्य कस्यापि तन्निवारणशक्तिर्नास्तीति । चक्रिणा स्वपौत्रो भगीरथिभणितः-वत्स! नागराजमनुज्ञाप्य दण्डरत्नेन गङ्गाप्रवाहं नय समुद्रम् । ततो भगीरथिरष्टापदसमीपं गतः, अष्टमभक्तेन आराधितः समागतो नागराज भणति-किं ते सम्पादयामि १ प्रणामपूर्वकं भगीरथिना भणितम्-तव प्रसादेनामुं गङ्गाप्रवाहमुदधिं नयामि । अष्टापदासन्नलोकानां महानुपद्रवोऽस्तीति । नागराजेन भणितम् , विगतमयस्त्वं कुरु स्वसमीहितम् ! निवारयिष्याम्यहं भरतनिवासिनो नागान् । इति भणित्वा नागराजः स्वस्थानं गतः। भगीरथिनापि कृता नागानां बलिकुसुमादिभिः पूजा, ततः प्रभृति लोको नागवलिं करोति । भगीरथिर्दण्डेन गङ्गाप्रवाहमाकर्षन भज॑श्च बहून् स्थलशैलप्रवाहान् प्राप्तः पूर्वसमुद्रम् , तत्रावतारिता गङ्गा । तत्र नागानां बलिपूजा विहिता। यत्र गङ्गा सागरे प्रवाहिता, तत्र गंगासागरतीर्थ जातम् । गङ्गा जह्न नाऽनीतेति जाह्नवी, भगीरथिना नीति भागीरथी। भगीरथिस्तदा मिलित गैः पूजितो गतोऽयोध्याम् । पूजितश्चक्रिणा तुष्टेन KXXXXXXXXXXXXXXXXXXXB ॥२४॥ Jan Educa For Persons & Private Use Only Thelibrary.org Page #29 -------------------------------------------------------------------------- ________________ ।। २५ ।। स्थापितः स्वराज्ये । सगरचक्रवर्तिना श्रीअजितनाथतीर्थपतिसमीपे दीक्षा गृहीता । क्रमेण च कर्मक्षयं कृत्वा सगरः सिद्धः । अन्यदा भगीरथिना राज्ञा कश्चिदतिशयज्ञानी पृष्टः -- भगवन् ! किं कारणं यजह प्रमुखाः षष्टिसहस्रा भ्रातरः समकालं मरणं प्राप्ताः ९ ज्ञानिना भणितम् - - महाराज! एकदा महान् सङ्घश्चैत्यवन्दनार्थं सम्मेतपर्वते प्रस्थितः, अरण्यमुल्लङ्घ्यान्तिमग्रामं प्राप्तः । तन्निवासिना सर्वेणानार्यजनेनात्यन्तमुपद्रुतो दुर्वचनेन वस्त्रान्नधनहरणादिना च । तत्प्रत्ययं तद्ग्रामवासिलोकैरशुभं कर्म बद्धम् । तदानीमेकेन प्रकृतिभद्रकेण कुम्भकारेणोक्तम्, मोपद्रवतेमं तीर्थयात्रागतं जनम्, इतरस्यापि निरपराधस्य परिक्लेशन महापापस्य हेतुर्भवति, किं पुनरेतस्य धार्मिकजनस्य ९ यतो यद्येतस्य सङ्घस्य स्वागतप्रतिपत्तिं कर्तुं न शक्तास्तदोपद्रवं तु रक्षतेति भणित्वा कुम्भकारेण निवारितः स ग्रामजनः । सङ्घस्ततो गतः । अन्यदा तद्ग्रामनिवासिनैकेन नरेण राजसन्निवेशे चौर्यं कृतम् । ततो राजनियुक्तैः पुरुषैः स ग्रामो द्वारपिधानपूर्वकं ज्वालितः । तदा स कुम्भकारः साधुप्रसिद्धया ततो निष्कासितोऽन्यस्मिन् ग्रामे गतः । तत्र षष्टिसहस्रजना दग्धाः, उत्पन्ना विराटविषयेऽन्तिमग्रामे कोद्रवित्वेन । ताः क्रोद्रव्य एकत्र पुञ्जीभूताः स्थिताः सन्ति । तत्रैकः करी समायातः, तच्चरणेन ताः सर्वा अपि मर्दिताः । ततो मृतास्ते नानाविधासु दुःखप्रचुरासु योनिषु सुचिरं परिभ्रम्यानन्तरभवे किञ्चिच्छुभकर्मोपायं सगर चक्रिसुतत्वेनोत्पन्नाः । षष्टिसहस्रप्रमाणा अपि ते तत्कर्मशेषवशेन तादृशं मरणव्यसनं प्राप्ताः । सोऽपि कुम्भकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सन्निवेषे धनसमृद्धो वणिग्जातः । तत्र कृतसुकृतो मृत्वा नरपतिः सञ्जातः । तत्र शुभानुबन्धेन शुभकर्मोदयेन प्रतिपन्नो मुनिधर्म शुद्ध ं च परिपाल्य ततो मृत्वा सुरलोकं Jain Educatimational For Personal & Private Use Only ।। २५ । helibrary.org Page #30 -------------------------------------------------------------------------- ________________ "श्री चकस्सि कहा " ॥ २६ ॥ ******* गतः । ततश्च्युतस्त्वं जङ्ख सुतो जातः । इदं भगीरथिः श्रुत्वा संवेगमुपागतस्तमतिशयज्ञानिनं नत्वा गतः स्वभवनम् । इदं च भगीरथपृच्छासंविधानकं प्रसङ्गत उक्तम् इति सगरदृष्टान्तः । २ । तृतीयश्रीमघवाचक्रिचरितम् इहैव भरतक्षेत्रे श्रावस्त्यां नगर्यां समुद्रविजयस्य राज्ञो भद्रादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवानामा चक्री समुत्पन्नः । स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरत क्षेत्रस्तृतीयश्चक्रवर्ती जातः । सुचिरं राज्यमनुभवतस्तस्यान्यदा भवविरक्तता जाता । स एवं भावयितुं प्रवृत्तः, येऽत्र प्रतिबन्धहेतवो रमणीयाः पदार्थास्तेस्थिराः उक्तं च ॥ १ ॥ "हि इच्छिया उदारा, सुआ विणीया मणोरमा भोगा । विउला लच्छी देहो, निरामओ दीहजीवत्तं भवपडिबंधनिमित्तं, एगाइवत्थु न वरं सव्वंपि । कइव दिणावसाणे, सुमिणोभोगुव्व न हि किंचि ॥ २ ॥ ततोऽहं धर्मकर्मधमं करोमि, धर्म एव भवान्तरानुगामी । एवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवाचक्री परिव्रजितः कालक्रमेण विविधतपश्चरणेन कालं कृत्वा सनत्कुमारे कल्पे गतः । इति मघवादृष्टांतः । ३ ॥ ३६ ॥ For Personal & Private Use Only "तृतीय श्रीमघवा चक्रवर्ती चरितम् " ॥ २६ ॥ Shelibrary.org Page #31 -------------------------------------------------------------------------- ________________ ॥ २७॥ चतुर्थ श्रीसनत्कुमारचक्रवर्तिचरितम् । अथेह भारते काश्चनपुरे नगरे विक्रमयशा नाम प्रवरविक्रमो नृप आसीत् । तस्य चाऽन्तःपुरस्त्रीणां पञ्चशतान्यासन् । तदानीं तस्मिन्नेव पुरे सम्पदा निधानमिव महर्द्धिको नागदत्तो नाम सार्थवाह आसीत् । तस्य च रूपसौभाग्यलावण्यवती विष्णुश्रीनाम्नी भार्याऽऽसीत् । सा चैकदा काकतालीयन्यायेन कथमपि विक्रमयशो नृपदृष्टिगोचरा जाता । तां प्रेक्ष्य च कामवशो लुप्तविवेकः स नृपोऽचिन्तयत्-"अदृष्टपूर्वमस्या सर्वाङ्गसौन्दर्यम् । एतामपहृत्य निजान्तःपुरं नेष्यामि ।" एवं विचिन्त्य स नपस्तां गृहीत्वाऽन्तःपुरमुपनीय सदा स्मरलीलाभी रमयामास । सार्थवाहो नागदत्तश्च तद्वियोगेन विधुरो दुःखेन कालं गमयामास । विष्णुश्रिया च रममाणे तस्मिन् नृपतौ क्रुद्धाः शुद्धान्तयोषित ईयया कार्मणं चक्रः । तेन च क्षणे क्षणे क्षीयमाणा सा गतजीविता जाता । नृपोऽपि तस्या मृत्युना जीवन्मत इव स्थितो नागदत्त इव प्रलापी विलापी चाऽभवत् । स मतामपि विष्णुश्रियं 'प्रिया ममैषा प्रणयतूष्णीके ति सततं वदन्ननले क्षेप्तुं नाऽदत्त । ततो मन्त्रिणो मन्त्रयित्वा नपं कथमपि वश्चयित्वा विष्णुश्रियं नीत्वाऽरण्ये चिक्षिपुः। नृपश्च तस्या वियोगेनोन्मत्त इव प्रलपन तेषु स्थानेषु बभ्राम । त्यक्तानपानवृत्ते राज्ञश्च व्यति गतवति सचिवा नृपमरणाऽऽशकिनस्तस्या वपुरदर्शयन् । गलितमदर्शनीयं पूतिगन्धि च तस्या विष्णुश्रियो वपुरवलोक्य विरक्तो नृपो विक्रमयशाश्चिन्तयामास-'अहो ! असारे संसारे किमपि न सारम् । धिक् , सारबुद्धया कियच्चिरमेतस्यां मोहिताः स्म । परमार्थवित्कश्चिदपि नारीभिर्न हियते । स्त्रियो द्वन्तर्विविधमल दूषिता बही रम्याश्चर्मप्रसेविका तुल्याः । यदि हि स्त्रियो वपुषो XXXX***** ॥२७॥ Jain Education Imbrary.org For Personal & Private Use Only Latonal Page #32 -------------------------------------------------------------------------- ________________ "श्री चकवाट्टिस्स कहा" ॥२८॥ (KKXXXXXXXXXXXXXXX "चतुर्थः श्रीसनकुमार । चक्रवर्तीचरितम्" * बहिरन्तविपर्यासः स्यात्तदा कामुको गृद्धगोमायुसमर्पणमेव कुर्यात् । कामो हि स्त्री शस्त्रेणैव जगदेतज्जिगीपति । हहा! - मनोभुवाऽनेन सर्व विश्वं विडम्बितम् । तत्तस्य कामस्य सङ्कल्पाख्यं मूलमेव सर्वत उत्खनामि" । एवं विचन्त्य संसारविरक्तः स महामनाः सुव्रताचायपादान्ते दीक्षामुपाददे। देहनिःस्पहश्चतुर्थषष्ठादितपोभिश्चाऽऽत्मानं शोषयित्वा दुस्तपं तपस्तप्त्वा कालयोगाद्विपद्य सनत्कुमारकल्पे प्रकृष्टायुः सुरोत्तमोऽभूत् । ततोऽप्यायुःक्षये च्युत्वा रत्नपुरे पुरे जिनधमों नाम श्रेष्ठिसुतो जातः। आवाल्यादपि द्वादशविधं श्रावकधर्म पालयन् तीर्थङ्करानष्टप्रकारया पूजयाऽऽराधयन्नेषणीयादिदानेन साधूंश्च प्रतिलाभयन्नसाधारणवात्सल्यात्साधर्मिकांश्च प्रीणयन् कश्चित्कालं गमयाम्बभूव । इतश्च नागदत्तोऽपि प्रियाविरहदुःखित आर्तध्यानान्मृतस्तिर्यग्योन्यादिषु चिरं भ्रान्त्वा सिंहपुरे नगरेऽग्निशर्मा नाम द्विजपुत्रोऽभवत् । कालेन च त्रिदण्डित्वं समादाय तीब्रद्विमासादितपोरतो रत्नपुरं समाययौ । तं च परिव्राजमागतं श्रुत्वा तत्पुरनृपो हरिवाहनः पारणकदिवसे न्यमन्त्रयत् । नृपगृहमागतश्च स जिनधर्म दृष्ट्वा प्राग्जन्मवैरेण क्रुद्धो नपं जगाद-"अस्य श्रष्ठिन: पृष्ठे चेदुष्णपायसभाजनं न्यस्यात्तदाऽहं भुजेऽन्यथा न" । अन्यपुंसः पृष्ठे स्थालं न्यस्याऽहं त्वां भोजयामीति नृपेणोक्तश्चाऽतिक्रुद्धः पुनरब्रवीत्-"अस्यैव पृष्ठे स्थालमुष्णपायसं न्यस्याऽहं भुजेऽन्यथाऽकतार्थो यामि" । तद्वचः-प्रतिपन्नेन राज्ञाऽऽदिष्टो दत्तपृष्ठो भुञ्जानस्य द्विजस्य स्थालतापं स जिनधर्मोऽधिसेहे । प्राक्तनकर्मणः फलमेतदनेन विधिना त्रुट्यत्वेवं चिरमचिन्तयच्च । भुक्ते च तस्मिन् द्विजे तत्पृष्ठात्पायसपात्री सपङ्केष्टिकेव मांसादिसहिता समुच्चख्ने । ततो जिनधर्मो गृहं गत्वा स्वकीयं सर्वमपि लोकमाहूय क्षमयित्वा चैत्यपूजा विधाय EXXXXXXXXXXXXXXXXXX ॥२८॥ KXXXX Jan Educa For Persona & Private Use Only Lahelibrary.org Page #33 -------------------------------------------------------------------------- ________________ ॥२६॥ *******XXXXXXXXXXXXXXXX साधोः समीपमुपेत्य यथाविधि परिव्रज्यामुपादाय नगरान्निर्गत्य शैलशृङ्गमधिरुह्याऽनशनं प्रपद्य पूर्वस्यां दिशि पार्श्वभागं कृत्वा कायोत्सर्ग विधायाऽपरास्वपि दिक्ष्वेवं कायोत्सर्ग विधाय गृध्रादिभिश्चञ्चुभिस्रोट्यमानोऽपि व्यथा सहमानो नमस्कारपरायणो विपद्य सौधर्मे कल्पे देवेन्द्रः समजायत । स त्रिदण्डिकोऽपि च मृत्वा शक्रस्य वाहनमैरावतो द्विपोऽभूत् । पूर्णायुश्च ततश्च्युत्वा त्रिदण्डिजीवो भवे भ्रान्त्वाऽसिताक्षो नाम यक्षराडभूव । - इतश्चाऽस्मिन जम्बूद्वीपे भरतक्षेत्रे कुरुजाङ्गलदेशे हस्तिनापुरे पुरे गुणरत्नरोहणाऽचलोऽश्वसेनो नाम नपो बभूव । तस्य च रूपेण देवीव सहदेवीनाम्नी भार्याऽऽसीत् । तस्या कुक्षौ च जिनधर्मजीवः प्रथमात्कल्पानिजायुभु क्त्वा च्युत्वाऽवातरत् । तदानी च सहदेवी मुखे प्रविशतश्चतुर्दश गजादीन् महास्वप्नान् दृष्टवती । पूर्णे समये च सर्वलक्षणलक्षितं विलक्षणरूपविभवं स्वर्णवर्ण सुतमसूत । नृपश्च सोत्सवं तस्य सनत्कुमार इति नाम चक्रे । स च सनत्कुमारो धात्रीभिाल्यमानः क्रमेण वर्धमानो लीलया सर्वाः कलाः शिक्षयामास । शैशवमुल्लद्ध्य च सार्धेकचत्वारिंशद्धनुरु नतो यौवनं प्राप्तवान् । ___ तस्य च कालिन्दीसूरतनयो विख्यातविक्रमो महेन्द्रसिंहनामा परमं मित्रमासीत् । एकदा वसन्ते स सनत्कुमारस्तेन मित्रेण महेन्द्रसिंहेन सह कौतुकात्क्रीडितं मकरन्दाख्यमुखानं ययौ । विविधाभिः क्रीडाभिस्तत्र क्रीडति तस्मिअश्वपती राज्ञः प्राभृते सर्वलक्षणलक्षितान् गतिचतुरान् हयान प्राहिणोत् । तेम्वेकं जलधिकल्लोलं नाम वाजिनं सनकुमारस्याऽपयामास । सनत्कुमारश्च क्रीडां त्यक्त्वा तमश्वमारुह्य कशामुक्षिप्यैकेन पाणिना वल्गामाकृष्यऽऽसनाऽस्पृ EXXXXXXXXXXXXXXXXXXXX ॥२६॥ For Personal & Private Use Only Jain Education national 1221 ebrary.org Page #34 -------------------------------------------------------------------------- ________________ "श्री चक्क हिस्स कहा " ॥ ३० ॥ 1 पर्याणवरुभ्यां तं प्रेरयत् । सोऽश्वश्च पृथिवीमस्पृशन्निव वेगेन प्रधावितः कुमारेण यथा यथा वल्गया चकृषे, तथा तथा विपरीतशिक्षोऽधिकमधावत । एवं सोऽश्वोऽश्वमूर्ती राक्षस इव सादिनां राजपुत्राणां धावतामपि क्षणाददृश्योऽभूत् । ततोऽश्वसेनोऽश्वसेनयाऽश्व नाऽऽकृष्टं सूनुं प्रत्यानेतुमन्वचालीत् । यावच्च जनोऽसावश्वो याति, एतानि तस्य पदानि, इमास्तस्य फेनलाला' इत्येवमाख्याति, तावत्कालरात्रिरिव दृशामन्धङ्करणी प्रचण्डा वात्योदभूत् । तदानीं रेणुभिर्दिशोऽच्छाद्यन्त, सैन्यानि स्तम्भितानीव पादमप्युद्धर्तुं नाऽलम् । गच्छतस्तस्य वाजिनश्वाशेषाण्यपि पदफेनादि चिह्नानि पांशुभिस्तिरोहितानि । ततश्च मूढोपायाः सर्वे सैनिकाः पर्याकुल्यभवन् । ततो महेन्द्र सिंहोऽश्वसेनं नत्वा व्यजिज्ञपत्- 'देव ! पश्य, देवस्येयं दुर्घटा घटना । अन्यथा कुमारः क्क, दूरदेशः स हयः क्व १ तत्राऽज्ञातशीले कुमारस्याऽधिरोहणं क्व तेन कुमाररस्याऽपहरणं क्व १, इयं वात्या च प्रचण्डा क्व ? तथापि दैवं जित्वा स्वामिसन्निभं स्वमित्रमन्विध्याऽऽनेष्यामि । प्रभो ! ममाल्पपरिवारस्य, काचिदेकाकिनोऽपि च कुमारस्याऽऽन्वेषणं सुकरम् । किन्तु प्रचुरसैन्य परिवारस्य यत्र कुत्रचिदसम्मातो देवस्य तन्न योग्यम्" । एवं भूयोभूयः सम्प्रार्थ्य तेन पादलग्नेन निवर्त्तितोsaसेन दुःखितो नगरं ययौ । महेन्द्रसिंहश्च स्वल्पबलवत्परिवारसमन्वितः सहसा सनत्कुमारमन्वेष्टुमतिदुर्गा महाटवीं प्रविवेश । विकटां तामटतस्तस्य खिन्नखिन्नानि सैन्यानि मन्त्रिमित्रादीनि च त्यक्तसङ्गानि बभ्रुवुः । एवं क्रमादेकाकी स धनुर्धरो निकुञ्जकन्दरादिषु भ्रमन् सनत्कुमारमन्वेषयन् वर्षातपशीतादिकं सहमानः क्रमशः षड्ॠतूनपि व्यतीयाय । एवं सनत्कुमारान्वेषणायाऽटवीमटतस्तस्यैको वत्सरो जगाम । I Jain Educatiemational For Personal & Private Use Only ****** "चतुर्थः श्रीसन त्कुमार चक्रवर्ती चरितम् " ॥ ३० ॥ elibrary.org Page #35 -------------------------------------------------------------------------- ________________ ॥३१॥ एकदा च तस्यामेवाऽटव्यां कियद् दुरं गत्वाऽवस्थितो दिशो विलोकयामास । कारण्डवादिपक्षिशब्दः पङ्कजगन्धिना मरुता च किश्चित्सर इहास्तीत्यनुमानतो निश्चिकाय । स तदभिमुखं प्रयातो मधुरं सङ्गीतं शृण्वन्नग्रे गच्छन् विचित्रवस्त्रनेपथ्यानां रमणीनां मध्यवर्त्तिनं मित्रं सनत्कुमारं ददर्श । ततश्चाऽसौ मे प्रियसुहृदेव, माया वेत्यचिन्तयद् यावत्, तावद्वैतालिकेन पठ्यमानां प्रशस्ति श्रुत्वा सनत्कुमारस्य दृक्पथं गतो हर्षाश्रुधारया समं तत्पादपद्मयोः पतन् सनकुमारेणाऽभ्युत्थायोद्धृत्य परिषध्वजे। सनत्कुमारप्राप्तेश्च महेन्द्रसिंहस्य श्रमः क्वापि जगाम । ततः सनत्कुमारः स्वचक्षुषोहर्षाश्रु प्रमज्य महेन्द्रसिंहमुवाच-"कथमत्र समागतः १, एकाकी कथमासी १ मां कथमज्ञासीः १, कथं कालमक्षिपः१, मद्वियोगे पितृपादाः कथं प्राणानधारयन् ? पितृभ्यामिह दुर्गमे कथमेकाकी प्रेषितः ?" इत्थं कुमारेण पृष्टो महेन्द्रसिंहः सर्व प्राग्वृत्तं यथातथमाचचक्षे। ततः सनत्कुमारस्तस्य महेन्द्रसिंहस्य विद्याधरीभिर्मजनभोजनादि कार__ यामास । तदनु विस्मितो महेन्द्रसिंहो विनयाद्रचिताजलिः सनत्कुमारं पप्रच्छ-"तदा तेन तुरङ्ग कियती भुवमप हृतः १ तत्प्रभृति मद्वियोगे च त्वया कि प्राप्तम् ?, इयमृद्धिर्वा ते कुतः, यदि मयि न गोपनीयं तये तद्रहस्यमाख्यातुमर्हसि ।" ततः सनत्कुमारोऽस्मिन्नात्मकल्पे स्ववयस्ये न किमपि गोपनीयमिति विचिन्त्य स्ववामपावें निषण्णां स्वदयितामादिदेश-"विद्यया वेद्यवेदिनि । वकुलमतिके! प्रिये ! महेन्द्रसिंहाय तथ्यां मत्कथा कथय । मामधुना निद्रा बाधते" । इत्युक्त्वा सुषुप्सुः स रतिगृहं प्रविवेश। ततो वकुलमतिरवोचत्-"तत्र दिने युष्माकं पश्यतामपि वाजिना हृतस्तव सखा महाटवीमेतां प्रवेशितो द्विती EXXXXXXXXXXXXXXXXXX Jain Educati o nal For Personal & Private Use Only lelibrary.org Page #36 -------------------------------------------------------------------------- ________________ "चतुर्थः चकवाट्टिस्स - श्रीसन कुमार कहा" ॥३२॥ चक्रवर्ती चरितम्" XXXXXXXXXXXXXXXXXXXX येह न्यपि वेगाद्गच्छन मध्याह्न क्षुत्पिपासात्तों जिह्वां कृष्ट्वाऽवस्थितः। ततस्तस्मात्खिन्नादश्वादार्यपुत्रोऽप्यवतीर्याऽश्वात्पर्याणादिकमुत्तार्य पिपासया पयोऽन्वेषयन्नस्यामटव्यामितस्ततः परिभ्रमनप्यपश्यन् सुकुमाराङ्गोऽध्वश्रान्तो दवदाहाद्व्याकुलो द्रुतं सप्तपर्णतरुमूलं गत्वोपाविशत् क्षोण्या पपात च । तदा च पुण्यवशात्तद्वनदेवता यक्षोऽमुं सर्वाङ्ग शीतलैजलैः सिषेच । लब्धसंज्ञ उत्थाय चाऽसौ तद्दत्तं जलं पीत्वा कस्त्वं कुतो वेदं जलमित्यपृच्छत् । स यक्षराट् च-“यक्षोऽहम्, त्वत्कृते मानसात्पयः समानीतमि" त्याचख्यौ। तत आर्यपुत्रोऽवोचत-"महान् सन्तापोऽङ्ग, स मानससरोमजनाद्विना नाऽपयास्पति" । "एष तवेच्छां पूरयामी" त्युक्त्वा च स यक्षोऽमुकदलीसम्पुटे क्षिप्त्वा मानससरोऽनयत । तत्र च यथाविधि स्नानेनाऽऽयपुत्रस्य श्रमो दूरीभूतः। तत्र च तव सुहृदः प्राग्जन्मारिरसिताक्षो यक्षः कृतान्त इव हननाय समागच्छत् । एकं वृक्षं च समुन्मूल्य यष्टिलीलयाऽऽयपुत्राय प्राक्षिपच्च । तं च समापतन्तं द्रमं तव सखा हस्तेन निहत्याऽपातयत् । ततः स यक्षो बहलधुलीभिर्जगदन्धकारमयं चकार । तेन विकृताश्च भीपणाः पिशाचा आर्यपुत्रमधावन्त । आर्यपुत्रोऽपि च तैर्मनागप्यभीतो नागपाशैर्बद्धोऽपि तान् सर्वान् लीलया त्रोटयामास । ततो विलक्षो यक्षोऽमुं कराघातैरताडयत् । आर्यपुत्रोऽपि तं वज्रसारेण मुष्टिना जघान । ततो गरीयसा मुद्गरेण तेन यक्षेणाऽऽहत आर्यपुत्रश्चन्दनद्रुममुन्मूल्य तं यक्षं जघान । स भुवि पपात च । ततः शैलं लीलयोरिक्षप्य यक्षेणाऽऽहत आर्यपुत्र क्षणं निश्चेतनो जज्ञे । लब्धसंज्ञश्च तमद्रिं विध्याऽर्यपुत्रो बाहुभ्यां योद्धुं प्रववृते । तं च निहत्य दोर्दण्डेनाऽर्यपुत्रः कणशश्चक्रे । तथापि देवत्वात्स नाऽमृत । किन्तु विरसमा KXXXXXXXXXXXX XXXXXXXXXXXX ।।३२॥ Jain Educatie national For Personal & Private Use Only Plelibrary.org Page #37 -------------------------------------------------------------------------- ________________ ॥ ३३॥ रट्य स यक्षो वायुवेगेन पलायिष्ट । रणकौतुकावलोकिन्यो विद्याधर्यादयस्त्वन्मित्रे पुष्पाणि ववृषुः। ततो धीरमानस आर्यपुत्रोऽपराह्व मानसादचालीत् । नन्दनादायाता रूपवती खेचरकन्यकां ददर्श च । ताभिश्वाऽपि हावभावमनोहरं त्वन्मित्रं ददृशे। ताश्चोपेत्य सद्भाव प्रकटयामासुः। आर्यपुत्रोऽपि तामुवाच-"यूयं कस्य महात्मनः पुन्यः, इदमरण्यं च केन हेतुना युष्माभिभूषितम् ? । ततस्ता अप्यूचुः-"वयं विद्याधरेन्द्रस्य भानुवेगस्याऽष्टौ कन्यकाः। मम पितुश्च नगरीतोऽनतिदर एवाऽस्ति । ता विश्रान्त्याऽलकुरु"। सविनयमुक्तस्ताभिश्च ते सखा वरचिन्ताभृतः स्वपितुरन्तिकमनायि | भानुवेगश्चाऽभ्युत्थानं कृत्वा स्वागतवचनमुच्चार्योवाच-"त्वं कन्यानामुचितो वरोऽसीति मया प्रायसे इमा अष्टावपि परिणय"। तेन चैव अभ्यर्थितस्तव सखा तदैव ता अष्टा अपि विधिपूर्वक पर्यणेषीत् । ताभिश्च समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणो निद्रितोऽसिताक्षणोत्क्षिप्याऽन्यत्र चिक्षिपे । निद्रान्ते च तव सखा स्वं सकङ्कणं भूमिष्ठमरण्यान्तरेकाकिनं पश्यन् किमिदमिति चिन्तयामास । पूर्ववच्चैकाक्यटव्यन्तरटन्नेकम_लिहं सप्तभूमिकं प्रासादं ददश। अदोऽपि कस्याऽपि मायाविनो मायाविलसितं किश्चित् चिन्तयंस्तं प्रासादमाससाद । तत्र च कस्याऽपि योषितः सकरुणं रुदितं श्रुत्वा दयावीर आर्यपुत्रस्तत्र प्रासादे सप्तमी भूमि प्राप्तः-सनत्कुमार ! जन्मान्तरेऽपि त्वमेव मम भर्ता भृया इति भूयो भूयो वदन्ती रूपलावयपुण्याङ्गीमधोमुखीमश्रुपूर्णेक्षणां कन्यकां ददर्श । स्वनामश्रवणाच्च केयमित्याशङ्कितः पुरोभूय तामाभाषिष्ट-“भद्रे ! सनत्कुमारः कः ?, कासि त्वम् , इह किमागता, किंवा ते व्यसनम् , ॥३३॥ For Personal & Private Use Only Jain Education intentional wwagainalibrary.org Page #38 -------------------------------------------------------------------------- ________________ "श्री चक्क हिस्स कहा" || 38 || येन तस्य स्मरन्ती रोदिषि ?" तेनेत्थमुक्ता सा बालोवाच - "साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेश्चन्द्रयशसो देव्याश्च सुनन्दानाम्यहं पुत्री । सनत्कुमारश्चाऽश्वसेननृपस्य रूपजितकामः पुत्रः । स च मनोरथमात्रेण मम भर्त्ता । यस्मात्पितृयामुदकपूर्वकं तस्मै दत्ताऽस्मि । किन्त्वकृतविवाहामेको विद्याधरो मां स्वगृहादिहाऽनैषीत् । इमं प्रासादं विकृत्य मामत्रैव विमुच्य च स क्वाऽप्यगात् । न जाने, किं भविष्यति ?” तत आर्यपुत्रोऽप्युवाच - " कातरेक्षणे ! मा भैषीः । म स्मरसि स एष कौरव्यः सनत्कुमारोऽस्मि" । ततः साऽप्येवं प्रत्यभाषिष्ट - "देव ! चिरान्मेऽद्य दृष्टिपथेऽसि, दैवेन दिष्टया सुस्वप्नमिव दर्शितोऽसि । एवं तयोरालपतोः स वज्रवेगो नाम विद्याधरोऽशनि वेगपुत्रः क्रुद्धस्तत्राऽगात् । तथाऽऽयं पुत्रमुत्पाट्योल्लोलयामास । "हा नाथ ! दैवेन निहताऽस्मीति भाषमाणा च सा मूच्छेया महीपृष्ठे न्यपतत् । आर्यपुत्रोऽपि च क्रुद्धो मुष्टया तं दुराशयं वज्रवेगमवधीत् । तथाऽक्षताङ्ग आर्यपुत्रो नेत्रानन्दं जनयंस्तत्समीपं समाययौ । तां समाश्वास्य च नैमित्तिकैः स्त्रीरत्नमिति सूचितां तां सद्यः पर्यणैषीच्च । तत्र च क्षणेनैव वज्रवेगस्य भगिनी सन्ध्यावली समागात् । भ्रातृवधात्क्रुद्धाऽपि "ते भ्रातृवधकस्ते भर्त्ता भावी ” ति ज्ञानिनां वचः स्मृत्वा च क्षणेनाऽशाम्यत् । ततः साऽपि च स्वयंवरपरायणाऽऽर्यपुत्रं नाथमिच्छन्त्युपतस्थे । सुनन्दयाऽनुज्ञातश्च त्वत्सखा रागिणीं तां गान्धर्वेण विवाहेनोपायंस्त । तदानीं च द्वौ विद्याधरावुपेत्य सनत्कुमाराय ससन्नाहं महारथमुपनीयाऽवोचताम् - "त्वया गरुडेन पन्नगमिव तं वज्रवेगं श्रुत्वा तत्पिताऽशनिवेगः क्रुद्धो योद्धुमभ्येति, चन्द्रवेगेन भानुवेगेन च पितृभ्यां प्रेरितावाव भवतः वसुयौं साहाय्यार्थे समागतौ । तत्प्रेषितममुं रथमारोह, अमु ं कवचं च परिधारय । द्विषां बलं विजयस्व च । Jain Educatiomational For Personal & Private Use Only ******* "चतुर्थः श्रीसन त्कुमार चक्रवर्ति चरितम् " ॥ ३४ ॥ www.elibrary.org Page #39 -------------------------------------------------------------------------- ________________ ॥३५॥ XXXXXXXXXXXXXXX । चन्द्रवेगभानुवेगौ चाऽपि साहाय्याय वायुवेगिभिर्वाहनैरागतावेव विद्धि" तदानीमेव च तौ चन्द्रवेगभानुवेगौ महा सैन्यौ समेयतुः । तदा चाऽशनिवेगस्य समागच्छतः सैन्यसमूहैस्तुमुलम् उत्तस्थे । तदा च सन्ध्वयावलिरायपुत्राय प्रज्ञप्तिको नाम विद्यामदत्त । आर्यपुत्रोऽपि च सब्रह्य तं रथं समारुह्य च रणायोत्कण्ठितस्तस्थौ । चन्द्रवेगादयश्च विद्याधराः सनत्कुमारं परिवृत्य तस्थुः। अथाऽशनिवेगस्य सैनिका 'गृह्णीत गृह्णीत हत हते' ति भाषमाणा अतिवेगेनाऽऽगमन । ततश्चोभयोः सैन्यास्ताम्रचूडा इवोत्पत्त्योत्पच्याऽमर्षात्प्रहारिणोऽयुध्यन्त । चिरं च शस्त्राशस्त्रि-दण्डादण्डि-बाहूबाहवि-युद्धा द्वयोरपि सैन्येषु भग्नेषु रथेनानिलवेगिनाऽशनिवेगः समुत्थाय परानुच्चैराक्षिपन् धनुरधिज्यं विदधे । आर्यपुत्रोऽपि च तथैव तमधिक्षिपन् साधिज्यं धनुर्व्यधात् । ततो द्वयोरपि महौजसोः शराशरि-शस्त्राशस्त्रियुद्धे प्रवृत्ते धावतोऽशनिवेगस्य भुजार्धमार्यपुत्रः खड्गेन चकर्त्त । तादृशोऽपि च सोऽशनिवेगः क्रोधाद्धावमानः प्रहत्तुं प्रायतत । तत आयपुत्रो विद्यार्पितेन चक्रेण तस्य शिरश्चिच्छेद । तथाऽशनिवेगस्य राज्यलक्ष्मी वशीकृत्य चन्द्रवेगादिभिः समं वैताढयं गिरिं जगाम । तत्र चार्यपुत्रस्य विद्याधरेन्द्रविद्याधरमहाराज्याभिषेक कृतः। स चार्यपुत्रः शाश्वताहत्प्रतिमानामाष्टाह्निकोत्सवं चकार। अन्येद्यश्च मम पिता चन्द्रवेग आर्यपुत्रं सप्रश्रयमवदत्-"एकदा पुरा मया कोऽपि ज्ञानरत्नाकरो मुनिष्टः पृष्टश्च मां शिष्टवान-तव वकुलमतिप्रमुखं कन्याशतं चतुर्थश्चक्री सनत्कुमारः परिणेष्यति । ततश्च तच्चिन्ताग्रस्ते मयि सत्यां भाग्यात्तषसखा इह समागतः। तत्प्रसीद, अमः कन्याः परिणय" । ततश्चैवं मम पित्रा प्रार्थितस्तव सहन्मदादिकाः शतं |॥३५॥ For Persons & Private Use Only ory.org Jan Educato Page #40 -------------------------------------------------------------------------- ________________ "श्री चक्कवट्टिस्स कहा" । श्रीसनकुमार चक्रवर्तिचरितम्" कन्याः पर्यणैषीत् । तत्प्रभृति च विद्याधरैः परिवृतो मदादिकाभिस्ताभिः सर्वाभिः कन्यकाभिः सुखं रममाणो यथेच्छ विषयसुखमनुभवन् तव सखा कालमनैषीत् । अधुना च क्रीडानिमित्तमेव हागतस्त्वया मिलितः। एवमुक्तवत्यां वकुलमत्यां रतिनिकेतनान्निर्गतः सनत्कुमारो महेन्द्रसिंहेन विद्याधरैश्च परिवृतो वैताढयाद्रिमगात् । यथासुखं कालं गमयंश्चैकदा महेन्द्रसिंहेन विज्ञापित:-"तवाऽनया महद्धर्था मम मनो नितरां मोदते । किन्तु त्वद्वियोगात्तौ पितरौ त्वां स्मारं स्मारं विषीदतः । तत्प्रसीद, हस्तिनापुरं नगरमभिगच्छावः।" तेन सख्या तथाऽभिहितः सोऽपि सोत्कण्ठो बलयुतैविद्याधराऽधिपशतैः परिवृतः समित्रः सकलत्रश्च सनत्कुमारो हस्तिनापुरं प्राप । तत्र च वियोगात्तौ पितरौ पौरांश्च निजदर्शनात्समानन्दयत् । ततोऽश्वसेननृपः स्वे राज्ये सनत्कुमारं तत्सेनाऽधिपत्ये च महेन्द्रसिंह निधाय श्रीमद्धर्मतीर्थकृतीर्थे स्थविराणामन्तिके परिव्रज्यां समादाय स्वार्थमसाधयत् । ___इतश्च सनत्कुमारस्य राज्यं परिपालयतः सतश्चतुर्दशचक्रादीनि महारत्नान्यजायन्त । ततः स चक्रमार्गाऽनुगः स्वयं षट्खण्डं भरतक्षेत्रं नैसर्यादीनिधींश्च दशभिवषेसहस्रः साधयित्वा हस्तिनापुरं प्राविशत् । तं च नगरे प्रविशन्तमवधिज्ञानतः शक्रः सौहृदात्स्वमिव वीक्षाश्चक्रे । ततः पूर्वजन्मन्यसौ मे बान्धव इति स्नेहवशाच्छको नगरं प्रविशतः सनत्कुमारस्याऽभिषेको विधीयतामिति कुबेरं समादिशत् । हारं शशिमालामातपत्रं चामरे मुकुटं कुण्डलयुगं देवदूष्यद्वयीं सिंहासनपादुके पादपीठं च शक्रः सनत्कुमारार्थं कुबेरस्य समार्पयत् । तिलोत्तमानारदादींश्च तदभिषेकाय समादिशश्च । ततः कुबेरस्तैः साधं हस्तिनापुरमेत्य सनत्कुमाराय शक्रादेशं निवेद्य तदनुज्ञात एकयोजनं माणिक्यपीठं KXXXXXXXXXXXXXXXXXXXXX KXXXXXXXXXXX ॥३६॥ Jain Educa t ional For Personal & Private Use Only W h elibrary.org Page #41 -------------------------------------------------------------------------- ________________ ॥ ३७ ॥ विकृत्य तदूर्ध्वं मण्डपसिंहासनादि क्षणाद्विधाय देवादिभिः क्षीरोदसलिलगन्धमाल्यादि च समानाय्य सनत्कुमारस्य सर्वे देवादिभिचक्रवर्तित्वाऽभिषेकं समहोत्सवं विधाय गजरत्नमध्यारोह्य तं हस्तिनापुरे प्रावीविशत् स्वपुरमिव च हस्तिनापुरं धनाकीर्णं कृत्वा कुबेरः स्वं धाम जगाम । तथा राजभिः सामन्ताभिश्च तस्याऽभिषेको विदधे । तस्याऽभिषेकोत्सवाच्च हस्तिनापुरं द्वादशाब्दीं यावद्दण्डशुक्लादिवर्जितमभूत् । स चक्री च पितेव विधिवत्सकलाः प्रजाः पालयामास । तदानीं च सुधर्मायां रत्नसिंहासनस्थिते सौदामनीं नाटकं नाटयति शक्रे सर्वरूपाऽभिभाविनाऽनवद्येन रूपेण सर्वदेवानां विस्मयं जनयन् देहप्रभाभिस्सर्वेषां तेजांसि तिरयन्नैशान कल्पात्सङ्गमाख्योऽमरः समागत्य पुनः प्रत्यगात् । गते च तस्मिन् देवाः शक्रं पप्रच्छुः अस्य लोकोत्तरं तेजोऽनुपमं रूपं च कथम् ?" । ततः शक्रोऽवदत्-" प्राग्जन्म - न्येतेनाऽऽचामाम्लवर्धमानं तपः कृतम्, तेनाऽस्येत्थं रूपतेजसी" । ततः पुनः - " जगत्त्रये किं कोऽप्यन्योऽपीदृशः ?" इत्यमरैः पृष्टः शक्रोऽब्रवीत् - " राज्ञः सनत्कुमारस्य यद्रूपं तदन्यत्र देवेषु मनुष्येषु च न ।" ततस्तद्रूपस्यैवं प्रशंसामश्रद्दधानौ विजयो वैजयन्तश्च द्वौ सुरौ पृथिव्यामवतीर्य रूपान्वेषणार्थं विप्ररूपेण नृपतेः प्रासादद्वारि द्वाःस्थसन्निधौ तस्थतुः । तदानीं च सनत्कुमारोऽपि मुक्तनिःशेषनेपथ्यः सर्वाङ्गाऽभ्यङ्गमुद्वहन् प्रारब्धमजन आसीद् विज्ञप्य द्वारपालेन निवेशितौ च तौ विप्रौ सनत्कुमारमालोक्य सुविस्मितौ शक्रोक्तं तथैवेति चिन्तयन्तौ " किं निमित्तमिहागतौ” इति सनत्कुमारेण पृष्टावूचतुः - "राजन् ! भुवने भवतो रूपं लोकोत्तरचमत्कारकं गीयते । दूरतोऽपि तदाकर्ण्य कौतुकाद्विलो - Jain Educatimational For Personal & Private Use Only ॥ ३७५ helibrary.org Page #42 -------------------------------------------------------------------------- ________________ श्रीसन। पकवाट्टिस्स कहा" कुमार ॥३८॥ (*XXXXXXXXXXXXXXX चक्रवर्तीचरितम्" कयितुमायातौ । लोके यथा वर्ण्यमानं तव रूपं श्रूयते, ततोऽप्येतत्सविशेषं निरीक्ष्यते" ततः सनत्कुमार ऊचे-"अभ्यक्तेऽङ्गे कियती कान्तिः, क्षणं प्रतीक्षेथाम् , यावन्मजनं निर्वय॑ते । पुनः कृतनेपथ्यं रूपं निरीक्षेथाम् ।" ततः स्नात्वा कृतनेपथ्यः स सभामध्यास्त । ततोऽनुज्ञातौ विप्रौ पुरोभृय नृपते रूपं ददृशतुः । विषण्णौ दध्यतुश्च-"तद्रूपं, सा कान्तिस्तल्लावण्यं च क्षणात्क्वाऽगात् १ । मर्त्यानां सर्वमेव क्षणिकम्" । ती विषण्णौ दृष्ट्वा राज्ञा पृष्टौ विप्रावूचतुः-"आवा सौधर्मवासिनौ सुरौ । शक्रकृतं तद्रूपवर्णनमश्रद्दधानौ द्रष्टुमिहागतौ । पुरा त्व द्रूपं यथा शक्रोक्तं दृष्टम् । तदिदानीमन्यादृशमेवाज्जायत । कान्तिसर्वस्वतस्करैर्व्याधिभिरधुना तव देहः समन्तादाक्रान्तः"। इति यथाथमभिधाय शीघ्र तिरोहतयोस्तयोनृपः स्वं विच्छायमपश्यत् । ततश्च सांसारिके वस्तुनि जातानित्यत्वभावनः सञ्जातवैराग्यः प्रव्रज्या जिघृक्ष सुतं राज्ये निवेश्योद्यानं गत्वा विनयन्धरसूरिपादपार्वे सर्वसावद्यविरति प्रधान व्रतमग्रहीत् । ततो महाव्रतधरस्याऽस्य विहरतोऽनुरागेण सर्व प्रकृतिमण्डलं पृष्ठतोऽनुसरत्षण्मासान यावत्पर्युपास्य कथश्चिन्न्यवर्त्तत । ___अन्यदा च कृतपष्ठः स सनत्कुमारो गोचरे प्रविष्टचीनककूर लेभे। साऽजातनं च तदभुक्त । भूयोऽपि पष्ठभक्तान्ते तथैव कृतात्पारणादस्य व्याधयो ववृधिरे । ततः स पुण्यात्मा वर्षशतानि यावत्कच्छशोषज्वरादिकाः सप्तवेदना अधिसेहे । तदेवं दुःसहान परीषहान सहमानस्य तस्य लब्धयः समुदपद्यन्त । ताश्च सप्त नामतः कफविद्युञ्जल्लविष्ठामषौंषधयो लब्धयः । अत्रान्तरे शक्रो जातचमत्कारो देवानुद्दिश्य तस्य वर्णनं चक्रे "अयं सनत्कुमारश्चक्रवर्तिश्रियं त्यक्त्वा दुस्तपं तपस्तप्यते । लब्धास्वपि सर्वासु लब्धिषु शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति । तद्वाक्यमश्रद्दधानौ RRC *॥३८॥ Jain Educa l amational For Personal & Private Use Only ISRnelibrary.org Page #43 -------------------------------------------------------------------------- ________________ ॥३४॥ KXXXXXXXXXXXXXXXXXXXXXXXX द्वौ विजयवैजयन्तौ सुरौ तत्समीपमुपेत्योचतुः-"महाभाग ! कि रोगैः । परिताम्यसि ?, आवां वैद्यौ स्वैरेव भेषजैविश्वं । चिकित्सावः । यदि त्वमनुजानासि, तहिं तव रोगान् शीघ्र निगृह्णावः। ततः सनत्कुमारः प्रत्यूचे-“भोश्चिकित्सकौ ! देहिनां भावतो द्रव्यतश्च द्विविधा रोगाः। क्रोधादयो भावरोगा जन्मान्तरसहस्त्रानुगा अत्यन्त दुःखदाः । युवा तांश्चिकित्सितुमीशौ चेत्तर्हि चिकित्सतम् । यदि द्रव्यरोगाश्चिकित्सथः, तर्हि पश्यतम्" । ततो गलत्पामामङ्गुली स्वकविग्रुषा लिप्त्वा द्राक्सुवर्णीचकार । तदृष्टा च तौ तस्य पादयोः पेततुरूचतुश्च-"त्वद्रूपं द्रष्टुं पूर्वमायातावेवाऽऽवां सम्प्रत्यप्यायातौ । शक्रश्च-लब्धसिद्धिरपि व्याधिबार्धा सहमानस्तपस्यती-ति त्वामवर्णयत् । तदावामिहागत्य प्रत्यक्षेण परीक्षितम्" इत्युदित्वा तौ देवौ तिरोहितौ । तदेवं चक्रिणस्तस्य कौमारे वर्षलक्षार्धम् , मण्डलित्वे च तावत् , दिग्जये दशवर्षसहस्राणि, चक्रित्वे नवतिवर्षसहस्राणि, व्रते वर्षलक्षमिति व्यब्दलक्षाण्यायुः । ततो ज्ञातावसानसमयोऽनशनं प्रपद्य पूरितायुः पश्चपरमेष्ठिनः स्मरन् सनत्कुमारः सानत्कुमारे कल्पे सुरः समजनिष्ट ॥ ७॥ षोडशमजिन पंचम चक्रवर्ती श्रीशान्तिनाथचरितम् । ॥ प्रथमः सर्गः ॥ प्रादात्प्रजानां यः शान्ति गर्भस्थोऽपि जिनेश्वरः। अचिराकुक्षिजं विश्वसेनसूनुं नमामि तम् ॥१॥ EXXXXXXXXXXXXXXXXXXXXXXXXX ॥३8 ।। Jain Educatio Alibrary.org n For Personal & Private Use Only al Page #44 -------------------------------------------------------------------------- ________________ किवट्टिस्सा कहा" "पञ्चमः श्रीशान्तिनाथ। चक्रवर्ती| चरितम्" ।४०॥ XXXXXXXXXXXXXX अथाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धविभूषणे रत्नपुरे पुरे धर्मार्थकामाननाबाघया सेवमानः प्रार्थिजनकल्पद्रुमो रूपवान् दयावांश्च श्रीषेणो नाम नृपो बभूव । तस्य च शीलगुणसमन्विते रूपतिरस्कृतदेव्यावभिनन्दिताशिखिनन्दिते द्वे पत्ल्यावभूताम् । कालक्रमेण चाऽभिनन्दिता गर्भ दधौ । तदानी च सा स्वोत्सङ्गस्थौ सूर्याचन्द्रमसौ स्वप्ने ददर्श । नृपश्च तवोत्कृष्टं पुत्रद्वयं भावीति स्वप्नफलमाख्यत् । पूर्णे च समये सा देवी पुत्रद्वयमसूत । ततः श्रीषेणः समहोत्सवं तयोरिन्दुषेणो बिन्दुषेणश्चेत्यभिधानमकरोत् । धात्रीमिाल्यमानौ च तौ क्रमाद्वर्धमानौ सर्वशस्त्रशास्त्रनिपुणतामापन्नौ कामक्रीडावनं यौवनं प्रतिपेदाते ।। इतश्चात्र भरते मगधेषु ग्रामोत्तमेऽचलग्रामे वेदविद् धरणीजटनामा विप्राग्रणीभूव । तस्य च कुलीना यशोभद्रानाम पत्न्यासीत् । तस्याश्च क्रमेण नन्दिभूतिश्रीभूतिनामनौ द्वौ पुत्रौ जज्ञाते । तथा तस्य विप्रस्य कपिलाख्यायां दास्यां कपिलो नाम पुत्रो बभूव । स द्विजो नन्दिभूतिश्रीभृतिसुतौ साङ्गान् सरहस्यान् वेदानपाठयत् । अतिमेधावी कपिलोऽपि च तत्सर्व तूष्णीकोऽवधारयन् वेदाब्धिपारगो जज्ञे । स च कपिलः प्रकटवैदुषिको यज्ञोपवीतद्वितयं कण्ठदेशे निधाय द्विजोऽस्मीति गिरा प्रकाशयन् देशान्तरेषु बभ्राम । भ्रमंश्च स क्रमेण रत्नपुरपतनं प्राप्याऽशेषपौरोपाध्यायस्य सत्यकिनाम्नः कलानिधेः पाठशाला दिने दिने गत्वा पृच्छतां छात्राणां संशयानच्छिदत् । ततश्च विस्मितः सत्यकिदुर्ज्ञानानि शास्त्ररहस्यानि तमपृच्छत् । कपिलश्च तस्मै तानि सविशेषाणि प्रत्यपादयत् । ततः सत्यकिस्तं राजा युवराजमिव सर्वकर्मधुरन्धरं चक्रे । स च सर्वशिष्याणामन्वहं व्याख्या चकार । तेन स्वेन पुत्रेणेव निश्चिन्तः सत्य EXXXXXXXXXXXXXXXXXXXXXXXX LAK ॥४०॥ Jain Educ a tional For Personal Private Use Only Ninelibrary.org Page #45 -------------------------------------------------------------------------- ________________ ॥४१॥ किस्तस्थौ । तथा कपिलः सत्यके पितुरिव सविशेषां भक्तिं चकार । तेन प्रीतश्च सत्यकिः किमेतस्मै करोमीत्यचिन्तयत् । तदा सत्यकर्जम्बुका नाम भार्या शीलरूपादिसमन्वितायाः स्वपुत्र्याः सत्यभामाख्यायाः सम्प्राप्तयौवनाया वरान्वेषणाय तं प्रेरयामास । ततः सत्यकिरूचे "रूपगुणसम्पन्नो विनीतः कपिलो विप्रः सत्यभामोचितो वरोऽस्ति ।" जम्बुकया च तत्स्वीकृते शुभे लग्ने सत्यकिविधिवत्सत्यभामाकपिलयोविवाहं व्यधात् । ततश्च कपिलः सत्यकिवत्पौरैः पूज्यमानः सर्वेष्वपि पर्वसु सत्यकेरपि पूज्योऽयमिति धनधान्यादिभिः सक्रियमाणः सत्यभामया सह भोगान् भुजानो धनैर्गुणैश्च समृद्धो जज्ञे । एकदा च प्रावृषि स निशि नाट्यविलोकनाय सदनादहिगतश्चिरं तत्र स्थितः । ततो निवृत्तस्य गृहं गच्छतोऽर्धमार्गेऽम्बुदो वर्षितुमारब्धवान् । ततः स तदानीं विजनत्वानग्नीभूय स्ववाससी कक्षान्तः प्रक्षिप्य वेरमद्वारं प्राप्तः पुनस्तत्पर्यधात् । सत्यभामा च वृष्टया मद्भ वस्त्रास्तिमितानि स्युरिति बुद्धयाऽन्यवस्त्राणि गृहीत्वा समुपस्थिता “विद्याप्रभावेण मे वस्त्रे न स्तिमिते, तदन्यैर्वासोभिरलमि" त्युक्ता कपिलस्य वासांस्यनााणि शरीरं चाद्रं विलोकमाना दध्यौ-"यदि विद्याशक्त्या स्ववासांस्यसावरक्षत्तदा स्वाङ्ग कथं नाऽरक्षत् । नूनं नग्नोऽयमागतोऽस्ति । अतोऽयं मत्पतिरकुलीनो मेधावलादेव कर्णश्रुत्या श्रुतीरध्यगीष्ट"। एवं मन्यमाना च तत्प्रभृति तस्मिन् कपिले सा मन्दानुरागा जाता । देवाच्च क्षीणधनस्तदैव धरणीजट आढयं कपिलं श्रुत्वा धनेच्छया समाययौ कपिलश्च स्वयं पाद्यस्नानादिना तं सच्चक्रे । भोजनाऽवसरे प्राप्ते च प्रियां प्रोवाच-"प्रिये! शरीरबाधा ममाऽस्ति, ततः पितृहेतवे भोजनं विभिन्नं XXXXXXXX ॥४१॥ elibrary.org Jain Educator national For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ चक्कट्टिस्स कहा" ॥४२॥ "पञ्चमः श्रीशान्तिनाथचक्रवर्तीचरितम्" A XXXXXXXXXXXXXXXXXXXXXXX सम्पादय" । ततः पितुः पुत्रस्य चाऽऽचरणमन्यथा दृष्ट्वा सत्यभामाकुलीनत्वमधिकमाशशङ्क।चरितैश्च श्वशुरं कुलीनं ज्ञात्वा जनकवदाराधयित्वा ब्रह्महत्याशपथं दत्त्वा रहसि "अयं तव सूनुः शुद्धपक्षद्वयोद्भवोऽन्यथा वेग ति पप्रच्छ । ततो धरणीजट: सर्व यथातथं समाचख्यौ।। अथ कपिलेन विसृष्टो धरणीजटः पुनरेव निजं ग्रामं जगाम । सत्यभामाऽपि च गत्वा श्रीषेणं व्यजिज्ञपत्"ममाऽयं दैववशादकुलीनो भर्ताऽभवत् । ततो मामस्मान्मोचय । अनेन मुक्ता सती च सुकृतमाचरिष्ये" । ततः श्रीषेणोऽपि कपिलमाहूय "धर्माचरणार्थं सत्यभामेयं त्वया मुच्यताम् । विरक्तायामस्यां तव वैषयिकं सुखं कीदृग्भवेत् ?" इति बोधयामास । कपिलश्च "क्षणमप्यनया विना प्राणान् धतुं नाऽलमस्मि, तत इमां पाणिगृहीती कथश्चनापि न त्यजामि, त्यजनं त्याजनं वा गणिकास्वेव युज्यते" इत्युवाच । ततः क्रद्धा सत्यभामोचे-"यदि मामेष न त्यजति, तदा जले ज्वलने वा प्रवेक्ष्यामि" । ततो राजोवाच-असौ प्राणान् मा त्याक्षीदिति मम गृह एव ते प्रिया कतिचिद्दिनानि तिष्ठतु" । एवमस्त्विति कपिलेनोक्ते च राज्ञा राज्यै समर्पिता सत्यभामा विविधं तपः समाचरन्ती समवस्थिता। तस्मिन्नेव च समये कौशाम्ब्यां नगर्यो बलो नाम महाबलो नृपः श्रीमतीदेवीप्रसूता स्वसुतां श्रीकान्तां प्राप्तयौवना रूपशीलादिसमन्वितामिन्दुषेणस्य स्वयम्बरे प्रभूतयर्या प्रेषीत् । तया सहाऽऽगतामनन्तमतिका नाम वेश्या रूपोत्कृष्टामिन्दुषेणविन्दुषेणावपश्यताम् । एषा मम ममेति प्रजल्पन्तौ सामषौ तौ देवरमणाऽभिधानोद्यानमीयतः। तत्र च द्वावपि सन्नद्धौ तदर्थ वृषभाविव युयुधाते । नृपश्च तयोयुद्ध निषेधित नाऽशक्नोत् । ततो विषण्णः श्रीषणोऽभिन RRRRX ॥४२॥ Jain Educa t ional For Personal & Private Use Only Rhelibrary.org Page #47 -------------------------------------------------------------------------- ________________ ॥४३॥* न्दिताशिखिनन्दिताम्यां विचार्य प्राप्तकालमिदमिति ब्रुवाणस्तालपुटाख्यविषव्याप्तं कमलमाघाय क्षणाद्विपेदे। ते देव्यावपि तदेव कमलमाघ्राय तन्मार्गमन्वीयतुः। सत्यभामाऽपि च कपिलादनथे सम्भावयन्ती तदेव पद्ममाघ्राय तत्पथं गता । तथा ते चत्वारोऽपि जम्बूद्वीपोत्तरकुरुक्षेत्रे श्रीषेणाऽभिनन्दिते शिखिनन्दितासत्यभामे चेत्येवं युगलधमिणोऽभवन् , ते च तत्र पल्यत्रयाऽऽयुष्का गव्यूतित्रितयोच्छिता अनुभूताऽनुपमसुखाः सुखं कालं गमयामासुः।। इतश्च तयोरिन्दुषेणबिन्दुषेणयोयुद्धयमानयोः सतोरेकः कोऽपि विद्याधरो विमानस्थः समेत्य तयोरन्तरे स्थित्वोवाच-"एता भगिनीमज्ञात्वा भवन्तौ द्वौ तदर्थ किं युध्येते ? । विस्तरेण मम वजनं श्रयताम् । अस्य जम्बूद्वीपस्य महाविदेहेषु सीतानद्युत्तरतटे पुष्कलावत्या विजये विद्याधरावासे वैताढथपर्वते उत्तरश्रेण्यामादित्याख्ये नगरे सुकुण्डली नाम राजा अस्ति । तस्य पत्नी चाऽजितसेना नाम कुलीनाऽस्ति । अहं तयोः पुत्रो मणिकुण्डली नामा । एकदा चाऽहं ततः स्थानान्नभोमार्गेण जिनेन्द्र वन्दितुं पुण्डरीकिणीं प्राप्तः। तत्र चाऽमितयशसं नाम जिनेश्वरं वन्दित्वा धर्मदेशनामश्रौषम् । देशनान्ते च "केन कर्मणा विद्याधरोऽहमभवमि" ति पृष्टः प्रभुरब्रवीत्-"पुष्करवरद्वीपस्य पश्चिमार्धे शीतोदाया महानद्या दक्षिणे तटे सलिलावत्यां विजये वीतशोकाभिधानायां पुरि पुरा रूपवान् बलवांश्च रत्नध्वजाभिधश्चक्रवत्यंभूत । तस्य च कनकश्रीहेममालिन्यौ द्वे पट्टमहिण्यावभृताम् । तत्र कनकश्रीरङ्कस्थकल्पलताद्वयस्वप्नसूचिते कनकलता पद्मलते, पुन्यौ, हेममालिनी च पद्मलतास्वप्नसूचिता पद्मा नाम कन्यामसुवाताम् । ताः सर्वाश्च क्रमेण यौवनं प्राप्ताः, तत्र पद्मा भवविरक्ताऽजितसेनाऽऽर्यापादान्तिके यथाविधि परिव्रज्यामुपादत्त । EXXXXXXXXXXXXXXXXXXXXXXXX *॥४३ Educat Nar! For Persons & Private Use Only brary.org Page #48 -------------------------------------------------------------------------- ________________ चकवाट्टिस्स कहा" । श्रीसन। चक्रवर्तीचरितम्" ॥४४॥ ___ एकदा च साऽऽर्याया अनुज्ञया पालितद्वाषष्टिचतुर्था शरीरचिन्तार्थ बहिर्गच्छन्ती राजमार्गे मदनमञ्जर्या वेश्यायाः कृते युध्यमानौ राजपुत्रौ ददर्श । तौ दृष्ट्वा च साऽचिन्तयत्-'अहो ? अस्या महान्सौभाग्यम्, यत्तत्कृते एतौ युध्येते । तन्मयाऽप्यस्य चतुर्थतपःकर्मणः प्रभावेण भवान्तरे ईदृशं सौभाग्यं भूयात् ।" एवं च निदानं कृत्वाऽन्तेऽनशनं कृत्वा निदानमनालोच्यैव मृता सौधर्मकल्पे देवी जाता। तथा कनकश्रीभवं भ्रान्त्वाऽनन्तरे दानादिकृत्वा मणिकुण्डली नाम त्वं विद्याधरोऽभूः। कनकलता पालते च भवं भ्रान्त्वा प्राग्भवेषु बहुधा दानादिधर्म विधाय श्रीषेणनृपतेः सुताविन्दुषेणबिन्दुषेणावभृताम् । पद्माजीवश्च सौधर्माच्च्युत्वा कौशाम्ब्यामनन्तमतिकाऽभिधा वेश्या जाता। तत्कृते च देवरमणे वने ताविन्दुषेणबिन्दुषेणी साम्प्रतं युध्यमानौ स्तः । सोऽहं श्रुतपूर्वभवो युवयोः पूर्वजन्मज्ञापनेन कृत्वा युद्धान्निवारयितुं स्नेहादिहागमम् । अहं युवयोः प्राग्भवे माता, इयं वेश्या च स्वसा । तदेवं संसारे मोहविजम्भितं बुध्येथाम् । तस्माद्रागादि दूरतः परित्यज्य निर्वाणनगरद्वारं परिव्रज्या द्रुतं श्रयताम् । ततस्तावूचतुः-"अस्माभिर्मोहाद्भगिनी भोगहेतवे किमिदमारब्धम् १ । धिग्धिक्त्वं नौ पूर्वभवे माता अस्मिन् भवे च गुरुः । येनोत्पथादस्मात्प्रबोध्य विनिवर्तितौ स्वः।" एवमुक्त्वा युद्धाद्विरम्य धर्मरुचिमुनेः पुरो राज्ञां चतुर्मिः सहस्रः समं तौ व्रतं जगृहतुः। ततो ध्यानवहिना दग्धकर्माणौ दुर्ग लोकाग्रं सरलेनैव वत्मना तौ जग्मतुः। श्रीषेणप्रमुखाश्च चत्वारो युगलिनो विपद्य प्रथमे कल्पे देवत्वं प्रपेदिरे । इतश्चाऽत्रैव भरते नगोत्तमे वैताढथे रथनूपूरचक्रवालाख्ये नगरे ज्वलनजटिनो विद्याधरेन्द्रस्याऽर्ककीतिः XXXXXXXXX *॥४४॥ Jain Educa t iohal For Personal & Private Use Only weathelibrary.org Page #49 -------------------------------------------------------------------------- ________________ ॥४५॥ KXXXXXXXXXXXXXXXXXXXXXX पुत्रः स्वयम्प्रभा नाम पुत्री चाभृताम् । तां च स्वयम्प्रभा पोतनपुरेश्वरः प्रजापतेः पुत्रः प्रथमो वासुदेवोऽचलाख्यबलभद्राऽनुजत्रिपृष्ठः परिणिनाय । तेन च हृष्टः स त्रिपृष्ठो ज्वलनजटिने विद्याधरश्रेणिद्वयराज्यं ददौ । अर्ककीर्तेश्च विद्याधरेन्द्रस्य मेघवनस्य पुत्री ज्योतिर्माला पत्नी बभूव । श्रीष्णजीवश्च सौधर्माच्च्युत्ता ज्योतिर्मालोदरे समवातरत् । तदानी च सा स्वप्नेऽमिततेजसं सूर्य निजमुखे प्रविशन्तं ददर्श । पूर्णे च समये पुण्यलक्षणलक्षितं सुतमसूत । पितरौ च तस्य स्वप्नानुमानेनाऽमिततेज इति नामाऽकरोत् । ज्वलनजटी च राज्येऽर्ककीर्ति निवेश्य चारणषैर्जगन्नन्दनाभिनन्दनयोः पुरः प्रावाजीत् । सत्यभामाजीवश्चाऽपि सौधर्माच्च्युत्वा ज्योतिर्मालाऽर्ककीयोः पुत्रीत्वेनोदपद्यत । गर्भस्थायां तस्यां च जननी स्वप्ने सुतारां निशामपश्यदिति तस्याः पितरौ सुतारेति नाम चक्रतुः। तथाऽभिनन्दिताजीवः सौधर्माच्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोः पुत्रत्वेनोदपद्यत । तस्मिन् गर्भस्थे च जननी स्वप्ने साभिषेकां श्रियं दृष्टवतीति पिता तस्य श्रीविजय इति नामाऽकरोत् । तथा स्वयम्प्रभाया द्वितीयोऽपि विजयभद्रनामा पुत्रोऽजायत । शिखिनन्दिताजीवश्च प्रथमकल्पतश्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोज्योतिःप्रभा नाम्नी पुत्री जाता । सत्यभामापतिः कपिलश्च तियगादिषु योनिषु भवं चिरं भ्रान्त्वा चमरचश्चायां नगर्यामशनिघोषनामा विद्याधरेन्द्रोऽभूत् । अकीर्तिश्च स्वां पुत्री सुतारां त्रिपृष्ठपुत्रेण श्रीविजयेन पर्यणाययत् । त्रिपृष्ठोऽपि स्वां पुत्री ज्योतिःप्रभामकपुत्रेणाऽमिततेजसा पर्यणाययत् । _ अन्यदा रथनूपुरचक्रवालाख्ये नगरे बहिरुद्यानेऽभिनन्दनजगन्नन्दनज्वलनजटिनस्त्रयोऽपि मूर्त्तानि रत्नत्रयाणीव समवासरन् । अर्ककीर्तिश्च तज्ज्ञात्वा समेत्य नत्वा देशनां श्रुत्वा जातवैराग्योऽभिनन्दनं कृताञ्जलिरूचे-" ताव ॥४५॥ Jain Educat i onal For Personal & Private Use Only Eastelibrary.org Page #50 -------------------------------------------------------------------------- ________________ * चकवट्टिस्स "पश्चमः XXXXXXXX श्रीशान्ति नाथ चक्रवर्तिचरितम्" KXXXXXXXXXXXXXXXXXXXXXXXX प्रतीक्षस्व, यावदमिततेजसं निजराज्ये निवेश्य व्रतग्रहणार्थमहमागच्छामि।। प्रमादो न विधातव्य इति मुनिना शिष्टश्च स धामाऽऽगत्याऽमिततेजसं साग्रहं राज्ये निवेश्य तेन कृतनिष्क्रमणोत्सवोऽभिनन्दनमुनेः पुरः परिव्रज्यामुपादत्त । ततोऽक कीर्तिर्गरुजनेन समं व्रतं पालयन् भुवं विजहार । तेजस्थ्यमिततेजा अपि राज्यं शशास। इतश्च त्रिपृष्ठे कालधर्मे प्राप्ते शुचा वैराग्यमुद्हन्नचलो बलभद्रः श्रीविजयं राज्ये न्यस्य प्रवत्राज। श्रीविजयश्च पित्र्यं राज्यं नीत्या पालयामास । एकदा चाऽमिततेजाः सुताराश्रीविजययोर्दर्शनोत्कण्ठितः पोतनपुरं ययौ । पताकामञ्चतोरणादिसमन्वितं सञ्जातानन्दसाम्राज्यं तन्नगरं राजकुलं च हृष्टं वीक्ष्य विस्मितो व्योमतोऽवातरत् । जयश्च दुरात्तं दृष्टाऽभ्युत्तस्थौ । ततः परस्परं श्वशुयौं तौ स्वसृपती च मिथो गाढं प्रीत्या सस्वजाते। ततस्तौ द्वावपि महार्हसिंहासने निषेदतुः। ततोऽमिततेजाः अत्र पुरे महोत्सवस्याऽधुना को हेतुरित्यपृच्छत् ततः श्रीविजयोऽवोचत्"इतः प्रागष्टमे दिने एको नैमित्तिक इहागात् । मया सादरमागमन हेतुं पृष्टश्च स जगाद-अस्मादः सप्तमेऽह्नि मध्याहसमयेऽशनिध्वनन् पोतनपुरेश्वरस्योपरि पतिष्यति, तदेतत्सूचयितुमहमागतोऽस्मि । सचिवं च तेन वचसा कुपितं दृष्टा पुनस्सोऽवोचव सचिव ! मह्यमा कुपः, एतच्छास्त्रदृष्टं वच्मि । तस्मिन् दिने मयि पुनर्वसुधारेव वस्त्राभरणादिवृष्टिः पतिष्यति । ततो मया सचिवोऽभिहितः अस्मै महामतये मा कुप्य । यतो यथार्थकथनादयमुपकारी। किन्तु तं पच्छ यदयं निमित्तं कुतः शिक्षितवानस्ति ? ततो नैमित्तिकोऽवोचत्-परिव्रज्यां गृह्णता बलदेवेन सह शाण्डिल्यो नाम मे पिताऽपि परिव्रजितवान् । तदनु *॥४६॥ For Personal & Private Use Only wwsanelibrary.org Jain Education rational Page #51 -------------------------------------------------------------------------- ________________ ॥४७॥ KXBXXXXXXXXXXXXXXXXXXXXXXX चाऽहमपि पितृवात्सल्यमोहितः प्राव्रजम् । तदैवेदं निमित्तजालमखिलं मया शिक्षितम् । यतो जिनशासनादन्यत्र न यथार्थज्ञानं सम्भवति । अहं च लाभालाभसुखदुःखजीवितमरणजयपराजया अष्टधा निमित्तानि वेनि । एकदा च सम्प्राप्सयौवनोऽहं पद्मिनीखण्डपुरमगमम् । तत्र च मम पितृष्वसा हिरण्यलोमिका तत्पुत्री चन्द्रयशाश्चाऽऽसीत् । सा च पूर्व बालायाऽपि मे दत्ता, किन्तु दीक्षारूपविघ्नेन विवाहो नाऽभवत् । तां च चन्द्रयशसं दृष्टा सानुरागोऽहं भारमिव द्र व्रतं हित्वा पर्यणैषम् । निमित्तेन च स्वार्थमिमं ते महानथं च ज्ञात्वाऽत्राऽऽगमम् । राजन् ! यजानासि, तत्कुरुष्व"। इत्युक्त्वा विरते तस्मिन् बुद्धिमन्तोऽपि कुलमन्त्रिणो व्याकुला अभवन् । तत्रैक: सचिवोऽवोच-समुद्रे विद्युत्पातो न भवति, तस्मात्स्वामी तत्र नावमारुह्य सप्ताहं तिष्ठतु । द्वितीयोऽब्रवीत्-नेदं मे प्रतिभासते, यतस्तत्र पतन्तीं विद्युतं को निवारयेत् १ । किन्तु वैताढथेऽवसपिण्या विद्युत्पातो न भवति । तस्मात्तस्योपरि गुहां गत्वा प्रभुः सप्ताहं वसतु । ततस्तृतीयः सचिवोऽचत्-अदोऽपि मह्य न रोचते, यत्र योऽर्थोऽवश्यं भावी, स तत्राऽन्यथा न भवति ।। अत्रैव भरते विजयपुरे रुद्रसोमस्य द्विजस्य ज्वलनशिखायां पत्न्यां शिखीनाम पुत्रोऽभवत् । एकदा च कश्चिद्राक्षसस्तत्रागतः। सोऽन्वहं बहूनि मानुषाणि प्रणिहन्ति । किन्त्वल्पं भक्षयति, शेषं चोच्छिष्टमिव त्यजति । ततो राजा तमुवाच-सुधा किं बहून नून् हंसि ?, व्याघ्रादयोऽपि झुन्निवारणायैकं जन्तुध्नन्ति । ततस्त्वयाऽपि ग्रासायैकं मानुषं ग्राह्यम् । तच्च मनिीतेन वारेण स्वयमेष्यति । तेन च तदभ्युपगते नृपः स्वपुरगृहेषु वारार्थ मानुषाणां नाम EXXXXXXXXXXXXXXXXXXXXXXXX X॥४७H Jain Educatia SRI For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ चकवट्टिस्सा "पञ्चमः श्रीशान्तिनाथ - चक्रवर्तिचरितम्" ॥४८॥ EXXXXXXXXXXXXXXXXXXXX गोलांश्चक्रे । स गोलः कृष्यमाणो यस्य करे यदा चटेत , स रक्षसे भक्ष्यभूतः पुररक्षायै प्रयाति । एकदा च तस्य ब्राह्मणपुत्रस्य गोलको निर्ययो। तदन्तश्च तन्नाम वाचितम् । तच्छुत्वा च तन्माता करुणस्वरं रुरोद । तद्गृहासन्नं चैकं महद्धृतगृहमासीत् । तद्भूतैश्च तस्याः कर्णदुःश्रवं क्रन्दितं शुश्रुवे । जातदयैश्च तैाह्मणी प्रोक्तम्-मा रोदीः, सुस्था भव, त्वत्पुत्रो रक्षसे यातु । राक्षसाऽग्रतोऽप्येनं त्वत्पुत्रमानेष्याभि । एष व्यवस्था नाऽतिक्रमिष्यति, ततो मरिष्यत्यपि न । ततो यावत्सा ता देवताः स्तौति, तावत्वरमाणा आरक्षास्तत्सुतमाकृष्य रक्षः समीपं निन्युः । राक्षसश्च यावद् द्विजपुत्रमादत्ते, तावद् भूतास्तमपहृत्य तन्मातुरन्तिकमानयन् । भीता ब्राह्मणी च भयानि पश्यन्ती रक्षाकृते तं पुत्रं तत्क्षणं गिरिगुहान्ताश्चिक्षेप स च द्विजपुत्रस्तत्रस्थेनाऽजगरेण जग्रसे। तद्वदन्यदपि भावि क्वचिदप्यन्यथा न भवति । तस्मादेष उपायो यत्सर्वैस्तप आचर्यताम् । यतो निकाचितानामपि कर्मणां तपसा क्षयो भवति । ततश्चतुर्थों मन्युवाच-अनेन पोतनप्रभोरुपरि विद्युत्पातः कथितो न श्रीविजयस्य । तत्सप्ताहं यावत्पुरेऽस्मिन् कोऽप्यन्यः पतिः क्रियताम् । ततश्च तत्राऽशनिः पतिष्यति । सर्वेषां च दुरितमनेन प्रकारेण गच्छतु । तच्छु त्वा हृष्टो नैमित्तिकस्तं मन्त्रिणं प्राशंसत् । मनिमित्तज्ञानतोऽपि तव मतिज्ञानमधिकम् । तदनर्थपरिहायामुपायमाशु कुरुध्वम् । राजाऽपि जिनपूजारतश्चैत्यस्थितस्तिष्ठतु । ततो मयाऽवोचि-को नरो राज्येऽभिषिच्यते ? । कथं निरागसः प्राणिनः प्राणनाशं चिन्तयामि ? सर्वस्य हि प्राणाः प्रिया दुस्त्यजाः । कथं च पश्यतो मे कोऽपि वराको विपत्स्यते । ततो मन्त्रिणोऽत्रुवन्-“देव । इदं कार्यद्वयं नोऽस्ति, यथा तवाऽनों यास्यति प्राणी च न विपत्स्यते तथाहि राज्ये कुबेरस्य XXXXXXXX ॥४८॥ Jan Education rematon For Persona & Private Use Only inelibrary.org Page #53 -------------------------------------------------------------------------- ________________ 118 11 प्रतिमाऽभिषिच्यताम् । तां च त्वामिव सर्वो जनः सप्ताहं सेविध्यते । दिव्यशक्त्योपसर्गश्चेन्न स्यात्तदपि सुन्दरम् स्याचेत्तदापि प्राणिवधपापं न भविष्यति” ततो युक्तमेतदिति प्रोच्य जिनमन्दिरं गतोऽहं दर्भासने कृतपौषधोऽस्थाम् । सप्तमे चदिने प्राप्ते प्रलयाम्बुदारुणे मेघे उन्नतेऽशनिस्तस्मिन् राज्येऽभिषिक्ते यक्षविम्बे पपात । यथा च तत्राऽशनिपातस्तथाऽन्तःपुरादिभिः कृता रत्नवस्त्रादिवृष्टिनैमित्तिकेऽप्यभवत् । ततो मया पद्मिनीखण्डपत्तनं दत्त्वा स नैमित्तिकवरो व्यसृज्यत । कुबेरस्याऽपि च नवां दिव्यरत्नमयीं मूर्त्तिं सद्योऽकारयम् । तन्मद्विघ्नशान्त्याऽमी पौरादयो महोत्सवं विदधते ।" तच्छ्रुत्वा हृष्टोऽमिततेजा निजां भगिनीं सुतारां वस्त्रालङ्कारदानेन पूजयामास । किञ्चित्कालं च तत्र तयोः पार्श्वेऽतिवाह्याऽमिततेजाः स्वनगरं ययौ 1 अथैकदा श्रीविजयः सुतारायाः सह क्रीडा कुतूहलाज्ज्योतिर्वनं नाम वनं ययौ । तदैव च तत्र कपिलजीवोऽशननिघोषो विप्रतारणिकां विद्यां प्रसाध्य विहायसा समागतः पूर्वजन्मभार्यां सुतारां ददर्श । प्राग्जन्मसंस्काराच तस्यामुत्कण्ठितो विद्याबलात्तयोः पुरः प्लवमानं हैमं हरिणं विचक्रे । दृष्टा च सुताराऽसौ मे क्रीडनकं स्यादिति स्वामिन् ! मृग आनीयतामिति पतिमब्रवीत् । तया चेत्थमुक्तः श्री विजयस्तं मृगमन्वधावन् तेन मृगेण विचित्रगत्या दूरमनीयत ततोऽशनिघोषः शनैः सुतारामभिसृत्याऽपाहरत् । तथा तेन प्रयुक्ता प्रतारणी विद्या च सुतारारूपमासाद्य सर्पदष्टा - मित्युचैः पूच्चक्रे । तच्छ्रुत्वा हरिण मुक्त्वा बलितः श्रीविजयस्ता भूमौ लुण्ठितां दृष्ट्वा मणिमन्त्रौषधादिभिरुपाचारीत् । किन्तु सा शिथिलभूतसर्वाङ्गा नृपतेः पश्यत एवाऽऽशु कालधर्ममियाय । ततश्च दुःखेन मूच्छितो नृपः पृथिव्यां पपात । Jain Education national For Personal & Private Use Only ॥ ४६ ॥ relibrary.org Page #54 -------------------------------------------------------------------------- ________________ चक्कट्टिस्स *."पश्चमः श्रीशान्ति नाथ चक्रवर्ति कहा" ॥५०॥ चरितम्" EXXXXXXXXXXXXXXXXXXXXXXXX लब्धसंज्ञश्च प्रियाविरहदुःखमसहमानः प्राणान् जिहासुः सद्यो विरचितां चिता तया सहाऽऽरोहयामास । यावच्च पतिज्वलितुमारेभे, तावत्तत्र द्वौ विद्याधरावाजग्मतुः । तयोरेकोऽभिमन्व्य पयसा चितां सिषेच । ततश्च तत्कालं सा प्रतारिणी विद्याऽट्टहासं कुर्वती पलायिष्ट । ततो विस्मितः श्रीविजयः किमिदमिति तौ विद्याधरावपृच्छत् । तौ च प्रणम्योचतु:-आवाममिततेजसः पत्ती पितापुत्री सम्मिन्नश्रोतो दीपशिखाऽभिधों जिनबिम्बानि वन्दितुं स्वेच्छया निगतावत्राऽऽगच्छन्तो करुणस्वरं "हा श्रीविजय ! प्राणनाथ ! हा बान्धवामिततेजः! हा वत्स ! हा विजयभद्र ! हा त्रिपृष्ठकुलदेवताः! इमा सुतारामस्माद्विद्याधरादविलम्बितं वायध्वं त्रायधमि"ति विलपितमश्रौष्व । ततः स्वामिनः स्वसारं दुरात्मना हियमाणां ज्ञात्वा तं शब्दमनुगच्छाव । सद्य एव चाऽशनिघोषेण गृहीतां सुतारामपश्याव । ततोऽतिकुपितावावामसी कृष्ट्वा जिघांसन्तौ तमुपस्थितौ । ततः सुतारादेव्योक्तम्-"युवयोयुद्ध नाऽलम्, ज्योतिवनं यातम् , तत्र प्रतारणया विद्यया वश्चयित्वाऽसून त्याज्यमानं श्रीविजयं निषेधतम् । यतस्तस्मिन् जीवति जीवामि" । तदादेशाचावामिह द्रतं समुपस्थितौ मन्त्रितोदकौश्चितावहिं विध्यापितवन्तौ स्वः। इयं च प्रतारणी विद्या सुतारारूपधारिणी साट्टहासा पलायत । ततः सुतारां हृता ज्ञात्वा श्रीविजयो नितरां विषण्णोऽभूत् । ततस्तौ विद्याधरौ तमूचतु:-स्वामिन् ! मा ताम्य, स न कुशली स्यात् , भवतोऽनतिदूर एव सोऽस्ति, क्व यास्यति ?"। ___ अथ तौ श्रीविजयं गाढमभ्यर्थ्य वैताढयं निन्यतुः। अमिततेजाश्च तं महत्त्या प्रतिपत्योचितासने समुपवेश्याऽऽगमनकारणं पप्रच्छ । ततः श्रीविजयेनेरितो तो विद्याधरौ सुताराऽपहरणवृत्तान्तमशेषत आचख्यतुः। ततोऽत्यन्तं KXXXXXXXX ॥५०॥ For Personal & Private Use Only wwwatelibrary.org Page #55 -------------------------------------------------------------------------- ________________ ॥५१॥ Ekkkkkkkk********* कुपितोऽमिततेजा उवाच-"तव भायों मे स्वसारं सुतारामपहृत्य स विद्याधराऽधमोऽशनिघोषः कियजीविष्यति?"। ततः सोऽककीर्तिसुतः श्रीविजयाय शस्त्रावरणों बन्धनी मोचनी च विद्यामदात् । तथा रश्मिवेगादीनां स्वपुत्राणां शतपञ्चशतीं त्रैपृष्टिना समं चमरचश्चायां पुर्यामशनिघोषतः सुतारामाहत्तु सद्यः प्राहिणोत् । त्रिपृष्ठतनयश्च श्रीविजयश्चमरचञ्चां प्राप्तवान् । तमशनिघोषमधिकविद्यं ज्ञात्वाऽमिततेजाः स्वपुत्रेण सहस्ररश्मिना साधे परविद्याच्छेदकरी महाज्वाला नाम विद्या साधयितुं हिमवन्तं गिरिं ययौ । तत्र च प्रतिमाजुषो जयन्तस्य मुनेर्धरणेन्द्रस्य च पादमूले मासिकभक्तेन स्थितः साप्तरात्रिकी प्रतिमा समुद्वहन विद्यासाधनकम हस्ररश्मिश्च तथास्थितं पितरं ररक्ष । एवं तयोस्तिष्ठतोः किश्चिदूनो मासोऽभूत् । इतश्च चमरचञ्चाया बहिः स्थितः श्रीविजयोऽशनिघोपाय दूतं प्राहिणोत् । स दूतश्च तत्र गत्वाऽशनिघोषमुवाच"सुतारामपहरता किमिदं लजाकरं कर्म त्वया कृतम् । तच्छ्रीविजयस्तव प्रतारणी विद्या कथमपि मोघीकृत्येहाऽऽयातो बलात्सुतारा नेष्यति, तत्स्वयमर्पय । तथैव त्वज्जीवितस्य कुशलम् । ततः क्रुद्धोऽशनिघोषो जगाद-"यथागतेनैव पथा स श्रीविजयः प्रयातु । सुतारां याचमानस्तु यमलोकमेव यास्यति । तदेतद् द्वयं विचार्य यातु तिष्ठतु वा । त्वमपि गत्वा तदग्रतो मद्वाचं समाख्याहि । तेनैवमुक्तश्च स इतस्तत्पुरावाहिनिर्गत्य त्रैपृष्ठये सर्व तद्वत्तान्तमकथयत् तच्छु त्वा चाऽत्यन्तं कुपितः श्रीविजयः स्वा सेना सजितामप्यसज्जयत् । अशनिघोषणाऽपि चाऽऽदिष्टास्तत्सुता अश्वघोषाद्याः सर्वाभिसारतश्चमर चश्चापुर्या द्वारि युद्धाय विनिर्ययुः। KXXX*****XXXXXXXXXXXXXX ॥५१॥ For Personal & Private Use Only Mahelibrary.org Page #56 -------------------------------------------------------------------------- ________________ चक्कवट्टिस्स * कहा" | "पञ्चमः श्रीशान्तिनाथचक्रवर्तीचरितम्" * * ॥५२॥ * * * * ततश्च द्वयोरपि सैन्ययो रणतूर्याण्यवाद्यन्त । द्वयोरपि सैन्ययोश्च परस्परच्छिन्नशिरो बाहुरथसारथ्यादि तुमुलं युद्धं प्रववृते । अस्त्रैः शास्त्रैर्बाहुभ्यां मायया च युद्धथमानयोर्द्वयोः सैन्ययोः किश्चिदूनो मासो व्यतीयाय । तत्र च श्रीविजयस्य सैन्यैः पवनै पादपा इवाऽशनिघोषकुमारा अमज्यन्त । ततोऽशनिघोषोऽपि महागदामुदम्याऽमिततेजसः पुत्रान् शीघ्रमेवाऽभाङक्षीत । ततः क्रद्धोऽरि तिष्ठ तिष्ठेति वदन श्रीविजयो युद्धाय स्वयमढौकिष्ट । द्वावपि च तौ श्रीविज याऽशनिघोषो गर्जन्तौ परस्परं तर्जन्तौ शस्त्रशक्ति विद्याशक्ति च दर्शयन्तौ लाघवादन्योन्यस्य प्रहारान् वञ्चयमानौ सुरासुरैर्वीक्ष्यमाणो युयुधाते । अवसरं प्राप्य च श्रीविजयो विक्रम्य खड्गेनाऽशनिघोष द्विधा व्यधात् । तस्य च द्वावपि खण्डौ द्वावशनिघोषो जातौ। तौ द्वावपि च लाघवाच्छीविजयेन खण्डितौ चत्वारोऽशनिघोषा जाताः। यथा यथा च श्रीविजयेनाऽशनिघोषाः खण्डितास्तथातथा ते द्विगुणा वधुः। एवं खण्डितैः सहस्रोऽशनिघोषैः पोतनेश्वरः परिवेष्टितः श्रान्तोऽभवत् । तावच्च सिद्धमहाज्वालाविद्योऽमिततेजाः समाययौ । आगच्छतश्च ततः सिंहान् मृगा इवाऽशनिघोषसैन्याःप्रणेशुः । अमिततेजाश्च द्विषो मा नश्यन्विति महाज्वाला विद्यां विन्ययुङ्क्त । ते च द्विषस्तया विद्यया मोहिताः शरणायाऽमिततेजसमेव समाययुः । ततोऽशनिघोषो गन्धगजं गज इवाऽमिततेजसमवलोक्य पलायिष्ट । ततो दूरादपि समानेतव्योऽयं दुरात्मेत्येवममिततेजसा समादिष्टा महाज्वालाविद्या सर्वविद्याऽन्तकारिणी पृष्ठतोऽशनिघोषस्याऽन्वधावत् । तस्याश्च शरणमनाप्नुवन् पलायमानोऽशनिघोषः शरणेच्छया दक्षिणभरताधं प्रविष्टवान् । तत्र च सीमाद्रौ श्रीऋषभप्रभोश्चैत्ये समवसरणस्थानस्थापितगजध्वजेऽचलो नाम बलदेवमुनिः शुक्लध्यान्येकरात्रिकी EXXXXXXXXXXXXXXX XXXXXXXX * ** * * XXXXXXX ॥५२॥ D helorary.org Jain Educat national For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ ॥ ५३ ॥ **** प्रतिमां प्रपन्नवानासीत् । घातिकर्मणां छेदाच्च तस्य महामुनेः केवलज्ञाने समुत्पन्ने तन्महिमानं विधित्सवः सुरा - ऽसुरा अभिनन्दनजगन्नन्दनज्वलन जटिनस्त्रिजय्यर्क कीर्तिपुष्पकेतुविमलमत्यादयश्च समेत्य बलदेवमुनिं प्रदक्षिणीकृत्य यथास्थानमुपाविशन् । महाज्वालापातभीतोऽशनिघोषोऽपि तत्क्षणमचलं शरणं ययौ । महाज्वालाऽपि चाऽशनिघोषं मुक्त्वा न्यवर्त्तत । यतः शक्रकुलिशस्याऽपि केवलिपर्पदि प्रभावोऽपहीयते । ततः सा विद्याऽमिततेजस मुपेत्य तदशेषं वृत्तान्तं निवेदितवती । मयूरो मेघध्वनिमिव तं वृत्तान्तमाकर्ण्य सर्वेऽमिततेजः श्रीविजयादयो मुमुदिरे । ततश्चाऽस्याः पुर्याः सुतारां समादाय द्रुतमानयेरिति मारीचि समादिश्यात्युत्कण्ठितः ससैन्योऽमिततेजः श्रीविजयप्रभृतयो व्योमयानेन द्रुतं सीमाद्रिमुपाययुः । तत्र च प्रथम ऋषभनाथविम्वं वन्दित्वा तदन्वचलमुनिं वन्दित्वा च तदग्रे निषेदतुः । मारीचिरपि च चमरचञ्चापुरीं प्रविश्याशनिघोषमातुः पार्श्वमुपेत्य कृतोपवासां सुतारां दृष्ट्वाऽशनिघोषमातुः सर्वं निवेदितवान् । साऽशनिघोषमाता चाऽपि तां सुतारामादायऽचलस्वामिसभायामागत्य न्यासीकृतामिव श्रीविजयाऽमिततेजसोः समर्पयामास । बलदेवं केवलिनमचलं नत्वा च मुदिता यथास्थानं निषसाद । तदा चाऽशनिघोषोऽपि सामवाक्येन श्रीविजयाऽमिततेजस क्षमयामास । ततः शान्तवैरेषु तेष्वचलस्वामी शुद्धिदायिनीं देशनां विदधे । I देशनान्ते चाऽशनिघोषोऽचलमुनिं वन्दित्वा कृताञ्जलिर्विज्ञपयामास - " मया सुतारा दुष्टेन मनसा नाऽपहृता, किन्तु पुरा चमरचश्चानगर्या भगवतो जयन्तस्य महामुनेरायतने गत्वा सप्तरात्रमुपोषितो भ्रामरीं विद्यामसाधयम् । ततः Jain Education national For Personal & Private Use Only **** ॥ ५३ ॥ Pahelibrary.org Page #58 -------------------------------------------------------------------------- ________________ "श्री चक्क हिस्स कहा" 1148 11 प्रतिनिवृत्तो ज्योतिर्वने श्रीविजयान्तिके सुतारामद्राक्षम् । दृष्टमात्रायां च तस्यां मम कोऽप्यनिर्वचनीयः स्नेहः सम्मुदपद्यत । ततस्तां विना गन्तुमसमर्थोऽहं श्रीविजयाऽन्तिकस्थायास्तस्या अपहर्त्तुमशक्यत्वात्प्रतारिण्या विद्यया श्रीविजयं मोहयित्वा सुतारामपाहार्षम् । स्वजनन्याः समीपे च ताममुञ्चम् । सेयमनिन्दिता निष्कलङ्काऽस्ति । अस्यां मया किमयशोभनं वचोऽपि नोक्तम् । भगवन् ९, तदेतस्यां मम स्नेहकारणं समाख्याहि" । तच्छ्र ुत्वा च भगवानचलः सत्यभामाकपिलयोः श्रीषेणस्य शिखिनन्दिताऽभिनन्दितयोर्युगलिकादिभवसहितां कथामाख्यायाऽवोचत् - "आर्तध्यानी कपिलो मृत्वानेकोनिषु भ्रान्त्वा भूरत्नायामटव्यामैरावत्या नद्या रोधसि तपोधनस्य जटिल कौशिकस्य पत्न्यां पवनवेगाय धर्मिलो नाम दारक उत्पेदे । स च निजपितुर्दीक्षामादाय बालतपः समाचरन् विहायसा गच्छन्तं विमानस्थं विद्याधरं दृष्ट्वा "भवान्तरेऽमुष्य तपसः फलेनेदृग्भूयासमिति निदानं कृत्वा मृतश्चमरचञ्चाय पुर्यामिद्राशनेविद्याधरस्याऽऽसुर्या पत्न्यां एवं सुत उदभूः । ततः प्राग्भवसम्बन्धात्तव सुतारायां स्नेहोऽभवत् । पूर्वभवसंस्कारो हि जन्मशतान्यप्यनुयाति” । ततश्च सुताराऽमिततेजः श्रीविजयाऽशनिघोषाः प्राग्भवाऽऽकर्णनाद्विस्मिताः संवेगमीयुः । तथाऽमिततेजसा भव्योऽस्मि नवेत्येवं पृष्टो भगवानचलः पुनराह - "इतो नवमे भवेऽत्र भरते त्वं पञ्चमश्चक्रवर्त्ती भविष्यसि । तत्रैव च भवे शान्तिनाथ इति ख्यातः षोडशोऽर्हथ भविष्यसि । श्रीविजयश्चायं तत्र भवे तव पुत्रः प्रथमस्तव गणधरो भावी ” । ततः श्रीविजयाऽमिततेजसौ भगवन्तं प्रणम्य द्वादशविधं श्रावकवतं भेजतुः । ततोऽशनिघोषः पुनर्भगवन्तं प्रणम्य रचिताञ्जलिर्विज्ञापयामास - "भगवन् ! त्वन्मुखात्प्राग्भवं श्रुत्वेदानीमपि For Personal & Private Use Only "पश्चमः श्री शान्ति नाथ चक्रवर्ति चरितम् " ॥ ५४ ॥ www.jahelibrary.org Page #59 -------------------------------------------------------------------------- ________________ ॥५५॥ EXXXXXXXXXXXXXXXXXXXXXXXX मन्मनः कम्पते । अप्राप्तजिनधर्मस्य मम भूयांसोऽतिदुःखदा भवा अतीताः। अधुनाऽपि मां रक्ष रक्ष । अतः परमेकोऽपि क्षणो यतिधर्मरहितस्य मे मा गादिति मामद्यैव दीक्षां देहि" । ततो युक्तमेतदिति प्रोच्याऽचलेनाऽनुगृहीतोऽमिततेजसं सप्रश्रयमुवाच-"भाविनश्चक्रिणोऽहतश्च साम्प्रतं महाकुलप्रसूतस्य ते प्रणिपातं कुर्वतो मेन मनागपि लज्जा । एतेऽश्वघोषादयो मम सुता राज्यादीनि च त्वदीयं विद्धि । नाऽन्यथा । एवमुक्त्वा ज्यायांत निजसुतमश्वघोषममिततेजसोऽके क्षिप्त्वाऽचलस्वामिसन्निधौ भूयोभिनरेन्द्रः सह दीक्षामग्रहीत् । श्रीविजयस्य माता स्वयम्प्रभा चापि तत्राऽऽगत्याऽचलस्वामिपादान्ते दीक्षामग्रहीत् । ततो बलभद्रं नस्वामिततेजः श्रीविजयाश्वघोषादयः स्वं स्वं स्थानं ययुः । अर्हत्पूजनादिकविधि विदधानौ च स्वे स्वे पुरेऽवतिष्ठमानौ श्रीविजयाऽमिततेजसौ कालं व्यतीयतुः। अथाऽन्यदा पौषधौकसि पौषधं गृहीत्वाऽमिततेजा विद्याधराणामाहतं धर्ममाचख्यौ । तदानीमेव च चारणमुनी तत्र चैत्ये जिनबिम्ब विवन्दिषु तत्र समागतवन्तौ । अमिततेजसा च दृष्ट्वा हृष्टेन वन्दितौ तौ त्रिः प्रदक्षिणापूर्व जिनेन्द्र वन्दित्वा तमूचतुः। संसारे प्राप्तमतिदुर्लभं मानुष्यकमविवेकेन मुधा न नेयम् । जैने धर्मे मनागपि प्रमादो न विधातव्यः । तद्विना नाऽन्यदुत्तरोत्तराऽभीष्टदम् ।" एवमनुशिष्य तो पुनरेव विहायसा जग्मतुः। श्रीविजयाऽमिततजसो च वर्षे वर्षेऽहंतां चैत्येषु महिमत्रयं चक्रतुः। तत्र नन्दीश्वरे देवाश्चैत्रे चाऽश्विने चाऽष्टाह्निकोत्सवौ कुर्वन्ति । अन्ये तु स्वस्वचैत्येष्वेव कुर्वन्ति । श्रीविजयाऽमिततेजसौ च चैत्राऽऽश्विनयोः स्वस्वचैत्येषु तृतीयं तु सीमाद्रयादिषु चक्रतुः। अथैकदामिततेजाः स्वहर्ये स्थितः प्रधानपुरुषैः परिवारितो मासक्षपणकं भिक्षार्थमागतं कश्चिन्मुनि ददर्श । KXEXXXXXXXXXXXXXXX XXXXXXXXX ॥५५॥ For Persona & Private Use Only Jan Education in Page #60 -------------------------------------------------------------------------- ________________ चक्कवाट्टिस्स कहा" "पञ्चमः श्रीशान्तिनाथ चक्रवर्तिचरितम्" ॥५६॥ ततोऽभ्युत्थाय वन्दित्वा तं शुधैरन्नाद्यैः प्रत्यलाभयत् । तदानीं च तत्र सत्पात्रदानप्रभावतो वसुधारादिपञ्चदिव्यानि जज्ञिरे । एवं धर्मनिरतयोः सुखमग्नयोः श्रीविजयाऽमिततेजसोभू यांसि वर्षसहस्राणि जग्मुः। एकदा च नन्दनवने शाश्वताऽर्हतो वन्दितुं सम्भूय श्रीविजयाऽमिततेजसावीयतुः । तत्र च तान् वन्दित्वा कुतूहलाद् भ्रान्त्वा यावन्नन्दनमीक्षाञ्चक्रे, तावत्स्वर्णशिलास्थौ विपुलमतिमहामतिनामानौ चारणमुनी ददृशतुः । ततः श्राद्धौ तौ प्रदक्षिणीकृत्य वन्दित्वा च धर्मदेशनां शुश्रुवतुः । देहिनां मृत्युः सदा समीपवत्येव, ततः क्षणिकं जीवितं जानन्तोऽपि ते मोहाद् धर्मोद्यमं न कुर्वन्ति । मोहो हि महाशत्रुः, स जन्मतो मरणावधि स्वात्महितं धर्ममूलान्निकृन्तति । तस्मान्मोहं सर्वथा हित्वा धर्मः कार्यः। मानुषं जन्म हि पुनः कथश्चिदेव लभ्यम्" । तदाकण्यं च तौ श्रीविजयाऽमिततेजसौ स्वमायुरवशिष्टमपृच्छताम् । तौ मुनी च षड्विंशतिदिनानि शेषमायुराचख्यतुः । तद्वचः श्रुत्वा च निर्विण्णौ तौ नृपावचतुः-"अस्माभिररण्य पुष्पवत्सदा विफलं जीवितं क्षपितम्" । ततस्तौ चारणमुनी तौ प्रत्यबोधयताम्-"विषादेनाऽलम् , अद्यापि युवयोः प्रव्रज्या युज्यते । अन्तेऽपि गृहीता सा शुभगतिनिबन्धनम्" । ताभ्यां चैवं प्रबोधितौ तौ नृपौ निजस्थानमुपेत्य चैत्येषु परममष्टाह्निकोत्सवं चक्राते । दीनानाथादिभ्यश्च यथारुचि ददतुः। तथा स्वपुत्रयो राज्यं दत्त्वा तौ नृपावभिनन्दनजगन्नन्दनयोमुन्योः पुरतो व्रतं जगृहतुः। पादपोपगमनं नामाऽनशनं व्रतं च चक्रतुः। तदानीं च श्रीविजयः स्वपितरं सस्मार । स्वपितु ऋद्धिमधिकां स्वां च ऋद्धिं हीनां विचिन्तयंश्च "ताहगेवाऽहं भूयासमि"ति निदानमकरोत । विपद्य च तो श्रीविजयाऽमिततेजसौ प्राणते कल्पे सुस्थितावर्ते नन्दि XXXXXXXXXXXXXXXXXXXX X॥५६॥ Jain Educatiemational For Personal & Private Use Only wirajathelibrary.org Page #61 -------------------------------------------------------------------------- ________________ ॥ ५७॥ KXXXXXXXXXXXXXXXXXXXXXXXX तावर्ते च विमाने मणिचूलदिव्यचूलनामानौ सुरौ भूत्वा सुखं तस्थतुः । तथा मनसा प्राप्तेष्टौ सुखमग्नौ विंशतिसागरोपममायुरतिवाहयतः स्म ॥१॥ द्वितीयः सर्गः अथ जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये शीतानद्या दक्षिणे तटे शुभायां नगयों स्तिमितसागरो नाम नरपतिरासीत् । तस्य च शीलवत्यौ वसुन्धराऽनुद्धराख्ये द्वे पल्यावास्ताम् । तत्र नन्दिताव दमिततेजो जीवश्च्युत्वा वसुन्धराकुक्षाववातरत् । तदानीं च सुखसुप्ता सा स्वमुखे बलभद्रजन्मसूचकान् चतुरो महास्वप्नान् प्रविशतो दृष्टवती। ततः प्रबुद्धा राज्ञी राज्ञा "बलभद्रस्तव पुत्रो भावी"ति कथितस्वप्नफला मुदिता गर्भ धारयन्ती पूर्णे समये श्रीवत्साङ्क श्वेतवर्ण सुलक्षणं सूनुं सुषुवे । नृपश्च पुत्रजन्मनाऽत्यन्तं मुदितो द्वादशेऽह्नि तस्य सुतस्याऽपराजित इति नामाऽकरोत् । तथा श्रीविजयजीवः सुस्थितावर्ताच्च्युत्वाऽनुद्धरायाः कुक्षाववततार । तदानी च सा निशाशेषे सुखं शयाना स्वप्ने मुखे प्रविशतः सप्त महास्वप्नान दृष्टवती । सुप्तोत्थिता च राज्ञे तानिवेद्य, राज्ञा च विष्णुस्ते पुत्रो भावीति कथितं स्वप्नफलं निशम्य नितान्तं मुमुदे । गर्भ दधाना च सा पूर्णे समये श्यामवर्ण नयनोत्सवं पुत्रं सुषुवे । नृपश्च प्रमुदितस्तस्य समहोत्सवमनन्तवीर्य इति नाम विदधौ। तौ च श्वेतश्यामशरीरौ क्रमाद्वर्धमानौ गुरुसन्निधौ लीलयैव सर्वशास्त्राणि जगृहतुः । शैशवं क्रमादतीत्य च कामिनीजनस्पृहणीयं यौवनं प्रपेदाते।। अन्यदा च तत्रोपवने नानातिशयसम्पन्नः स्वयम्प्रभो नाम मुनिराययौ । तदानीं च नृपः स्तिमितसागरो Jain Educatio n al For Personal & Private Use Only Alibrary.org Page #62 -------------------------------------------------------------------------- ________________ चक्कवट्टिस्सा कहा" “पञ्चमः श्रीशान्ति | नाथ| चक्रवर्ती चरितम्' ॥ ५ ॥ KXXXXXXXXXXXXXXXXXXXXXXX वाहकेल्या वाहान् वाहयितुं पुर्या निर्ययौ । वाहान् वाहयित्वा श्रान्तश्च तद्वनं गतो यावत्क्षणं विश्राम्यति, तावदशोकतरुमूले प्रतिमाधरं ध्यानस्थं तं मुनिमपश्यत् । ततस्तं प्रदिक्षणीकृत्य वन्दित्वा पारितध्यानान्मुनेधर्मलाभाशिषमाप्तवान् । तन्मुनेर्धर्मदेशनां च श्रुत्वा क्षणात्प्रतिबुद्धो निजं धाम गत्वाऽनन्तवीर्य निजराज्ये निवेश्य पुत्राभ्यां कृतनिष्क मणोत्सवः स्वयम्प्रभमुनिपार्चे पर्यव्राजीत् । दुःसहानपि परीषहान् सहमानश्च मूलोत्तरगुणांश्चिरं सम्यक् पालयित्वाऽन्तकाले मनसा विराद्धचारित्रो विपद्य चमरेन्द्रो जज्ञे ।। अथाऽनन्तवीर्योऽपि साऽपराजितो मेदिनीमन्वशात् । एकदा च तयोः केनचिद्विद्याधरेण मैत्री जाता। ताभ्यां च स विद्याधरो विद्या प्रदाय साधयेथामिति चोपदिश्य वैताढ्यमगात् । तयोश्च बर्वरी-किरातीनाम्न्यौ गीतनृत्यादिकुशले द्वे चेटिके आस्ताम् । अन्यदा च तौ बलविष्णू ताभ्यामुत्तमं नाटकं कारयितुं प्रावताम् । तदानीमेव च तत्र सभायां नारदः समाययौ । तस्य च बलविष्णू नाटकाक्षिप्तमनसौ न सत्कारमकुरुताम् । तेन च कुपितो नारदश्चिन्तयामास-"मदादिमौ मां न सदकार्टाम् । तदेतस्या अवज्ञायाः फलं द्रुतं दर्शयिष्यामि" । एवं चिन्तयित्वा स नारदः सहसा वैताढथे दमितारिनपान्तिकं जगाम । स चाऽभ्युत्थाय सप्रश्रयं नारदाय सिंहासनमदापयत् । सिंहासनं त्यक्त्वा स्ववृष्यामेवोपविष्टो नारदो व्याजहार-"राजन् ! महौजसे तुभ्यं स्वस्ति, तव राज्यादिषु सर्वत्र कुशलम् १"। ततो 'भवदनुग्रहात्सर्वत्र कुशलम् , किन्तु भवता क्वचिददृष्टपूर्वमाश्चर्य दृष्टं पृच्छामी'ति नृपेणोक्तो हर्षोत्फुल्लवदनो नारदोऽब्रवीत्-"अद्यैव शुभाख्यायां महापुर्यामनन्तवीर्यमहासभायां बर्वरीकिरातीभ्यामभिनीयमानं नाटकमद्राक्षम् । तादृश XXXXXXXXXXXXXXXXXXXXXXXX ॥५८। Jain Educa ! For Persona 3 Private Use Only brary.org Page #63 -------------------------------------------------------------------------- ________________ ॥ ५६ ॥ मद्भुतं नाटकं न मया क्वचिद् दृष्टम् । त्वं च सर्वाश्चर्यभूतवस्तूनां भाजनमसि । यद्यत्र तन्नाटकं नाऽऽनयसि, तर्हि राज्यादिनाऽलमित्युदित्वा नारदस्ततो रभसा नभोमार्गेण प्रययौ । दमितारिश्च त्रिखण्डविजयैश्वर्यगर्वितोऽनन्तवीर्यसविधे दूतं प्राहिणोत् । स दूतश्च तत्र गत्वा नत्वा चाऽनन्तवीर्यं सहाग्रजमभाषिष्ट - " अत्र विजयार्थे यदद्भुतं वस्तु तत्सर्वं दमितारेः, तत्तस्मै तव प्रसिद्धे बर्वरी - किरात्यौ नाटककारिण्यौ चेटिके प्रेष्येताम् ” । तच्छुत्वाऽनन्तवीर्यो जगाद - " इतस्त्वं सम्प्रति गच्छ । किञ्चिद्विचार्य शीघ्र चेटिके प्रेषयिष्यामि । ततो मुदितो दूतोऽभ्येत्य सिद्ध प्रयोजनं दमितारये शशंस | sar गूढामर्षौ तौ बलविष्णू " स विद्यासिद्ध्यादिव लेनास्मानेवमाज्ञापयतीति पुरा मित्रेण विद्याधरेण दत्ता विद्याः साधयावः । ततश्च स क श्रावयोर !" इति विचिन्तयतो यावत् तावत्प्रज्ञप्त्याद्या विद्यास्तत्र समेत्य प्राञ्जलि जल्पु: - "या युवां सिसाधयिषू, ता एता विद्या वयं स्मः । पूर्वजन्मनि सिद्धा इदानीमप्युपस्थिताः । युवां समादिशतम् वयं युष्मद्वपुषि सङ्क्रमिष्यामः ।" एवमस्त्विति तयोर्वाचा ता विद्या नद्योऽन्ध्योरिव तदङ्गयोस्तदात्मत्वं प्रतिपेदिरे । ततस्तौ स्वभावतो बलिनौ विद्यासिद्धया चाऽसाधारणौ तासां विद्यानां गन्धमाल्यादिभिः पूर्जां चक्रतुः । अत्रान्तरे च दमितारिणा निर्दिष्टो दूतः पुनरुपेत्य साक्षेपमभाषिष्ट - "चेटिके प्रेषयिष्याव इत्युक्त्वा किमित्यपिन प्रेषिते ।” ततो गूढकोपो विष्णुः साम्नोवाच - "यदि दमितारिश्चेटीभ्यामेव तुष्यति, तदपरेऽह्नि ते गृहीत्वा गच्छ" । ततो दूतो विष्णुप्रदत्तावासे कृतकृत्यमिवात्मानं मन्यमानो ययौ । तौ च बलविष्णू सुमन्त्रिषु राज्य १ For Personal & Private Use Only ॥ ५६ www.janeffibrary.org Page #64 -------------------------------------------------------------------------- ________________ R "पञ्चमः चक्कवट्टिस्सा श्रीसनकुमार चक्रवर्तिचरितम् ॥६ ॥ XXXXXXXXX KXXXXXXX भारमारोप्य विद्यया स्वस्य चेटीद्वयरूपं विधायोपेत्या-"पराजिताऽनन्तवीर्याभ्यां दमितारये प्रहिते स्व" इति दूतमूचतुः। दूतश्च ताभ्यां चेटिकाभ्यां समं गत्वा दमितारिं व्यजिज्ञपत-"अत्र विजयार्धे कोऽपि भवतः शासनं न लवयति । अपराजिताऽनन्तवीर्याभ्यां सविनयमिमे चेटिके प्राभृते प्रेषिते स्तः। ततस्ते चेटिके दृष्टा दमितारि र्नाटिकाभिनयायाऽऽदिक्षत् । ताभ्याश्चाऽदृष्टपूर्वमभिनीतं नाटकं दृष्ट्वा चेटीद्वयं संसाररत्नभूतममन्यत । स्वपुत्री कनकश्रियं च नाटकशिक्षायै तयोर्मायाचेटयोः समर्पितवान् । ___तां शिरीषसुकुमाराङ्गी प्राप्तयौवना कुमारी दृष्टा ते कपटचेट्यौ मधुरालापपूर्वकं साभिनयं तन्नाटकं भूयो भूयो दर्शयित्वा शिक्षयामासतुः । तथा नाटकस्य मध्ये मध्ये रूपादिभिगुणैरनन्तवीर्य कामं वर्णयामासतुः। ततः कनकश्रीरपृच्छत्-"चेटिके ! कोऽयं पुरुषोत्तमो यो युवाभ्यां क्षणे क्षणे गीयते " । ततो मायाचेव्यपराजितः स्मित्वाऽब्रवीत्-"शुभानने ! शुभायां महापुर्या स्तिमितसागरनृपतनयो ज्येष्ठोऽपराजितः कनिष्ठोऽनन्तवीर्यः। स कियद्वर्ण्यते ?, जगति तत्तल्यो नाऽपरः" । तदाकण्य कनकश्रीः पुरतः स्थितं दृष्ट्वेवोत्कण्ठावती जाता। ततस्तां चिन्तितां विलोक्याऽपराजितः पुनरूचे-"मुग्धे ! अनन्तवीर्य मन्मुखाच्छु त्वा किं ताम्यसि ?, किं तं त्वं दिदृक्षसे ?" । ततः कनकश्रीः सगद्गदमुवाच-"स कथं मया दृश्यः?" । ततो ज्येष्ठा चेट्युवाच-यदि तं दिदृक्षसे, अलं विषादेन । तमद्य दर्शयामि तव । विद्याशक्त्या साऽपराजितमनन्तवीर्यमत्राऽऽनयामि"। ततो हृष्टा कनकश्रीरुवाच "एवं यदभिभाषसे, मन्ये, मे देवमनुकूलम् । किन्वधुनैवाऽऽत्मनो वाचमनुतिष्ठ' । ततस्तौ तुष्टावमराविव स्वं स्वं रूपमाविश्वक्रतुः। KXXXXXXXXXXXXXXX**:* ॥६०॥ Jain Educat national For Personal & Private Use Only DAMAlibrary.org Page #65 -------------------------------------------------------------------------- ________________ ॥ ६१ ॥ तत्राऽपराजित उवाच - भद्रे ! मया यः कीर्तितः, स मद्भ्राताऽनन्तवीर्यस्तथाऽस्ति न वा १, मया तु स्तोकमेवाऽऽख्यातः । अस्य रूपादिवैभवं साम्प्रतं दृग्गोचरीकुरु" । ततो युगपद्विस्मयावेगादिभावमापन्नाऽपराजितस्य ज्येष्ठमानिनी सोत्तरेण नीरङ्गीं विदधे । अनन्तवीर्योऽपि च स्मरोदयाद्रोमाञ्चितो जातः । ततः सहजमानमुत्सृज्य स्वयं दूतीत्वमालम्ब्य कनकश्रीरनन्तवीर्यमवदत् -" त्वं मे नाट्याचार्य:, तथा पतिरपि त्वमेव । यदि मां कामान्न पासि, तर्हि ते मद्धत्या स्यात् । पुरा स्वया श्रवणमात्रेण मम हृदयं गृहीतम् । अधुना पाणिग्रहणेन मामनुगृहाण " । तदाऽनन्तवीर्योऽब्रवीत् - "मिच्छसि तह तिष्ठ, शुभां नगरों गच्छामः” । तच्छ्र ुत्वा कनकश्रीः पुनरवोचत् - " त्वं मम प्राणेश्वरः, किन्तु मम पिता विद्याशक्या दुर्मदो दुष्टश्च । स महानर्थं करिष्यति । यतो भवन्तौ बलिनावपि fararaaraat " ततोऽनन्तवीर्यः स्मित्वोचे - " मा भैषीः, अपराजितेन युद्धे तव पिता न समर्थः । अन्यांश्च पृष्ठतः समायातान् युयुत्सून हं हनिष्यामि, निःशङ्कमेतत् । ततो विश्रब्धा कनकश्रीरनन्तवीर्येण सह प्रतस्थे । अनन्तवीर्यश्वोद्वाहुः पौरान राजपुरुषादश्च सर्वान् सम्बोधयन् मेघघोषगभीरया गिरोवाच - " असावहमनन्तवीर्यः सापराजितो दमितारेः कन्यां स्ववेश्म नयामि । चौरिकयाऽपहृतेत्यपवादो न दातव्यः । " एवमुद्घोषणां कृत्वा साऽपराजितः सवैक्रियेण विमानेन विहायसा चचाल । तबछु त्वा च दमितारिरत्यन्तं क्रुद्धो निजान् भटानादिशत् -" सभ्रातरम' हत्वाऽथषा द्रुतं धृत्वा तनयां समानयध्वम् ।" तेनैवमुक्ताश्च भटा उद्यतशस्त्रा अधावन्त । तदा चाऽपराजिताऽनन्तवीर्ययोहलशाङ्गदिकानि दिव्यरत्नानि जज्ञिरे । तैश्व For Personal & Private Use Only ******* ॥ ६१ ॥ www.jathelibrary.org Page #66 -------------------------------------------------------------------------- ________________ * * "पञ्चमः XXXXXX ** चक्कचट्टिस्स R ॥६२॥ चरितम्" XXXXXXXXXXXXXXXXXIXE ताभ्यां हता दमितारिभटास्त्रेसुः । तां पलायितान् श्रुत्वाऽमर्षणो दमितारिः शस्त्रैर्गगनमाच्छादयनचालीत् । कनकश्रीश्च भटानां क्रोधालापाञ्छ वा मोहविलला जाता । ततस्तामाश्वासयन्ननन्तवीर्य उवाच-"मुधा किं मुह्यसि १, श्रीशान्तिससैन्यं दमितारिं मया हन्यमानं पश्य" । एवं कनकश्रियमाश्वास्य साऽपराजितो वलित्वा सद्यो विद्यया द्विगुणां चम नाथ सृष्टवान् । ततश्च द्वयोः सैन्ययोःस्तुमुलं युद्धं प्रववृते । दमितारेः सैन्या अपि विद्याशक्त्या दुर्मदा युद्धे न मनागप्यभ चक्रवर्तिज्यन्त । ततोऽनन्तवीर्यध्मातपाञ्चजन्यशङ्खध्वनिना मृच्छिता दमितारिभटा न्यपतन् । ततः स्वयं रथमारुह्य दमितारिः शस्त्रैरस्त्रैऽनन्तवीर्येण युयुधे । दुर्जेयं च तं ज्ञात्वा दमितारिश्चक्रं सस्मार । तच्च चक्रं ज्वालाशतसमाकुलं दमितारेः करे समापपात । भ्रमयित्वा च स तदनन्तवीर्याय मुमोच । तच्चक्रतुम्बाग्रघातेन मञ्छितः स विष्णुनिपतितोऽपराजितवीजितश्च सुप्त इव द्रागुत्तस्थौ । पार्श्वस्थं तदेव चक्रमादाय च दमितारेः शिरश्चकत्त । तदानीं च मुदिताः सुरा विष्णोरुपरि पञ्चवर्णपुष्पवृष्टिं चक्रुरवोचंच-"भो भो ! विद्याधरेन्द्राः ! सर्वे तत्पराः शृण्वन्तु, अयमनन्तवीर्यो विष्णुः । अयमपराजितश्च बलदेवः । एतत्पादान् सेवध्वम् । रणाच निवर्त्तवम्" । ततः सर्वे विद्या धरेन्द्रा बलदेववासुदेवौ शरणं ययुः । वासुदेवश्च साग्रजः शुभां पुरी प्रति विमानस्थस्तैन पैः सह प्रतस्थे। मेरोः समीपे च नृपैविष्णुरूचे-"श्रीमतामर्हतामाशातनां मा कार्षीः । अत्र गिरौ बहुशो जिनचैत्यानि सन्ति, तानि यथाविधि वन्दित्वा बज" । ततो विष्णुः सपरिच्छदो विमानादवतीर्य तानि चैत्यानि वन्दित्वा कौतुकात्तं गिरि पश्यन्नेकत्र वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनि तदेवोत्पन्नकेवलं देवारब्धमहिमानं दृष्ट्वा मुदितस्तं त्रिःप्रदक्षिणीकृत्य ॥६२॥ Jain Educati o nal For Personal & Private Use Only wlletbrary.org Page #67 -------------------------------------------------------------------------- ________________ ॥६३॥ नत्वाऽग्रे निषध देशनां श्रुतवान् । अन्ते च कनकधीनत्वा तं मुनि पप्रच्छ-"मम कुतः पितृवधो बन्धुविरहश्च"। ततो मुनिराख्यत्-"धातकीखण्डे प्राग्भरते शङ्खपुरग्रामे श्रीदत्ता नाम नारी दारिद्रयपीडिताऽऽसीत् । एकदा भ्रमन्ती सा श्रीपर्वतगिरिं प्राप्य तत्र शुक्लध्यानस्थं सत्ययशसं नाम महामुनि ददर्श । तं नत्वा च सा पप्रच्छ-पूर्वजन्मनि मया मनागपि धर्मो न कृतः, येन साम्प्रतमतिदुःस्थिताऽस्मि । तव वचश्च न विफलमिति श्रेयसे मां किश्चिदादिश । येन भवान्तरे भृयो नेदृशी स्याम्" । तद्वचः श्रुत्वा किश्चिद्विचाय च स मुनिधर्मचक्रवालं नाम तपोऽनुष्ठातुमादिशत् । अत्र च तपसि द्वे त्रिरात्रे सप्तत्रिंशचतुर्थानि च भवन्ति । अमुष्य तपसः प्रभावाच्च पुनरीदृशं भवान्तरं न भविष्यतीति फलं चाऽवोचत । ततस्तद्वाचं गृहीत्वा तं प्रणम्य सा निजं गृहं गत्वा तत्तपः कर्तुमारेभे । तत्प्रभावाच्च पारणकेऽपि स्वाद्वप्राप्तपूर्व भोजनं प्राप । ततः प्रभृति च सा धनिकगृहेषु द्विगुणं त्रिगुणं च कमवेतनं प्राप । एवं किञ्चिद्व्यवती सम्पन्ना सा देवगुरूणां यथाशक्ति पूजां कर्तुमारेभे । एकदा च तस्या गृहस्यैकदेशो वाताघातात्पतितः । तत्र च सा स्वर्णादिकं लेभे । ततस्तपःसमाप्तौ सा चैत्यपूजादिपूर्वकं महदुद्यापनं विदधे । तपसोऽन्तपारणदिने च यावदिग्वीक्षणं करोति, तावन्मासक्षपणकं सुव्रतर्षि ददर्श । ततः स्वं कृतकृत्यं मन्यमाना स्वयं प्रासुकानादिना तं प्रतिलाम्य नत्वा चाऽऽहंतं धर्म पप्रच्छ । ततो मुनिरनवीत-"न एष कल्पो न, यद्भिक्षार्थ गतेन क्वाऽपि धर्मदेशना क्रियते । यदि ते धर्मशुषूषा, तदा मयि वसतौ गते समये आगच्छेः।" एवमुक्त्वा स मुनिजंगाम । ततः पारणं कृत्वा स्वाध्यायं कुर्वति मुनौ तत्र पौरलोकः श्रीदत्ता च वन्दनार्थ समाजगाम । तेषु वन्दित्वा यथास्थानमुपविष्टेषु सत्सु XXXXXXXXXXX XXXXXXXXXXXXXXXXX ॥६३॥ For Personal & Private Use Only Jain Educatista national Neelbrary.org Page #68 -------------------------------------------------------------------------- ________________ *"पश्चमः चक्कवट्टिस्सा कहा" श्रीशान्तिनाथचक्रवर्तिचरितम्" ॥६४॥ XXXXXXXX XXXXXXXXXXXXX**:*** मुनिः प्रसन्नया वाचा धर्मदेशनां विदधे-"संसारे चतुरशीतियोनिलक्षान् भवान् भ्रान्त्वा दैवात्प्राणी मानुष्यं लभते । तत्राऽपि च सर्वधर्मेषु प्रधानः सर्वज्ञकथितो धर्मः सुदुर्लभः । तस्मात्तत्र धर्म एव सम्यक्त्वपूर्वकं यत्नः कर्त्तव्यः । येन संसारी संसारं लीलया तरति" । ततः श्रीदत्ता सुव्रतपादयोनत्वा सम्यक्त्वपूर्वकं सर्वज्ञोक्तं धर्म जग्राह । पौरलोकोऽपि सर्वो मुनि नत्वा श्रीदत्ता च स्वस्वगृहं ययौ । ततः सा कियन्तं कालं तं धर्म प्रत्यपालयत् । कर्मविपाकाच्च तस्या मनसि विकल्पः समुदभूत-यजिनधर्मस्य परमं फलं कीय॑ते, तत्फलं ममम भविष्यति न वा १ । तदनन्तरमेकदा सा सत्ययशसं मुनि वन्दितु प्रस्थिता सा गगने विमानस्थं विद्याधरयुगलं समीक्ष्य तद्रूपमोहिता निजगृहमागत्य तां विचिकित्सामनालोच्याऽप्रतिक्रम्यैव च व्यपद्यत । इतश्चाऽस्मिन् जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये वैताट्यगिरौ शिवमन्दिरनगरे कनकपूज्यनामनृपतेर्वायुवेगाख्यायां पत्न्यामहं कीर्तिधरनामा तनयोऽभूवम् । मम पत्नी चाऽनिलवेगाख्या रात्रावेकदा सुप्ता श्वेतहस्तिनं गर्जन्तं मेघ कुम्भं च स्वप्ने दृष्टवती। तदेव प्रबुद्धा च मुदिता तान् स्वप्नान मदने ख्यातवती । अहं च त्रिखण्डविज चक्रवत्त्यर्धवैभवस्ते तनयो भावीति तत्फलमाख्यातवान । पूर्णे च समये सा सर्वलक्षणसम्पन्नं सुतमसूत । गभस्थेऽस्मिन्मयाऽरयो विशेषतो दमिता इति तस्य दमितारिरिति नामाऽकार्षम् । स च क्रमेण वर्धमानः सर्वकलाकुशलो यौवनं प्रत्यपद्यत । एकदा च तत्र विहरन् श्रीशान्तिनाथो जिनः समवासार्षीत् । तं वन्दित्वोपविष्टोऽहं धर्मदेशनां श्रुत्वा सद्यो विरक्तो राज्ये दमितारिं निवेश्य तजिनपादमूले प्रवज्यां समादाय ग्रहणाऽऽसेवनरूपे शिक्षे गृहीत्वाऽत्र पर्वते वार्षिकी KKKKKKXXXXXXXXX *:XXXXXXX ॥६४॥ Jain Educat onal For Personal & Private Use Only S elibrary.org Page #69 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXXXXX प्रतिमा विधायाऽद्यैवोत्पन्नकेवलो जातोऽस्मि । स दमितारिश्च महावलो विजितत्रिखण्डविजयः प्रतिविष्णुर्जातः। तस्यैव मदिराख्यायां पत्न्यां श्रीदत्ताजीवस्त्वं कनकश्रीर्जातासि । यच्च संशयमनालोच्याऽप्रतिक्रम्य मृता, तदोषात्ते बन्धुविरहः पितृवधश्च समजायत । धर्मस्य स्तोकोऽपि कलङ्कोऽत्यन्तदुःखाय जायते । ततः सद्यो विरक्ता कनकश्रीलभद्रविष्णू विज्ञपयामास-"यद्यल्पेनाऽपि दुष्कृतेनैवं दुःखमाप्यते, तदुष्कृतोत्पत्तिखानिभिः कामभोगेरलम् । तत्प्रसद्य प्रव्रज्याग्रहणाय मामनुमन्येथाम् । भवदुःखादत्यन्तं भीताऽस्मि"। ततस्तो गुरुपादप्रसादतस्तवेदमविघ्नमस्तु । किन्त्विदानी शुभां नगरों यामः, यथा तत्र ते महा निष्क्रमणोत्सवं कुर्मः। तत्र च स्वयम्प्रभजिनेन्द्रपार्वे व्रतं गृह्णीया। तथेति स्वीकुर्वती तामादाय महर्षि नत्वा तौ शुभां नगरी जग्मतुः। तत्र च दमितारिणा पूर्वप्रेषितभटरनन्तसेनं स्वपुत्रं युध्यमानमपश्यताम् । तमनन्तवीयपुत्रं शूकरं श्वभिरिव परिवृतं प्रेक्ष्य बलभद्रः कोपात्स्वशस्त्रं हलं भ्रमयन्नधावत । ततस्ते दमितारिभटा भीताः पलायामासुः। ततः सपरिवारो विष्णुनगरी प्रविश्य शुभे दिने नृपैरर्धचक्रित्वेनाऽभ्यषिच्यत । अथ स्वयम्प्रभजिनो महीं विहरंस्तत्राऽन्यस्मिन दिने समागत्य समवासात । द्वारपालेन तथानिवेदितश्च तस्मै साधद्वादशरूप्यकोटीः प्रदाय विष्णुः साग्रजः सकनकश्रीकश्च तं वन्दितुं ययौ । तत्र च कनकधीः स्वयम्प्रभमुनेर्देशनां श्रुत्वाऽन्ते नत्वा प्राञ्जलि जंगाद-"प्रभो! गृहे विष्णुमापृच्छय दीक्षार्थमागमिष्यामि, कृपां कुरु।" ततः प्रमादो न विधातव्य इति जिनेनोक्ते सा गृहं गत्वा विष्णुना कृतनिष्क्रमणोत्सवा तत्र प्रभोः समीपमेत्य प्राबाजीत् । XEXXXXXXXXXXXXX ॥६५॥ For Persona & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ "पश्चमः चकवाट्टिस्स कहा" श्रीशान्तिनाथ चक्रवर्तिचरितम्" ॥६६॥ एकावल्यादिकं तपश्च विदधानायाः शुक्लध्यानस्थितायाश्च तस्या एकदा घातिकर्मक्षयात्केवलमुत्पन्नम् । क्रमेण च भवोपग्राहिकर्माणि क्षपयित्वा सा कनकश्रीरव्ययं पदमाससाद । बलविष्णू चापि विविधान् भोगान भुञ्जानौ सुखमग्नौ कालं गमयामासतुः। अथ बलदेवस्य विरताख्यायां दयितायां सुमति म कन्योत्पन्ना । वाल्यादेव सा जिनधर्मपरायणैकदोपवासान्ते पारणार्थ यावदुपविष्टा, तावत्कमपि मुनि द्वारागतं वीक्ष्य स्थालस्थापितान्नेन प्रतिलाभयति स्म। तदानीं च तत्र वसुधारादिकानि पञ्च दिव्यानि जज्ञिरे । मुनिरपि च ततः स्थानाद्विहुत्याऽन्यत्र जगाम । रत्नवृष्टिमाकण्यं तत्रागतो तां दृष्ट्वा विस्मितौ विस्मयजनकमेतस्याश्चारित्रमितिवादिनौ बलविष्णू कोऽमुष्या अनुरूपो वर इति चिन्तामग्नावीहानन्देन मन्त्रिणा मन्त्रयित्वा तस्याः स्वयम्बरमहोत्सवं निश्चिक्यतुः । वासुदेवाज्ञया च तत्र स्वयम्बरार्थं सर्वे नृपाः समाजग्मुः । ततः स्वयम्बरमण्डपे समुपविष्टेषु नृपेषु विलक्षणाऽलङ्कारनेपथ्या सुमतिः समागत्य स्वयम्बरमण्डपमद्राक्षीत् । तदानीमेव च तत्र मण्डपे देवतया रत्नसिंहासनस्थयाऽधिष्ठितं विमानमाविरभूत् । तद् दृष्टा सा सुमतिः सर्वे नपाश्च विस्मिता जाताः । तेषां पश्यतां च देवी विमानादवतीय मण्डपान्तरुपविश्य दक्षिणपाणिमुत्क्षिप्य सुमतिमचे "मुग्धे ! धनश्री ! बुध्यस्व, बुध्यस्व । प्राग्भवं स्मर । पुष्करद्वीपे प्राग्भरतस्य मध्ये श्रीनन्दनपुरे महेन्द्रनृप आसीत् । तस्य चाऽनन्तमतिनाम्नी पत्न्यासीत् । तया चैकदा निशाशेषे सुषुप्तया निजोत्सङ्गस्थिते पवित्रे पुष्पमाले स्वप्नो दृष्टः। XXXXXXXXXXXXXXXXXXXXXXXX Jain Educat For Persona 3 Private Use Only DAAIelibrary.org Page #71 -------------------------------------------------------------------------- ________________ ॥६७॥ । XX राज्ञा च तवाऽनवद्यं पुत्रीद्वयं भविष्यतीत्युक्ता प्रमुदिता पूर्णे समये पुन्यौ जनितवती । तत्र प्रथमाऽहं कनकश्रीः, त्वं तु द्वितीयाधनश्रीः। क्रमाच्च परस्परप्रीत्या वर्धमाने ते कलाकुशले यौवनं प्रापतुः । एकदा च क्रीडन्त्यौ ते गिरिपर्वताख्यं पर्वतमेत्य तत्र स्वानि फलानि सुरभीणि पुष्पाणि च विचिन्वन्त्यौ भ्रमन्त्यावेकत्र प्रदेशे नन्दनगिरि मुनि विलोक्य प्रमुदिते तं त्रिः प्रदक्षिणीकृत्य भक्त्या ववन्दाते । स मुनिश्च धर्मलाभाशिषं दत्वा तयोधर्मदेशनां विदधे । तां देशनां श्रुत्वाऽन्ते ते प्राञ्जली योग्यताऽनुसारं धर्मादेशं प्रार्थयामासतुः। मुनिश्च योग्यतां विचार्य द्वयोरपि द्वादशविधं धर्म दिदेश । ते जगृहतुश्च । ततस्ते मुनि वन्दित्वा निजगृहं समेत्य सावधानं तं धर्म पयपालयताम् । कदाचिच्च कुतूहलाते अशोकवनिकां गत्वा तत्र नदीतटे विविधक्रीडया क्रीडन्त्यौ त्रिपुराधिपो वीराङ्गो युवा विद्याधरोऽहापौत् । तस्य भार्या च वज्रश्यामलिका ते तस्मात्त्याजयामास । ततस्ते द्वे अपि भीमाटव्यां नदीतीरे वंशजालोपरि गगनात्क्षणात् पेततुः । तामापदं मरणान्तं ज्ञात्वा शुभभावनावत्यौ ते नमस्कारपरायणे अनशनं विदधाते । तयोरहं कनकश्रीविपद्य सौधर्मेन्द्रस्याऽग्रमहिषी नाम्ना नवमिकाऽभूवम् त्वं धनश्रीश्च विपद्य कुबेरस्य महिषी भूत्वा ततश्च्युत्वाऽत्र बलभद्रस्य नाम्ना सुमतिः सुता जाताऽसि । तदा चाऽऽवयोः सङ्केतो जातो यत् “प्रथमं या च्यवते, सा द्वितीयया समुपेत्याऽहम बोधनीया" । तत्त्वां बोधयितुमहमेषेहाऽऽगताऽस्मि । संसारोदधितारणं जैन धर्म त्वं बुध्यस्व । नन्दीश्वरद्वीपे शाश्वतार्हतां ता अष्टाह्निका जङ्गमाहतां यथास्थानं जन्माधुत्सवान पुराभवे स्वानुभूतास्ता देशनावाचश्च स्मर । अनया जन्मान्तरनिद्रया किं विस्मरसि ? सिद्धः प्रियसखीतुल्यां परिव्रज्यामादत्स्व" । एव ॥६७॥ elibrary.org JainEduca1 For Persons & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ चकवट्टिस्स कहा" "पञ्चमः श्रीसनत्कुमार चक्रवर्तिचरितम् ॥६८॥ KX****XXXXXXXXXXXXXXXXXX मुक्त्वा सा शक्रमहिषी विमानमधिरुह्य दिवं ययौ। सञ्जातजातिस्मरणा सुमतिश्च सुरीगिरा मूर्छिता भूमौ पतिता । शीतोपचारैलब्धसंज्ञा च समुत्थाय कृताञ्जलिरूचे-“भो भो ! पृथिवीनाथाः ! जातिस्मरणवत्यहं प्रार्थये-मदर्थ यूय माहूताः, अतो मां परिव्रज्यार्थमनुजानीत् ।" भूभुजोऽप्यूचुः । “अनघे ! तवैवमस्तु । अस्माभिरनुज्ञाताऽसि । तवेप्सितं निर्विघ्नमस्तु" । ततो देवराजस्य यक्षराजस्य च महिध्यस्तत्र समेत्य तां पूजयामासुः । सा च कन्यानां सप्तशत्या सह सुव्रताचार्यपादान्ते प्रव्रज्यामाददे । ततः सा द्विविधां शिक्षामादाय विविधं तपस्तप्त्वा संवेगमाविता तस्थौ । कालक्रमेण क्षपकवेणि मारूढ़वत्यसौ केवलं प्राप्ता । भव्यांश्च प्रबोध्य सर्वकर्माणि क्षपयित्वा सा सुमतिरव्ययं पदं प्राप। तावपराजिताऽनन्तवीयौं च सम्यक्त्वशालिनौ राज्यं पर्यपालयताम् । तत्र विष्णुरनन्तवीर्यश्चतुरशीतिपूर्वलक्षायुः पूरयित्वा निकाचितैस्तैः कर्मभिरादिमं नरकं ययौ । तत्र च द्विचत्वारिंशद्वर्षेसहस्रायुर्विविधा वेदना लेभे । तत्र च विष्णोः प्राग्जन्मपिता चमरोऽपत्यस्नेहात्समेत्य तद्वेदनोपशमं चक्रे । ततः सोऽनन्तवीर्यजीवः संविग्नः स्वं कर्माऽवधिना स्मरन् ता वेदना अधिसेहे । बलभद्रोऽपराजितोऽपि भ्रातृशोकाद्राज्यं तनये निवेश्य जयन्धरगणधरपादान्ते षोडशसहस्रनृपैः सह व्रतमादाय सुचिरं तपस्तप्त्वा परीषहान् सहमानोऽनशनेन विपद्याऽच्युतेन्द्रोऽभवत् । अनन्तवीयजीवोऽपि दुष्कर्मणां फलं भुक्त्वा नरकानिर्गत्याऽस्यैव जम्बूद्वीपस्य भरतक्षेत्रे वैताढ्योत्तरश्रेण्यां गगनवल्लभे पुरे विद्याधरेन्द्रस्य मेघवाहनस्य मेघमालिन्यां पत्न्यां मेघनादाख्यः सुतोऽभवत । मेघवाहनश्च क्रमेण प्राप्तयौवनं तं EXXXXXXXXXXXXXXXXXX****** X॥६८॥ Jain Educational matonta For Personal & Private Use Only Inelibrary.org Page #73 -------------------------------------------------------------------------- ________________ KX****XXXXXXXXXXXXXXXXXXX राज्ये निवेश्य परिव्रज्यामग्रहीत् । स मेघनादश्च क्रमाद्वयोरपि श्रेण्योरधिपतिबभूव । एकदा च स पुत्राणां दशोत्तरं देशशतं विभज्य दत्त्वा प्रज्ञप्तिविद्यया मन्दराद्रिमगात् । तत्र नन्दनवने सिद्धचैत्ये पूजनं च व्यधात् । तदानीं च तत्र कल्पवासिनो देवा अवतेरुः । तत्राऽच्युतेन्द्रः प्राग्भवभ्रातृस्नेहात्तं विलोक्य संसारस्त्यज्यतामिति प्राबोधयत् । तदा चाऽमरगुरुर्नाम मुनिस्तत्र समाययौ । ततो मेघनादस्तत्पादमूले व्रतं प्रपद्याऽप्रमत्तः संयमपूर्वकं पालयन् नन्दनपर्वतमारुर करात्रिकी प्रतिमा समालम्ब्य ध्यानी तस्थौ। तथा स्थितं च तं प्राग्जन्मवैर्यश्वग्रीवपुत्रो भवं भ्रान्त्वा दैत्यजन्म प्राप्तो दृष्ट्वोपसर्गानकरोत् । किन्तु तं ध्यानाच्चालयितुम् नाऽशक्नोत् । ततो विस्मितः स जगाम । मेघनादमुनिश्च ध्यानं पारयामास । एवं तीव्रतरं तपश्चिरं चरित्वाऽन्तेऽनशनं विधाय मृत्वाऽच्युतसामानिकदेवभावमाप ॥ २॥ तृतीयः सर्गः अथाऽस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सीताया दक्षिणे तटे मङ्गलावत्या विजये रत्नसञ्चयवत्यां रत्नसञ्चयानगयां प्रजानां योगक्षेमकरः क्षेमङ्करो नाम नृपो बभूव । तत्पत्नी च रत्नमालेव निर्मला रत्नमाला नाम । तस्याः कुक्षौ चाऽच्युतेन्द्रोऽपराजितजीवोऽच्युतकल्पाच्च्युत्वाऽवततार । तदानीं च निशाशेषे सुखसुप्ता सा महादेवी चतुर्दश महास्वप्नान् पञ्चदशं वज्रं च स्वप्ने ददर्श । प्रबुद्धा च प्रमुदिता पत्ये तत्सर्वमाख्यातवती । नृपेण च चक्रवर्ती तव पुत्रो भविष्यतीति तत्फलमुक्तम् । ततः पूर्णे समये सा देवी मधुराकृतिं पवित्रं पुत्रं सुषुवे । गर्भस्थितेऽस्मिन् जननी K:XXXXXXXXXXXXXXXXXXXXXX Jain Education national For Personal & Private Use Only Pahelibrary.org Page #74 -------------------------------------------------------------------------- ________________ कवट्टिस्स कहा" . श्रीशान्ति| नाथचक्रवर्तिचरितम्" ।७०॥ XXXXXXXXXXXXXXXXXXX वज्र दृष्टवतीति पिता तस्य समहोत्सवं वज्रायुध इति नामाऽकरोत् । क्रमेण वर्धमानश्च स सर्व कलाकुशलो यौवनं प्रपेदे । तथा लक्ष्मीमिव सुलक्षणां लक्ष्मीवती नाम राजपुत्रीमुपायंस्त । तस्याः कुक्षौ चाऽनन्तवीर्यजीवोऽच्युताच्च्युत्वाऽवततार । सुस्वप्नसूचितं सुलक्षणं सुतं च सा पूर्णे समयेऽसूत । पितरौ च तस्य समहोत्सवं सहस्रायुध इति नाम चक्रतुः । स च चन्द्र इव क्रमशो वर्धमानः कलाकलापसम्पन्नो यौवनं प्रपद्य कनकश्रियं नाम राजकन्या रूपलावण्यवती परिणिनाय । तस्यां च तस्य सहस्रायुधस्य शतवलि म महाबलः सम्पूर्णलक्षणः पुत्रोऽजनि । एकदा च पुत्रपौत्रादिपरिवारयुतः क्षेमकरो नृपः सभामध्यास्त । तदा चैशानकल्पे देवानां चर्चा जाता "सम्यक्त्वशालिषु वज्रायुधः श्रेष्ठः" इति । तामश्रद्दधानश्चित्रचूलाऽभिधो देवो विविदिषया नास्तिको भूत्वा क्षेमङ्करपर्षदं समाययौ । तत्र च विविधेष्वालापेषु जायमानेषु स देव आस्तिक्यमाक्षिप्याऽवदव-"पुण्यं पापो जीवः परलोकश्च नास्ति । एतेषामास्तिक्यबुद्धया देहिनो मुधा क्लिश्यन्ति । ततो वज्रायुधोऽवोचत्-"प्रत्यक्षविरुद्धमेतत्त्वद्वचः । त्वमवधि प्रयुज्य सम्यक्पश्य । तवैतद्वैभवं प्राग्जन्मधर्माऽनुष्ठानफलमेव । त्वं पूर्वजन्मनि मोऽभवोऽधुना चाऽमयः। यदि जीवो न भवति, कथमेतद्धटते १, तब्रूहि । इह मर्त्यत्वमाप्तस्य तव परत्र देवत्वमिति परल कोऽपि प्रत्यक्षसिद्ध एव ।" एवञ्च तेन प्रबोधितः स चित्रचूलः साधु साध्वित्युवाच । त्वया कृपालुना संसारे निपतन्नेषोऽहमुद्धृतोऽस्मि । अथवा तव किमुच्यते ? यस्य पिता तीर्थङ्करः । चिरान्मिथ्यात्ववानस्मि, तन्मे सम्यक्त्वरत्नं देहि । ततो वज्रायुधोऽपि सर्वज्ञपुत्रस्तद्भावं ज्ञात्वा तस्मै सम्यक्त्वं दिदेश। ततश्चित्रचूलः पुनरूचे-"कुमार । अद्य प्रभृति तवाऽहमादेशकारी, XXXXXXXXXXXXXXXXXXXXX ॥७०॥ Jain Educalerational For Personal & Private Use Only nelibrary.org Page #75 -------------------------------------------------------------------------- ________________ ॥७१॥ तदद्यैव किञ्चन याचस्व"। ततः कुमार उवाच-"यद्येवं तमु तः परं त्वया दृढ़सम्यक्त्ववता भाव्यमिति याचे" । एतत्तु मम स्वार्थमेव, अतः किश्चिदन्यत्कार्य ब्रहीति देवेनोक्तो ममैवैतत्कार्यमिति कुमार उवाच । ततः स देवस्तस्मै दिव्याऽलङ्करणानि दत्त्वैशानेन्द्रसभां गत्वाऽवोचत्-"दृढ़सम्यक्त्ववानयं वज्रायुधः । अयं महात्मा भगवानहन् भावी" । तत ईशानपतिवज्रायुधमस्तावीत् । एकदा च वसन्तसमये वसन्तपुष्पाऽलङ्कारा सुदर्शनानाम्नी वेश्या वज्रायुधमजिज्ञपत्-"अद्य यूनां क्रीडासखः कामस्य जयसखोऽयं वसन्तो विजृम्भते । तत्स्वामिनी लक्ष्मीवती मया त्वां विज्ञापयति-यत्सूरनिपाताख्यमुद्यानं गत्वा तत्र मधुश्रियं द्रष्टुं नः कौतुकम् । तदा तदनुमन्य तदैव स कुमारः सपरिच्छदस्तदुद्यानं जगाम । लक्ष्मीवतीप्रभृतीनि च सप्तदेवीशतानि ताराश्चन्द्रमिव तं कुमारमनुयान्ति स्म । तत्र गत्वा च विविधक्रीडाभिस्तद्द्यानं कुमारो विजहार । तेन विहारेण श्रान्तः सवधृजनः स जलक्रीडार्थ प्रियदर्शनां नाम वापी गत्वा तत्र प्रविश्य गिरिणद्यां द्विप इव प्रेयसीभिः समं क्रीडितुं प्रावत्तिष्ट । जलक्रीडया व्यग्रमानसे तस्मिन् कुमारे स्थिते च प्राग्जन्मशत्रुर्दमितारिजीवश्चिरं भवं भ्रान्त्वा देवत्वं प्राप्तो विद्युदंष्ट्राऽभिधस्तत्रोपेत्य तं दृष्ट्रा क्रुद्धः कुमारं सपरिच्छदं पेष्टुं तस्या वाप्या उपरिष्टात्पर्वतमुक्षिप्य चिक्षेप । नागपाशैश्च तं वज्रायुधं पदोरधो बबन्ध । ततो वज्री गिरिमिव स वज्रायुधस्तं पर्वतं मुष्टथा पिपेष । तान् पाशांश्च विसतन्तुवत्त्रोटयामास । ततस्तस्या वाप्याः सान्तःपुरपरीवारो निर्गतो नन्दीश्वरं गन्तुं विदेहजान् जिनानत्वा बजता शक्रेण दृष्टोऽत्र भवे चक्रयसो भाविन्यहन्निति सोपचारं पूजितो "धन्योऽसि त्वं षोडशस्तीथङ्करः शान्ति K४४ ॥७२॥ For Persona & Private Use Only Birtelibrary.org Page #76 -------------------------------------------------------------------------- ________________ "श्री "पश्चमः [कवाट्टिस्स कहा" ॥ ७२॥ र्भावी" त्युक्तश्च यदृच्छया क्रीडन् निजं पुरं प्रविवेश । अथ क्षेमङ्करो लोकान्तिकाऽमरैः प्रबोधितो दीक्षोत्सुको राज्ये वज्रायुधं निवेश्य वार्षिकं दानं प्रदाय प्रव्रज्या |श्रीशान्तिमादाय विविधाऽभिग्रहपरो दुस्तपं तपस्तप्त्वा घातिकर्मनाशादुत्पन्नकेवलो देवैः कृतकेवलज्ञानोत्सवः समवसरणस्थितो देशनां व्यधात् । तां च देशनां श्रुत्वा बहवो लोकाः प्राव्रजन् । वज्रायुधादयश्च स्वं स्वं स्थानं ययुः। | चक्रवर्तिअथाऽस्त्रागारिको वज्रायुधस्य 'अस्त्रागारे चक्ररत्नमुत्पन्नमिति मुदाऽकथयत् । ततो वज्रायुधो महीयसी चक्र चरितम्" पूजां चक्रे । अन्यान्यपि च त्रयोदश महारत्नानि तस्याऽभूवन । तथा चक्ररत्नाऽनुगः स पटखण्डं मङ्गलावतीविजयं सवैताढ्यमहीधरं व्यजेष्ट, सहस्रायुधकुमारं च यौवराज्ये न्यधत्त । एकदा च स वज्रायधः सामन्तादिपरिवृतः सभामण्डपमध्यास्त । तदानी चाऽम्बरतलादेको विद्याधरयवा शरणाय तमागात् । तत्पृष्ठे च विद्याधरी खड्गफलकधरा सुरेखाऽप्यागात् । सा च चक्रिणमूचे-"देव ! अयं दुरात्मा । विसृज्यताम् । यथाऽस्य दुर्नयफलमचिरादर्शयामि" । तत्पृष्ठतश्च गदापाणिर्यमदूत इव भीषणः क्रुद्धः कोऽपि विद्याधरः समागात् स उवाच-"अस्य दुर्नयः श्रूयताम् । येनाऽहमियं चाऽस्य वधेच्छया समागतौ । अस्य जम्बूद्वीपस्य विदेहक्षेत्रे सुकच्छनाम्नि विजये वैताढये पुरोत्तमे शुल्कपुरपुरे शुक्लदन्तनृपस्य यशोधरायां पल्यामहं पवनवेगो नाम तनयः । क्रमात्कलाकलापं यौवनं च प्रपन्नस्तत्रैव पुरे किन्नरगीते पुरे दीप्तचूलनृपस्य चन्द्रकीर्तिनाम्न्यां पत्न्यां जातां ॥७२॥ सुकान्तां परिणीतवान् । तस्यां जाता तव पुरःस्थितेयं मम पुत्री शान्तिमती नाम । सेयं मणिसागरे पर्वते प्रज्ञप्तिका EXXXXXXXXXXXXXXXXXXXXXXXX Jain Educal e mnational For Personal & Private Use Only elibrary.org Page #77 -------------------------------------------------------------------------- ________________ ॥७३॥ *:********** विद्या साधयन्त्यनेन विद्याधरेण व्योमन्यचिक्षिपे। तदानीमेव चाऽस्या विद्याऽसिद्धयत् । ततः पलायितोऽयं विद्या धराऽधमः क्वाऽपि शरणमलभमानस्त्वत्पादमूलं प्राप्तोऽस्ति । अहं प्रज्ञप्तिविद्यापूजार्थं बलिं गृहीत्वा समागतस्तत्र गिरी निजां दुहितरमपश्यन्नाभोगिन्या विद्यया सर्ववृत्तं ज्ञात्वेहाऽऽगतोऽस्मि । सोऽयं दुरात्मा त्यज्यताम् । यथाऽनया गदया दलयित्वैनं यमपुरं प्रेषयामि" । ततोऽवधिज्ञानाज्ज्ञात्वा वज्रायुधश्चक्रयवोचत्-"भोः ! अस्य प्राग्भवसम्बन्धः शृयताम् । अस्यैव जम्बूद्वीपस्यैरावते क्षेत्रे विन्ध्यपुरे नगरे विन्ध्यदत्तो नाम नृपोऽभवत् । तस्य च सुलक्षणाख्यायां पत्न्या नलिनकेतुनामा सुतोऽभवत् । तत्रैव च नगरे धर्ममित्रो नाम सार्थवाहोऽभवत् । तस्य च श्रीदत्तायां पल्यां दत्तो नाम सुतोऽभवत् । दत्तस्य च प्रभङ्करा नाम दिव्यरूपा पल्यासीत । एकदा स वसन्ततौं तया दयितया समं रन्तमद्यानं ययौ । नलिनकेतुश्च तदैव तत्राऽऽगतः प्रभङ्करां दृष्ट्वा तद्रपमोहितः कामातस्तामहार्षीत् । तथा तया सह क्रीडोद्यानादिषु यथेच्छं रेमे । दत्तश्च तद्विरहानलपीडित उन्मत्त इव प्रभङ्करां ध्यायंस्तत्रोद्याने बभ्राम । भ्रमता च तेन सुमना नाम मुनिर्ददृशे । तदानीमेव च तस्य मुनेः केवलमुत्पन्नम् । देवैश्च तस्य केवलज्ञानमहिमा चक्रे । दत्तोऽपि च मुनि वन्दित्वा देशनां श्रुत्वा क्षणात्तापं विहायोपशान्तो दानकर्मनिरतः शुभध्यानी प्रकृष्टं पुरुषायुषमतिवाट जम्बूद्वीपे प्राग्विदेहे सुकच्छे विजये वैताढये स्वर्णतिलके पुरे विद्याधरनरेन्द्रस्था महेन्द्रविक्रमाकस्य पत्न्यामनिलवेगायां पुत्ररूपेणोदपद्यत । नपश्च तस्याऽजितसेन इति नाम दधौ । विधिवद्विविधा विद्याश्च ददौ । यौवनं प्रपन्नश्च सोऽजितसेमो विद्याधरकन्या: परिणीय ताभिगिरिवनादिषु रेमे । विन्ध्यदत्ते विपन्ने च विन्ध्यपुरे नलिनकेतू राजाऽभवत् । स च प्रभङ्करया साध ************** Jain Educatie International For Personal & Private Use Only wledgelibrary.org Page #78 -------------------------------------------------------------------------- ________________ "श्री चकवहिस्सा कहा" चक्रवर्ति ॥ ७४॥ KEXXXXXXXXXXXXXXXX**** सुर इव वैषयिकं सुखं बुभुजे । एकदा च प्रभङ्करया साधं प्रासादमधिरूढः स उन्नतान् मेघान् दृष्टा मुमुदे । तेषां च ला प्रचण्डवातेनेतस्ततो नीयमानानां मेघानामुत्पत्ति विपत्तिं च क्षणेन जाता ह “पश्चमः जातवैराग्योऽचिन्तयत-"व्योम्नि वा श्रीशान्तिरिदा इव संसारे सुखमपि क्षणादस्तमेति । एकस्मिन्नेव जन्मनि जनो युवा वृद्धो धनी रङ्को विरुक् सरुक् च जायते । नाथजगति सर्व क्षणिकं धिक् ।” एवं विमृश्य स्वं पुत्रं राज्ये निवेश्य क्षेमङ्करतीर्थङ्करपार्वे प्रव्रज्यां गृहीतवान् । तपोध्यानादिभिश्च घातिकर्मक्षये तस्य कालक्रमेण केवलं ज्ञानमुत्पेदे । तथा सर्वकर्माणि हत्वा स क्षणादव्ययं पदं प्राप । प्रभङ्करा चरितम्" चाऽपि सुव्रतागणिनीपावें चान्द्रायणं तपोऽचरत् तस्य प्रभावाच्च सम्यक्त्वादिकं विनाऽपि विपद्य तवेयं शान्तिमती पुत्री जज्ञे । दत्तजीवोऽजितसेनश्चैप विद्याधरः पूर्वस्नेहादेनामहार्षीदिति मा कुपः । अनुबन्धं त्यक्त्वेनं क्षमयतम् । यतः कपाया नरकायैव भवन्ति । एषं वज्रायुधगिरा मुक्तवैरास्त्रयोऽपिसंविग्नाः परस्परं क्षमयामासुः । ततः पुनश्चक्रयोवोचन-यूयं त्रयोऽपि क्षेमङ्करजिनाऽन्तिकेऽचिरेणैव प्रव्रज्यां ग्रहीष्यथ । तत्र शान्तिमती रत्नावली तपो विधायाऽनशनेन मृत्वेशानेन्द्रो भविष्यति । युवयोश्च तदैव घातिकर्मपरिक्षयात्केवलं ज्ञानमुत्पस्यते । स चेशानेन्द्रः समेत्य युवयोः केवलज्ञानमहिमानं भवन्मृतदेहपूजां च महोत्सवात्करिष्यति । ततः कालक्रमेण च्यत्वा चेशानेन्द्रो मयतां प्राप्योत्पत्रकेवलज्ञानः सिद्धिमासादयिष्यति ।" चक्रिणश्च त्रिकालज्ञानविषयं तद्वचः श्रुत्वा तत्र सर्वे सभासदो विसिष्मियिरे। ततः पवनवेगः शान्तिमती सोजितसेनश्च त्रयोऽपि राजानं नत्वोचुः-"त्वमेवाऽस्माकं पिता स्वामी गुरुर्देवश्च । अन्यथाऽपायप्रत्तानां नः कोऽन्यस्त्राता भवेत् । तदनुमन्यस्त्र, अद्यैव वयं क्षेमङ्करजिनेश्वरं गमिष्यामः।" ततश्च नपेणाऽनुज्ञा *XXXXXXXXXX ७४॥ Jain Educ a tion For Persona & Private Use Only torary.org Page #79 -------------------------------------------------------------------------- ________________ ॥७५॥ तास्ते त्रयोऽपि क्षेमङ्करजिनान्तिकं गत्वा प्रव्रज्योग्रं तपस्तेपिरे । चक्रयक्तप्रकारेण च परमं पदं ययुः । वज्रायुधश्चक्री च सहस्रायुधेन सहेन्द्रो दिवमिव भुवं पालयामास । एकदा च सहस्रायुधपत्नी जयना निशि स्वप्ने भास्वरां कनकशक्ति ददर्श । तया ख्यातस्य च तस्य स्वप्नस्य "महाशक्तिस्तव पुत्रो भविष्यती"ति पतिः फलमुक्तवान् । तत्प्रभृति गर्भ दधाना सा पूर्णे समये तनयरत्नमजनिष्ट । पितरौ च तस्य दृष्टस्वप्नाऽनुसारेण समहोत्सवं कनकशक्तिरिति नाम चक्रतुः । स च क्रमाद् बाल्यमतीत्य प्राप्तयोवनः सुमन्दिरपुरे मेरुमालिनो मल्लागर्भजां रूपलावण्यशालिनी कनकमाला नाम तनयामुपयेमे । तस्याश्च कनकमालायाः सखों मशकासारपुरनृपस्याऽजितसेनस्य प्रियसेनाकुक्षिभवां वसन्तसेना स्वयम्बरा पित्रा प्रेषितां कनकशक्तियथाविधि परिणिन्ये । तदुद्वाहतश्च तस्या वसन्तसेनायाः पैतृष्वस्र यश्चुकोप । एकदा च कनकशक्तिरुद्याने कमप्येक नरमुत्पतन्तं निपतन्तं च वीक्ष्य कस्त्वमिति पप्रच्छ। ततः स नर उवाच-"अहं विद्याधरोऽस्मि । वैताढयशैलात्केनचिदर्थेनाध्यतो गच्छन्निहोद्याने समापतम् । अत्र चोद्यानरम्यतां पश्यन् क्षणं स्थित उत्पित्सुर्यावदाकाशगामिनी विद्यामस्मान्तावत्तस्या विद्याया एकं पदं विस्मृतम् । तेनेषद्वद्धपक्षः पक्षीवोत्पतामि निपतानि च। ततः कनकशक्तिरुवाच-"यद्यपरस्याऽग्रतस्तत्पठितुं युज्यते तहिं यावत्स्मृतं पठ' । ततस्तेन विद्याधरेण पादहीनायां तस्यां पठितायां पदाऽनुसारिबुद्धिनृ पस्तत्पादमाख्यत् । ततः पुनर्जातविद्याशक्तिः स विद्याधरः प्रमुदितो नृपाय विद्याः प्रदाय यथागतं ययौ। कनकशक्तिरपिता विद्या यथाविधि साधयित्वा महाविद्याधरोऽभवत् । वसन्तसेनायाः पैतृष्व XEXXXXXXXXXXXXXXXXXXX**** ॥७५॥ Jain Educati o nal For Personal & Private Use Only delibrary.org Page #80 -------------------------------------------------------------------------- ________________ चक्कवाट्टिस्स "पश्चम: श्रीशान्तिनाथचक्रवर्तिचरितम्" ॥ ७६ ॥ स्र यश्चाऽतिरुष्टोऽपि कनकशक्तेरपकत्तु मसमर्थों लज्जया भक्तपानादि परिहृत्य विपद्य च हिमचूलनामा देवोऽभवत् । कनकशक्तिश्च वसन्तसेना-कनकमालाभ्यां सह विद्याशक्त्या समीरवन्महीं भ्रमन् हिमवगिरि प्राप्तो विपुलमत्याख्यं चारणं मुनि दृष्ट्वा वन्दित्वा भार्याभ्यां सह तदीयदेशनां श्रुत्वा प्रबुद्धस्ते भार्ये गृहे मुक्त्वा प्रवव्राज । ते देव्यावपि च संविग्ने विमलमतेरार्यायाः पायें व्रतं जगृहतुः। कनकशक्तिश्च विहरन् सिद्धगिरि प्राप्तस्तत्र शिलायामेकरात्रिकया प्रतिमया स्थिरस्तस्थौ । तत्र च तथास्थितं तं दृष्ट्वा दुराशयो हिमचूलसुर उपसर्गान् कतु प्रचक्रमे । तश्च तथा कुर्वन्तं विद्याधरा न्यत्रासयन् । ततः प्रतिमा पारयित्वा विहरन् स रत्नसञ्चयां नगरी प्राप्तः सूरनिपाताख्ये वने एकरात्रिकी प्रतिमा चक्रे । ततश्च क्षपकश्रेणिमारूढस्य तस्याऽमलं केवलमुत्पन्नम् । तदा सुराः समुपेत्य तस्य केवलज्ञानमहिमानं चक्रः। हिमचूलश्च तद् दृष्टा भीतस्तं शरणं ययौ । वज्रायुधोऽपि च तस्य मुनेर्यथावन्महिमानं विधाय देशनां श्रुत्वा स्वपुरों ययौ। अथाऽन्यदा क्षेमङ्करप्रभुस्तत्र समवसृतः । तच्छु त्वा च सपरिच्छदो वज्रायुधस्तत्र गत्वा यथाविधि वन्दित्वा यथास्थानमुपविश्य धर्मदेशनामश्रौषीत् । देशनान्ते च नत्वा स चक्रयवदत्-"स्वामिन् ! संसराद् भीतोऽस्मि, ततः स्वे राज्ये सहस्रायुधं निवेश्य यावदागच्छामि, तावन्मम दीक्षां दातुं प्रतीक्षस्व' । ततो 'न प्रमादो विधातव्या इति स्वामिनोक्तः स निर्जा पुरीं गत्वा सहस्रायुधं राज्ये निवेश्य सहस्रायुधेन कृतनिष्क्रमणोत्सवः क्षेमङ्करजिनपार्श्वमेत्य राज्ञीनां नृपाणां च चतुःसहस्र या पुत्राणां सप्तशत्या च सह व्रतमाददे। विविधाऽभिग्रहपरः परीषहान् सहमानश्च XXXXXXXXXXXXXXXXXXXXXX ॥७६ ॥ Jain Educ a tional For Personal & Private Use Only Melibrary.org Page #81 -------------------------------------------------------------------------- ________________ ॥७७॥ वज्रायुधमुनिर्विहरन् सिद्धगिरिमुपेत्योपसर्गान् सहिष्येऽहमिति बुद्धया तत्र विरोचने स्तम्भे वार्षिकी प्रतिमां दधौ। इतश्चाऽश्वग्रीवसुतौ मणिकुम्भो मणिकेतुश्च द्वावपि भवान् भ्रान्त्वा कृतबालतपावसुरभावमापन्नौ स्वैरचर्यया तत्र समायातौ तं मुनिमपश्यताम् । ततश्चाऽमिततेजोभववैरेण तं मुनिमुपद्रोतुं प्रारेभाते । तौ सिंहीभूयोभयोः पार्श्वयोस्तं मुनि नखरैश्चख्नतुः, कुञ्जरीभूय कराद्याघातैर्जघ्नतुः, भुजगीभूय तस्य द्वयोः पार्श्वयो ढबन्धं ललम्बाते । राक्षसीभूय च तीक्ष्णदंष्ट्राभिः पीडयामासतुः । इत्थं यावत्तौ तं मुनिमुपाद्रवताम्, तावदिन्द्रपन्योऽर्हन्तं वन्दितुं चेलुः । तस्य मुनेश्वोपसर्ग कुर्वाणौं तौ दृष्टा “आः पापौ ! युवाभ्यां किमिदमारब्धमि" ति ब्रुवाणाश्च ता गगनादवतेरुः। ताः प्रेक्ष्य च भयातौ तो त्रेसतुः। ततश्च रम्भाद्याः सुरस्त्रियो भक्तितस्तस्य मुनेर नाटयं विस्तारयामासुः । तं मुनि वन्दित्वा च स्वं स्वं स्थानं ययुः । स मुनिरपि वार्षिकी प्रतिमा पारयित्वा महीं विजहार ।। सहस्रायुधोऽपि राज्यलक्ष्मी यथाकामं बुभुजे । एकदा च तत्र पुर्या पिहितास्रवं गणधरं समवसृतं विज्ञाय सहस्रायुधः समपेत्य भक्त्या बन्दित्वा धर्मदेशनां श्रवा तयण प्रaze: देशनां श्रुत्वा तत्क्षणं प्रबुद्धः स्वे राज्ये पुत्रं शतबलि निधाय तद्गणधरपादान्ते प्रव्रज्यामादाय द्विविधशिक्षासम्पन्नो महीं विहरन् वज्रायुधस्य राजर्षेरमिलत् । ततः संयुक्तौ तौ पितापुत्रौ तपोध्यानपरौ पुरग्रामादिषु विहरन्तौ सुखेन प्राज्यं कालं गमयित्वेषत्प्रारभाराख्यं गिरिमारुह्य पादपोपगमाऽभिधमनशनं प्रपद्याऽऽक्षय तृतीये अवेयकेऽहमिन्द्रत्वमाप्य पञ्चविंशतिसागरोपमस्थिति तस्थतः। XXXXXXXXXXXXXXXXXXXXXXXX ॥ ७७॥ JainEducation For Persona 3 Private Use Only library.org Page #82 -------------------------------------------------------------------------- ________________ *"पञ्चमः * श्रीशान्ति चक्कवट्टिस्स कहा" नाथ ॥७८॥ चक्रवर्ति चरितम्" । चतुर्थः सर्गः। अथाऽस्य जम्बूद्वीपस्य प्राग्विदेहेषु पुष्कलावत्यां विजये सीतानद्याः समीपे पुण्डरीकिण्यां नगयों घनरथो नाम नृपतिरासीत् । तस्य च प्रियमतिमनोरमानाम्न्यौ द्वे पत्न्यावास्ताम् । तत्र प्रियमत्या उदरे वज्रायुधजीवो वेयकाच्च्युत्वा समवातरत् । तदा च तया निशाशेषे स्वप्ने मुखे प्रविशन गर्जन् वर्षन विद्युद्धास्वरश्च मेघो दृष्टः । तयाऽऽख्यातस्वप्नश्च महीपतिर्मेघ इव पृथिवीसन्तापहृत्तव पुत्रो भवितेति फलं व्याजहार । मनोरमादेव्या उदरे च सहस्रायुधजीवो ग्रेवेयकाच्च्युत्वाऽवतीर्णवान् । तयाऽपि च तदा स्वप्ने किङ्किणीपताकादिशोभितो रथो ददृशे । राज्ञा च ज्ञातस्वप्नेन महारथश्रेष्ठस्तव पुत्रो भावीति फलमूचे । पूर्णे च समये ताभ्यामुभौ तनयौ सुषुवाते । राजा च शुभेऽहनि क्रमेण प्रियमत्याः सूनोर्मेघरथ इति मनोरमायाः सूनोश्च दृढ़रथ इति स्वप्नानुसारेण नाम चक्रे । तौ च क्रमेण वर्धमानौ सर्वकलाकुशलौ यौवनं प्रापतुः। अथैकदा निहतशत्रोः सुमन्दिरपुरनृपस्याऽमात्यः समेत्य घनरथं प्रणम्य व्यजिज्ञपद-"नृप ! तव कुन्दधवला कीर्तिदिक्षु निर्वाधं प्रसरति । सुमन्दिरपुरेशितुनिहतशत्रोस्तिस्रः कन्या सन्ति । तत्र मेघरथस्य द्वे दृढरथस्य चैकां स दित्सते । “तदनुमन्यस्वे" ति । तदा घनरथ ऊचे-"अमुना सम्बन्धेन नौ स्नेहो दृढीभवतु" । ततो नृपो दैवज्ञेन लग्नं निर्णीय कुमारयोरागमनं च प्रतिपद्य तं सचिवं विससर्ज । सचिवश्च प्रमुदितः सुमन्दिरपुरमेत्य नृपं निहतशत्रु तवृत्तमाख्यायाऽहषयत् । घनरथश्च दृढरथेन सहितं मेघरथं सुमन्दिरपुरं प्रति प्रेषीत् । तौ च सैन्यपरिवारपरिवृतौ EKXXXXXXXXX KXXXXXXXX *॥७ ॥ Malerary.org Jain Educ a tional For Personal Private Use Only Page #83 -------------------------------------------------------------------------- ________________ ॥ ७६ ॥ कतिपयैः प्रयाणैः सुरेन्द्रदत्तनृपदेशसीम्न्यूषतुः । तत्र च सुरेन्द्रदत्तेन शिक्षित्वा प्रेषितो दूतोऽभ्युपेत्य मेघरथमुवाच"नः स्वामी 'अस्मद्देशमध्येन मा गास्त्वमि' ति वक्ति । अन्येन मार्गेण गच्छ, अन्यथा न ते कुशलम् " । ततो मेघरथो विहस्योवाच - "अस्माकमयमेव मार्गः सरलः, स कथं त्यज्यताम् ९ । अतो वयमनेनैव मार्गेण यास्यामः । तव स्वामी स्वशक्ति दर्शयतु'" । तच्छ्र ुत्वा कुपितः सुरेन्द्रदत्तो रणभेरीमवादयत् । तथा सर्वथा सन्नद्धेन सैन्येन मेघरथं प्रति रणेच्छुः प्रतस्थे । मेघरथोऽपि दृढरथेन सह रथमारुह्य सैन्यानि रणायाऽऽदिदेश । प्रवृते च शस्त्रसम्पाते परैः कुमारयोः सैन्यमभञ्जि । ततः क्रुद्धौ कुमारौ परसैन्यमध्यं विगाह्य तन्ममन्थ । ततः सुरेन्द्रदत्तो युवराजेन सहित - स्ताभ्यां योद्धुं प्रावृतत् । ततश्च मेघरथदृढरथाभ्यां तौ रणे खेदयित्वा शीघ्र ं बबन्धाते । तस्मिन् देशे च निजाज्ञां प्रवर्त्तयित्वा तौ सुमन्दिरपुरं प्रतीयतुः । निहतशत्रुश्च तयोः सहर्ष स्वागतादिकं विधाय सुलग्ने मेघरथेन प्रियमित्रा - मनोरमे दृढरथेन च सुमतिं परिणाययामास । ततो विवाहे जाते राज्ञा विसृष्टौ तौ कुमारौ स्वां पुरीं प्रति गच्छन्तौ सुरेन्द्रदत्तं सयुवराजं स्वे राज्ये पूर्ववत्संस्थाप्य निजां नगरीं प्राप्तवन्तौ । तत्र च प्रियाभिस्तौ विविधान् भोगान् सुखेन कालं गमयामासतुः । तत्र मेघरथस्य पत्नी प्रियमित्रा नन्दिषेणं मनोरमा च मेघसेनम्, दृढ़रथस्य पत्नी सुमतिश्च रथसेनं नाम पुत्रं सुषुवे । 1 T अन्ये घरथोऽन्तःपुरे कलत्रपुत्रपौत्रादिभिः परिवृतः कुक्कुटहस्तया सुसेनाख्यया वेश्यया व्यज्ञपि "देव ! अयं मे कुक्कुटः स्वजातिषु रत्नम् । यतः केनाऽपि कुक्कुटेन कदाप्ययं न जीयते । यदि कस्याऽपि कुक्कुट एनं जयेत्तदाT For Personal & Private Use Only ॥ ७६ ॥ Janelibrary.org Page #84 -------------------------------------------------------------------------- ________________ un चक्कवट्टिस्स - ___ कहा" निपत्य "पञ्चमः . श्रीशान्ति। नाथ चक्रवर्तिचरितम्।" ॥८ ॥ *XXXXXXXXXXXXXXXXXXXXXX sहं तस्य दीनाराणां लक्षं पणे दास्यामि । यद्यपरस्याऽपि तादृशः कुक्कुटोऽस्ति, तर्हि स मत्पणमुत्क्षिपतु"। तच्छु त्वा मनोरमोचे-'अहं पणं स्वीकरोमि । मत्कुक्कुटेन तवाऽयं कुक्कुट इहैव युध्यताम् । ततो राजैवस्त्विति प्रोक्ते मनोरमा चेटिकया वज्रतुण्डाख्यं निजं कुक्कुटमानाय्य युद्धाय मुमोच । तौ च द्वौ कुक्कुटौ चित्रयुद्धनिपुणौ परस्परं निपत्योत्पत्योसत्याऽपसत्य च प्रहारान् ददतुः प्रतीषतुश्च । प्रचण्डचञ्चु चरणप्रहारोद्भुतशोणितैस्तयोरङ्गानि ताम्राण्यपि ताम्राण्यभूवन् । लोकश्च द्वयोः कस्य जय इति निर्णेतुं न शशाक । ततो द्वयोयुध्यमानयोधनस्थोऽवदत्"अनयोः कोऽपि केनाऽपि न जेष्यते” । ततो मेघरथेन कारणं पृष्टः स ज्ञानत्रयधरो धनरथ उवाच-"अनयोः पूर्वभववृत्तं श्रूयताम् अस्मिन्नेव जम्बूद्वीपे ऐरावतक्षेत्रे रत्नपुरे पुरे धनो वसुदत्तश्च द्वौ मित्रे वणिजावभूताम् । तौ च धनाशया भाण्डैः शकटादिकं भृत्वा व्यवहाराय ग्रामादिषु भ्रमतुः । लोभाभिभूतौ क्रूरौ च तौ निष्करुणं पीडितानपि वृषभान् ताडनादिभिर्वलाद्वाहयन्तौ कूटमानादिभिर्जनान् वश्चयन्तौ एकद्रव्याऽभिलाषात्परस्परं युध्येते स्म । इत्थं युध्यमानौ प्रपन्नातध्यानौ गजायुर्वद्धा श्रीनन्दितीर्थे मृतौ पुरैरावते स्वर्णकूलाख्यनदीतटे गजौ जातौ ताम्रकलशकाञ्चनकलशाऽभिधौ प्राप्तयौवनौ प्रस्रवन्मदौ स्वैरं विजहतुः । एकदा च स्वस्त्रयूथेन पर्यटन्तौ गजावन्योन्यं ददृशतुः । ततश्च प्राग्जन्मरोषादुद्भूतरोषौ परस्परवधायाऽधावताम् । चिरं च दन्तादन्ति शुण्डाशुण्डि युद्धं विधाय जन्मान्तरेऽपि युद्धार्थमिव युगपन्मृतौ । अस्य जम्बूद्वीपस्यैव च भरतक्षेत्रेऽयोध्यायां पुरि नन्दिमित्रो नाम भूरिमहिषीधनोऽभूत् । XXXXXXXXXXXXXXXXXXXXXX ॥८ ॥ For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ ॥ १॥ तस्य महिषीयूथे च तौ महिषौ जातौ पीनाङ्गो यौवनं च प्रपेदाते । देवानन्दाकुक्षिभवौ शत्रुञ्जयनृपात्मजौ घनसेन| नन्दिषेणौ च तौ महिषावपश्यताम् । ताभ्यां च कुतूहलातावुभौ महिषावयुध्येताम् । चिरं युद्ध्वा च तो विपद्य तत्रैव पुर्या कालमहाकालाख्यौ दृढाङ्गी मेण्ठको जातौ । दैवादेकत्र मिलितौ प्राग्वैरादभियुध्य विपद्य समविक्रमावेतौ कुक्कुटौ जातौ । अतः प्राग्वदेतयोर्न कोऽप्यन्येन जेष्यते । किञ्चेमौ न केवलं पूर्ववैराविष्टौ, किन्तु विद्याधराऽधिष्ठितौ युध्येते । अस्यैव जम्बूद्वीपस्य भरते वैताढ्योत्तरश्रेण्या स्वर्णपुरे गरुडवेगो नाम नृपोऽभूत् । तस्य पत्नी धृतिषेणा च स्वोत्सङ्गस्थितचन्द्रसूर्यस्वप्नसूचितौ चन्द्रतिलकसूर्यतिलकाख्यौ सुतौ सुषुवे । तौ च प्रपन्नयौवनौ मेरु गतौ शाश्वतार्हता प्रतिमा ववन्दाते । कौतुकाच्च तत्र भ्रमन्तौ स्वर्णशिलास्थितं नन्दने सागरचन्द्राख्यं चारणमुनिमपश्यताम् । तौ च तं नमस्कृत्य देशनां श्रुत्वाऽन्ते ऊचतु:-"भगवन् ! आवयोः प्राक्तनान् भवानाख्याहि" । ततो मुनिरूचे-"धातकीखण्डद्वीपे पूर्वैरवते वर्षे वज्रपुरेऽभयघोषो नृपस्तत्पत्नी सुवर्णतिलका चाऽभृताम् । तयोश्च सुतौ विजयो वैजयन्तश्च कलाकलापकुशलौ यौवनं प्रपेदाते । तथा तत्रैरवते स्वर्णद्रमे पुरे शङ्खनामा महीपतिरासीत । तस्य पत्नी पृथिवीदेवी चोत्सङ्गस्थितपुष्पमाल्यस्वप्नसूचितां पृथ्वीसेनाख्यां सुतां सुषुवे । तां च प्राप्तयौवना स शङ्खोऽभयघोषाय ददौ । एकदा च वसन्ततौं वसन्तपुष्पाण्यादाय काऽपि चेटिकाऽभयघोषसन्निधौ गतवती । तां दृष्ट्वा च सुवर्णतिलका नृपमुवाच-'वसन्तेन षडतुकाभिधमुद्यानममण्ड्यत ! तदिदानी मधुलक्ष्मीमनुभवितुं सपरिवारास्तत्र गच्छामः" । ॥८१॥ अत्रान्तरे च पृथिवीसेना नृपं कोटिमून्यानि युक्तिपुष्पाणि करे दधानोपस्थिता । तानि वीक्ष्याऽऽदाय च प्रसन्नो नृप । KXXXXXXXXXXXXXXXXXX Jain Educar 19 For Persona & Private Use Only ARTorary.org Page #86 -------------------------------------------------------------------------- ________________ चक्कट्टिस्स कहा" "पञ्चमः श्रीशान्ति नाथ चक्रवर्तिचरितम्" ॥ २॥ XXXXXXXXXXXXXXX उद्यानं ययौ । तत्र चिक्रीड च । तत्र नृपाऽनुज्ञाता पृथिवीसेना भ्रमन्ती दन्तमथनं मुनिं ददर्श । ततो मुदिता तं वन्दित्वा देशनां श्रुत्वा प्रबुद्धा तत्कालं राजानमापृच्छय तन्मुनेः प्रव्रज्यामाददे। अभयघोषोऽपि च तस्याश्चारित्रं प्रशंसन स्वं धाम जगाम । अन्यदा च स नपः स्वप्रासादे रत्नसिंहासनासीनस्तीथकुल्लिङ्ग छद्मस्थतया विहरमाणं जिनपुङ्गवमनन्तं प्रविशन्तं दृष्टा ससम्भ्रममुत्थायोचितं भोज्यमादाय प्रणामपूर्वकं भगवन्तमुपतस्थे । भगवानपि च तद्दत्तभिक्षया पारणा चकार । देवैश्च तत्र वसुधारादिपञ्चकं दिव्यं विदधे । भगवांश्च पारणां विधाय क्वाऽपि विजहार । स च तीर्थकुदेकदा विहरन्नुत्पन्नकेवलो वज्रपुरे समवासरत् । तत्र चाभयघोषः समेत्य यथाविधि वन्दित्वा देशनां श्रुत्वाऽन्ते च पुनर्नत्वा भगवन्तं जगाद-"भगवन् ! क्षणं प्रतीक्षस्व तनयं राज्ये निवेश्य दीक्षायै त्वत्पादान्तिकमायामि। ततो नैव प्रमादिना भाव्यमिति स्वामिनोक्तः स गृहं गृत्वा पुत्रावुवाच-"वत्स ! विजय ! त्वं क्रमागतं राज्यमादत्स्व । वैजयन्त ! त्वमस्य यौवराज्यं परिपालय । अहं तु प्रवजिष्यामि"। ततस्तावूचतुः-"यथा भवान् भवभीतस्तथाऽऽवामपि । अत आवामपि प्रवजिष्याव:"। ततः साविति तौ प्रशस्य स नृपो राज्यमन्यस्मै कस्मैचिद्दत्त्वा ताभ्यां पुत्राभ्यां सहाऽनन्तजिनान्तिकं गत्वा प्रवव्राज । ते त्रयोऽपि चोग्रं तपस्तेपुः । तत्र भूपतिर्विशत्या स्थानकैस्तीकृन्नामकर्मोपार्जेयत् । ते त्रयोऽपि च काले विपद्याऽच्युते कल्पे द्वाविंशतिसागरोपमजीविता देवा बभूवुः।। इतश्च जम्बूद्वीपे प्राग्विदेहेषु पुष्कलावत्यां विजये पुण्डरीकिण्यां नगयों हेमाङ्गदो नाम नृपोऽभूत् । तस्य च XXXXXXXX XXXXXX ८२ ॥ KXXXX Jain Educal a torta For Personal & Private Use Only d elibrary.org Page #87 -------------------------------------------------------------------------- ________________ ॥ ८३ ॥ वज्रमालिन्याख्यायाः पत्न्याः कुझावभयघोषजीवोऽच्युताच्च्युत्वा चतुर्दशमहास्वप्नम्मूचितोऽवातरत् । पूर्णे च समये जातो नाम्ना घनरथोऽद्याप्यवनीं पाति । विजयवैजयन्तौ विद्याधरौ जातौ युवां स्थः " । एवं पूर्वभवान् श्रुत्वा प्रसन्नो तौ मुनिं नत्वा प्राग्जन्मपितरं त्वां भक्त्या द्रष्टुमिहागतौ कुतूहलात्त्वदर्शनोपायभूतमनयोः कुक्कुटयोः सङ्कमणं प्रचक्रतुः । एतौ चेतो गत्वा भोगवर्धनमुनेरन्तिके प्रव्रज्य क्षीणकर्माणौ शाश्वतं पदं प्राप्स्यतः । तच्छ्र ुत्वा च प्रकटीभूय पूर्ववत्सुतमानिनौ तौ विद्याधरौ घनस्थं नत्वा गृहं जग्मतुः । तौ कुक्कुटौ च तच्छुत्वा प्रबुद्धौ पूर्वभवान् शोचन्त नृपं नत्वा स्वभाषया प्रोचतुः - देव ! किमद्याऽऽवां कुर्वहे, तद्धितमादिश" । ततो घनरथोऽवदत्-" अर्हन् देवो गुरुः साधुर्धर्मो जीवदया चवामस्तु" । तत्प्रतिपद्य च तावनशनं प्रपद्य मृतौ । भूतरत्नाऽटव्यां ताम्रचूल स्वर्णचूलसंज्ञौ भूतनायक भूत्वा विमानं विकृत्य पूर्वमत्रोपकारिणं मेघरथमुपेत्य नत्वा स्तुत्वा चैतद्विमानमधिरुह्य विश्वं पश्येति प्रार्थयताम् । ताभ्यां प्रार्थितश्च स मेघरथो विमानं सपरिच्छदोऽधिरूय ताभ्यां सम्पूर्णा पृथिवीं भ्रमयित्वा तानि तानि स्थानानि दर्श्यमानः पुनः पुण्डरीकिणीं प्राप्तवान् । तौ च भूतनायकौ तं राजकुते मुक्त्वा प्रणिपत्य रत्नवृष्टिं विधाय च स्वं स्थानं जग्मतुः । अथ लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितो घनस्थो मेघरथं राज्ये दृढ़रथं च यौवराज्ये निवेश्य वार्षिकदानं दत्त्वा दीक्षां गृहीत्योत्पन्नकेवलज्ञानो भविकान् प्रबोधयन् महीं विजहार । मेघरथश्च दृढरथाऽन्वितो महीमशात् । For Personal & Private Use Only ********* ॥ ८३ ॥ Page #88 -------------------------------------------------------------------------- ________________ "पश्चम: श्रीशान्ति चक्कपट्टिस्स कहा" नाथ ॥ ४॥ |चक्रवर्तिचरितम्" एकदा च देवरमणनाम्न्युद्याने रिम्सया गतो मेघरथोऽशोकतरोस्तले प्रियमित्रया साधं सङ्गीतं कारयितुमारेभे । अत्राऽन्तरे च तस्य नृपस्य पुरः सङ्गीतकचिकीर्षया सहस्रशो भृताः प्रादुरासन् । विचित्राऽऽकारभूषणनेपथ्याश्च ते ताण्डवं प्रारभन्त । तेषु ताण्डवं विदधत्सु च गगने विमानमेकं प्रादुरासीत् । तत्र च रत्या काम इवैकया युवत्या युतः पुमानेको ददृशे । कोऽयं केयं कुतो हेतोश्चेत आगच्छत इति प्रियमित्रया पृष्टश्च मेघरथ उवाच-"जम्बूद्वीपे भरते वैताट्यस्योत्तरशेण्यामलकायां पुरि विद्यद्रथो नाम विद्याधरेश्वर आसीत् । तस्य च मानसवेगायां पत्न्यां सिंहरथस्वप्नसूचनाञ्जातः सिंहरथः पुत्रश्चन्द्रो रोहिणीमिव कुलीनां वेगवती नाम कन्यां परिणीतवान् । विद्यद्रथश्च तं निजे राज्ये निधाय संसारं विद्युच्चपलस्वभावं ज्ञात्वा वैराग्यमापन्नो दीक्षा गहीत्वा संयमादिभिः कर्मक्षयं कृत्वा शिवमगात् । सिंहरथश्च विद्याधरचक्री चाऽर्हद्दर्शनेच्छयैकदा घातकीखण्डे पश्चिमविदेहेषु सीतानद्या उत्तरतटे सूत्राख्ये विजये खगपुरे पत्न्या समं गत्वाऽमितवाहनं दृष्ट्वा नत्वा देशनां श्रुत्वा पुनर्जिनं नत्वा स्वनगरी प्रति गच्छन् गति स्खलितां विज्ञाय कारणजिज्ञासयाऽधः पश्यन् मामिह स्थितं दृष्ट्वा सकोपमुत्क्षप्तुमुपासरत् । मया च वामेन पाणिनाऽऽक्रान्तो विरसं रसन् सपरिवारो मां शरणं प्रपन्नो मया मुक्तो नानारूपाणि विकृत्येदं सङ्गीतकमकार्षीत" । ततः पुनः प्रियमित्रायोचे-"देव ! पूर्वभवे किं कर्माऽमुना कृतं येनाऽस्यैषा महीयसी ऋद्धिः?" ततो मेघरथः पुनरुवाच-"भरते पुष्कराधे सङ्घपुरे राज्यगुप्तो नाम कुलपुत्रोऽतिदुःस्थ आसीत् । तस्याऽनुरक्ता भक्ता च शङ्खिकानाम्नी पत्न्यासीत् । तौ द्वावपि परगृहेषु कर्माणि चक्राते । एकदा च तौ सम्भूय फलार्थ सङ्घगिरिं गतौ भ्रमन्तौ सर्वगुप्तं मुनि देशनां कुर्वाणं KXXXXXXXXXX** RXXXXXXxxxxxx ॥ ४॥ Jain Edustelternational For Personal & Private Use Only Janelinelibrary.org Page #89 -------------------------------------------------------------------------- ________________ दृष्वोपेत्य नत्वा देशनां श्रुत्वा पुनः प्रणम्योचतुः-अस्मदर्थ किश्चित्तपः समादिश” । ततो महामुनिः सर्वगुप्तो योग्यताऽनुसारेण द्वात्रिंशत्कल्याणकाख्यं तपस्तयोदिदेश । तौ च तथेति प्रतिपद्य गृहं गतौ त्रिरात्रद्वयद्वात्रिंशञ्चतुर्थात्मकं तत्तपो विधाय पारणसमये च धृतिधरं मुनि भक्तोदकादिना भक्त्या प्रत्यलाभयताम् । अन्यदा च विहारक्रमात्तत्राऽऽगतस्य सर्वगुप्तमुनेर्यथाविधि देशनां श्रुत्वा परिव्रज्यामाददाते । तत्र राज्यगुप्त आचामाम्लवधमानतपो विधायाऽन्ते चाऽनशनं प्रपद्य दशसागरोपमजीवितो ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽयं विद्युद्रथनृपात्मजः सिंहस्थो जज्ञे । शतिका चाऽपि विविधं तपो विधाय ब्रह्मलोके सुरो भूत्वा ततश्च्युत्वाऽस्य पत्न्यभूत् । अयं च सिंहरथ इतः स्वनगरं गत्वा पुत्र राज्ये निवेश्य मत्पितुर्दीक्षामादाय तपोध्यानादिभिः क्षीणकर्मोत्पन्न केवलज्ञानः सिद्धिं ब्रजिष्यति ।" ततस्तद्ववचनं श्रुत्वा मेघरथं प्रणम्य स्वपुरं गत्वा पुत्र राज्ये निवेश्य सिंहरथो धनरथजिनान्तिके दीक्षामादाय तपोऽनुष्ठाय सिद्धिमियाय । नृपो मेघरथोऽपि च देवरमणोद्यानात्स्वपुरीं पुण्डरीकिणीं प्राविशत् । अथैकदा पौषधशालायां पौषधमादाय धर्ममाख्यातुमुपक्रान्तस्य मेघरथस्योत्सङ्गे भीत एकः पारापतः पपात् । मनुष्यभाषयाऽभयं याचमानं च तं मा भैषीरिति नपोऽभाषिष्ट । तं पारापतमनुधावमानः श्येनश्च ममेदं भक्ष्यमाशु मुञ्चेतिवदन्नागात् । ततो मेघरथ ऊचे-"नाऽमुमर्पयिष्यामि, क्षत्रियो हि शरणागतं नाऽर्पयति । किञ्च परप्राणाऽपहारेण स्वप्राणपरिपोषणं न कस्याऽपि युज्यते । तवाऽनेन भक्षितेन क्षणमात्रं तृप्तिः । अस्य तु सर्वप्राणाऽपहार एव भवेत् । परहिंसायां च परत्र भूरिदुःखम् । पञ्चेन्द्रियवधात्तन्मांसभक्षणाच्च जन्तवो नरके दुःसहाँ व्यथां प्राप्नुवन्ति । ततः KEXXXXXXXXXXXXXXXXXXXXXXX ॥८५॥ Jain Educati o nal For Personal & Private Use Only M elibrary.org Page #90 -------------------------------------------------------------------------- ________________ "श्री चक्क हिस्स कहा " ॥ ८६ ॥ प्राणिबधं मुञ्च । धर्मं समाचर । येन भवे भवे सुखमेष्यसि " । ततः श्येनोऽपि मनुष्यभाषया महीपतिमुवाच - "मद्भयादेप कपोतो भवन्तं शरणं ययौ । अहं तु क्षुत्पीडितः कं शरणं यामि १ । दयालवो हि सर्वेष्वप्यनुकूलाः । तद्यथैनं त्रायसे, तथा मामपि त्रायस्व । तुधात्तस्य मे प्राणा गच्छन्तीव । धर्मप्रियोऽपि किं बुभुक्षितः पापं न करोति ? | मम च भोज्यान्तरैस्तृप्तिरपि न । यतः स्वयंहतप्राणिमांसाऽशनोऽहम् । ततो नृपोऽवोचत् - " स्वमांस महं ते कपोतेन तोलयित्वा ददामि तेन तृप्तो भव" । ततः श्येनेन तत्स्वीकृते तुलायामेकतो नृपः कपोतमन्यतश्च च्छित्वा छित्वा स्वमांसं निदधे । राजा यथा यथोत्कृत्योत्कृत्य स्वमांसमक्षैप्सीत्तथा तथा कपोतो गुरुतरो जातः । तं च कपोतं गुरुतरं जायमानं वीक्ष्य भूपतिः स्वयमेव तुलामारुरोह । ततोऽमात्या ऊचुः - " नृप ! किमेतदारब्धं त्वया, येन शरीरेण सकला मही त्रातव्या, तदेकस्य पक्षिमात्रस्य त्राणे कथं त्यजसि १ । न चाऽयं कपोत एव, किन्तु कोऽपि देवादिः, कथमन्यथाऽस्येदृशो भारः १ । यावत्ते इत्थमुचुस्तावत्किरीटकुण्डलादिमण्डितो देव आविर्भूयोचे -“त्वं पुरुषोत्तमोऽसि, यत्पौरुषान्न चाल्यसे । ईशानेन्द्रस्त्वां सभायां वर्णयामास । तदसहमानश्चाऽहं त्वत्परीक्षार्थमागमम् । इमौ च पक्षिणौ प्राग्जन्मवैराद्युद्धायोपस्थितौ दृष्ट्वाऽध्यतिष्ठमेवमकार्ष च, तत्सहस्व ।" एवमुक्त्वा नृपं सज्जं कृत्वा देवो दिवं ययौ । सामन्ताद्याश्च विस्मयाद्राजानं पप्रच्छुः - " कीदृशाविमौ श्येनकपोतौ १, प्राग्जन्मनि चानयोः किंतु वैरम् ? अयं देवश्च प्राग्भवे कः ९ ।" 1 ततो नृपोऽवोचत् - " जम्बुद्वीपे ऐरवतक्षेत्रे पद्मिनीखण्डे नगरेऽतिसम्पन्नः सागरदत्तोऽभूत् । तस्य पत्नी च Jain Educalernational For Personal & Private Use Only *****: " पञ्चमः श्रीशान्ति नाथ चक्रवर्ति चरितम् " ॥ ८६ ॥ inelibrary.org Page #91 -------------------------------------------------------------------------- ________________ ||८७॥ SEXKXXXXXXXXXXXXXXXXXXXXKA विजयसेनाख्याऽऽसीत । तयोश्च जातौ धनो नन्दनश्च नाम्ना पुत्रौ क्रमेण वर्धमानौ यौवनं प्रपेदाते । एकदाच सागरदत्तं प्रणम्य तावूचतु:-"आवां वाणिज्याऽर्थ देशान्तरं गमिष्यावः, सत्समादिश' । पित्रा च समनुज्ञातौ तौ विविधं भाण्डमादाय सार्थेन सह प्रचलितौ नागपुरं नाम पुरं प्राप्य व्यवहरन्तौ महामूल्यमेकं रत्नं प्राप्य शङ्खनदीतीरे तदर्थ युध्यमानौ महाहदे निपत्य विपध चेमौ खगौ जातौ । प्राग्जन्मवैरादिहाऽपि वैरायते । तथा जम्बूद्वीपे प्राग्विदेहेषु सीतानद्या दक्षिणतटे रमणीयके विजये शुभाख्यायां पुरि स्तिमितसागरनृपस्येतः पञ्चमे भवेऽहमपराजि ताख्यो बलदेवः पुत्रोऽभवम् । ममाऽनुजश्च तत्रानन्तवीर्यनामा वासुदेवो दृढरथोऽस्ति । तदानीं च प्रतिविष्णुमि___तारिः कनकश्रीकन्यार्थमस्माभियुधि निपातितः । स च भवकान्तारे भ्रान्त्वा जम्बूद्वीपे भारतेऽष्टापदगिरिमूले निक त्याख्यसरित्तटे सोमप्रभाख्यस्य तापसस्य सुतो भूत्वा बालतपश्चरित्वा सुरूपो नाम सुरोऽभवत् । सोऽयं सुर ईशाने| न्द्रेण कृतां मम प्रशंसामसहिष्णुरिहाऽऽगात् । मत्परीक्षणं च व्यधात् ।" राज्ञस्तद्वचनं श्रुत्वा जातजातिस्मृती तौ श्येन पारापतौ सद्यौ मूर्च्छया भुवि पेततुः । शीतोपचारैश्च लोककृतैर्लब्धसंज्ञौ नृपमूचतुः-"राजन् ! त्वं प्राग्जन्मवर्णनेनाऽऽवयोरसमोपकारकोऽसि । तत्प्रसद्य सन्मार्गमादिश । येन शुभं लभावहे"। ततस्तयोरवधिज्ञानतो योग्यतां ज्ञात्वा नपः कालप्राप्तमनशनं समादिदेश । तौ चाऽनशनं प्रपद्य विपद्य च भुवनवासिना मध्ये सुरवरौ जातौ । मेघरथो नपोऽपि पौषधं पारयित्वा यथावदुर्वी पालयंस्तस्थौ । अन्यदा च कपोतश्येनवृत्तान्तं स्मरन् वैराग्यमापन्नोऽष्टमतपः कृत्वोपसर्गान् सोढुं प्रतिमया मेघरथस्तस्थौ । KXXXXXXXXXX ॥८७॥ For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ "श्री चक्कवट्टिस्स कहा" | "पञ्चमः | श्रीशान्ति नाथ |चक्रवर्तिचरितम्" ॥८ ॥ KKKKKKKKKKKKKKKKKKKX तदानी चेशानेन्द्रोऽन्तःपुरस्थो "नमो भगवते तुभ्यमि" ति जन्पन्नमोऽकरोत । जगन्नमस्येन त्वया कस्मै नमस्क्रियाऽकारीति महिषीभिः पृष्टश्च शक्र उवाच-"पुण्डरीकिण्यां पुरि घनरथात्मजो मेघरथोऽष्टमतपः कृत्वा महाप्रतिमया स्थितोऽस्ति । स चाऽयं भावी तीर्थकरः । तदेतस्मै नमोऽकाम् । अम चाऽस्माद् ध्यानाकेऽपि चालयितुं न क्षमा" । तच्छ वा तां प्रशंसामसहिष्णू सुरूपाऽतिरूपिके शक्रमहिन्यौ राज्ञः क्षोभार्थमागत्य विविधान हावभावान् कुर्वाणे मेघरथे मोघीभृतान् तान् वीक्ष्य मेघरथं क्षमयित्वा पश्चात्तापाऽन्विते निजधाम जग्मतुः । राजाऽपि प्रतिमा पारयित्वा निशावृत्तं स्मारं स्मारं परं संवेगमाप्तवान् । प्रियमित्राऽपि च प्रियं तादृशमवलोक्य संवेगं प्राप्तवती । अथाऽन्यदा घनरथो जिनः स्वयं तत्रैत्य पूर्वोत्तरदिशि समवासार्षीत् । तज्ज्ञात्वा च मेघरथः साऽनुजो गत्वा नत्वा धर्मदेशनां श्रुत्वा जिनमब्रवीत्-"भगवन ! त्वं सर्वज्ञः सर्वहितश्चाऽसि । तथापि प्रार्थये-यावत्कुमारं राज्ये निवेश्याऽहमिह दीक्षार्थमागच्छामि, तावत्प्रतीक्षस्व' । न प्रमादो विधातव्य इत्यर्हताऽनुशिष्टश्च मेघरथो गृहं गत्वा निजात्मजं मेघसेनं राज्ये दृढरथात्मजं रथसेनं च यौवराज्येऽभिषिच्य मेघसेनेन कृतनिष्क्रमणोत्सवः सानुजः पुत्राणां सप्तशत्या राज्ञां चतुःसहस्र या च जिनाऽन्तिके प्रवज्यामग्रहीत् । परीषहानुपसर्गाश्च सहमानस्त्रिगुप्तः पश्चसमितो देहेऽपि निराकाङ्क्षो विविधाऽभिग्रहपर एकादशाङ्गीधारकः सदृढरथो मेघरथोऽर्हद्भक्तिप्रमुखैः शुभैविंशत्या स्थानकैरहन्नामगोत्रकर्मोपाज्य सिंहनिष्क्रीडितं नाम दुस्तपं तपो विधाय पूर्वलक्षमखण्डितं श्रामण्यं पालयित्वाऽम्बरतिलकं गिरिमारुह्य गिरिरिव स्थिरोऽनशनं कृत्वा पूर्णायुः सानुजो विपद्य सर्वार्थसिद्धौ त्रयस्त्रिंशत्सागरोपमायुः सुरो बभूव ॥४॥ KXXXXXXXXXXXXXX * ॥८८॥ Jain Educ a tional For Persona & Private Use Only helibrary.org Page #93 -------------------------------------------------------------------------- ________________ ॥८६॥ पञ्चमः सर्गः। अथाऽस्य जम्बूद्वीपस्य भारतवर्षे कुरुदेशे चैत्यहम्योद्यानादिसमृद्धे हस्तिनापुरे पुरे यशस्वी शरण्याश्रियो वाचश्चैकाऽऽस्पदमिक्ष्वाकुवंशीयो विश्वसेनो नाम नृपो बभूव । तस्य च सतीशिरोमणिः सर्वलक्षणलक्षिता शीलादिगुणसमन्विताऽचिरा नाम भार्याऽऽसीत् । तस्याश्च कुक्षौ भाद्रकृष्णसप्तम्यां भरणीस्थे चन्द्रे सर्वार्थसिद्ध-विमानतो भुक्तनिजायुर्मेघरथजीवश्च्युत्वा समवातरत् । तदानीं च निशाशेषे सुखसुप्तया तयाऽचिरादेव्या मुखे प्रविशन्तश्चतुर्दश महास्वप्ना ददृशिरे । सुप्तोत्थितया च तया प्रमुदितया विज्ञप्तो नृपो "लोकोत्तरगुणस्त्रैलोक्यत्राणकर्मठस्ते पुत्रो भावी" ति स्वप्नफलमाख्यत् । नैमित्तिका अपि च पृष्टास्तवाऽऽत्मजश्चक्री धर्मचक्री वैभिः स्वप्नैभविष्यतीत्यूचुः । तांश्च सत्कृत्य राजा विससर्ज । अचिरादेवी चाऽपि रत्नगर्भेव गर्भरत्नं बभार । तदानीं च प्रागुत्पन्नान्युकेंगरोगमार्यादीनि विहितैरपि नानोपायरनुपशान्तानि विना प्रयास गर्भप्रभावादुपशान्तानि । ततः पूर्णे समये ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्र ग्रहेषूच्चस्थेषु साऽचिरादेवी मृगलाञ्छनं कनकवणे सुतमसूत । तदा च क्षणं जगत्त्रये समुद्योतो नारका णामपि च क्षणं सुखं समृदभूत । ततः षट्पञ्चाशदिक्कुमायः समेत्य यथाविधि सूतिकम चक्रः। शक्रश्च समेत्य प्रभु मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः समं प्रभोः स्नानं यथाविधि विधाय नत्वा स्तुत्वा पुनः प्रभुमादायाऽऽशु गत्वाऽचिरादेव्याः पार्चे यथास्थित्यमुञ्चत । तत्र च प्रभो रक्षादिकं विधाय यथाविधि रत्नादिवृष्टिं च विधापयित्वा पञ्चधात्रीरप्सरसः समादिश्य नन्दीश्वरं गत्वाऽष्टाह्निकोत्सवं विधाय यथायथं स्वं धाम जगाम । SXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX ॥८ ॥ Jain Educ a tional For Personal & Private Use Only onelibrary.org Page #94 -------------------------------------------------------------------------- ________________ "श्री चक्कवट्टिस्स कहा" "पश्चमः श्रीशान्ति* नाथ चक्रवर्तिचरितम्" ॥ ० ॥ XX:****XXXXXXXXXXXXXXXX अथ देवी गतनिद्रा दिव्यवस्वादिसमन्वितं दीप्तिमन्तं सूनुमुदैक्षत । नृपश्च प्रमुदितः समहोत्सवम् 'अस्मिन् गर्भस्थेऽशिवान्यशाम्यन्नि' ति तस्य शान्तिरिति नामाऽकरोत् । प्रभुश्च शक्रसङ्कमितसुधं निजाङ्गुष्ठं पिवन धात्रीभिबल्यमानः क्रमेण वर्धमानो बालक्रीडामनुभवन् चत्वारिंशद्धनुरुत्तङ्गो यौवनं प्रपेदे । नृपश्च शान्तिना राजकन्याः पयेणाययत् । पञ्चविंशत्यब्दसहस्रान्ते च नपः शान्ति राज्ये निवेश्य स्वयं स्वार्थमसाधयत् । शान्तिश्च वसुधां यथावपालयंस्ताभी राजकन्याभिर्विषयसुखं बुभुजे । अथ तस्याऽयमहिषी यशोमती स्वप्ने चक्रं मुखे प्रविशद्ददर्श । तदानी च निजमायुः पूरयित्वा सर्वार्थसिद्धविमानाद् दृढ़रथजीवश्च्युत्वा तस्याः कुक्षाववातरत् । तया तत्कालं प्रबुद्धया निवेदितश्च शान्ति नित्रयधर उवाच"मम प्राग्जन्माऽनुजो दृढरथस्सर्वार्थाच्च्युत्वा तवोदरे इदनीमवातारीत । तं च पुत्रं समये प्रसविष्यसे" । ततः पूर्णे समये सा यशोमती पूर्णलक्षणं पवित्रं पुत्रं सुषुवे । शान्तिश्च तस्य 'गर्भस्थेऽस्मिन् जननी चक्रं ददर्श' ति समहोत्सवं चक्रायुध इति नाम चक्रे । स च चक्रायुधो धात्रीभिर्लान्यमानः क्रमेण वधमानो यौवनं प्रपन्नवान् । पिता च तेनाऽनेकशो राजपुत्रीः पर्यणाययत् । तदेवं राज्यं पालयतः श्रीशान्तिनाथस्य वर्षाणां पञ्चविंशतिसहस्री व्यतिक्रान्ता । तत एकदा तस्याऽस्त्रशालायां चक्ररत्नमुदभूत । शान्तिश्च तस्य चक्रस्याऽष्टाह्निकोत्सवमकारयत । अथाऽस्त्रशालाया निःसृत्य पूर्वाभिमुखं चलितं चक्र यक्षसहस्राधिष्ठितं सहस्रारं ससैन्यमनुसरन् शान्तिर्मागधं प्राप्य मागधेशदेबेन धृताज्ञो दत्तोपायनः प्रतिष्ठमानो दक्षिणाऽब्धिमासाद्य तत्र वरदामेशं साधयित्वा ततः प्रस्थाय XXXXXXXX ॥8 ॥ Jain Education international For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ ॥११॥ ***** KXXXXXXXXXXXXXXXXXXXXXXXX प्रतीच्यजलधि प्राप्तः प्रभासपतिना पूजितो गृहीतशासनश्च सिन्धुदेवीमुद्दिश्य प्रचलितः सिन्धुतटं प्राप्य सिन्धुदेव्या स्तुतः स्वीकृताज्ञश्च तदने वैताढयं प्राप्य वैतादयकुमारेण पूजितस्ततस्तमिस्रागुहासमीपं गत्वा तत्र कृतमालदेवेन पूजितः शिविरं निवेशयामास । तत्र श्रीशान्तिना समादिष्टः सेनानीरत्नं सिन्धुमुत्तीय तदक्षिणनिष्कुटं साधयित्वा दण्डरत्नेन कपाटौ ताडयंस्तमिस्रागुहाद्वारमुद्घाटयामास । शान्तिश्च गजारूढस्तस्यां गुहायां प्रविश्य तमोनाशार्थं गजस्य दक्षिणे कुम्भे मणिरत्नं स्थापयित्वा गुहाया उभयोर्भित्त्योः काकिणीरत्नेनैकोनपश्चाशन्मण्डलान्यालिखन् वर्धकिरत्नेन बद्धपद्ये गुहान्तरस्थे उन्मग्नानिमग्ने नद्यावुत्तीर्य ससैन्यः स्वयमुद्धटितेनोत्तरद्वारेण गुहाया निर्गत्याऽश्वरत्नाऽऽरूढेन खड्गहस्तेन सेनान्या ध्वस्तान म्लेच्छान् पूर्वचक्रवर्त्तिवद्यथाविधि वशगान विधाय क्षुद्रहिमवगिरि गत्वा हिमवत्कुमारेण पूजितस्तत ऋषभकूटाद्रौ गत्वा काकिण्या शान्तिश्चक्रीत्यक्षराणि लिखित्वा वैताढ्यपर्वतोपत्यकाभुवं प्राप्य तत्र श्रेणिद्वयविद्याधरकुमारैः पूजितस्ततो वलितः स्वयं गङ्गां सेनान्या च तदुत्तरनिष्कुटं साधयित्वा खडप्रपाताख्यां गुहां प्राप्य नाट्यमालदेवं वशंवदं कृत्वा सेनान्या दण्डरत्नेन तां गुहामुद्घाट्य प्रविश्य पूर्ववदुन्मग्नानिमग्ने नद्यावुत्तीर्य पूर्ववन्मणिरत्नेन काकिणीकृतमण्डलेश्च तमो भिन्दन स्वयमुद्घटितेनाप्रारद्वारेण गुहाया निःसृत्य नैसर्पप्रमुखान् नवाऽपि निधीन वशगान विधाय म्लेच्छप्रचुरं गाङ्ग दक्षिणनिष्कुटं च सेनान्याऽसाधयत् । एवं क्रमेण षट्खण्डभरतमष्टभिवर्षशतैः साधयित्वा निवर्तमानः कतिभिः प्रयाणै हस्तिनापुरमाप । निजनिकेतनं प्राप्तश्चाऽमरै नृपैश्च कृतचक्रवर्तित्वाऽभिषेकः पृथक्पृथग् यक्षसहस्राधिष्ठितैश्चतुर्दशभी रत्न नवभि निधिभिश्च श्रितोऽन्तःपुरयोषितां चतुःषष्टया XXXXXXXXX *18१॥ Jain EducatidSAnational For Personal & Private Use Only clelibrary.org Page #96 -------------------------------------------------------------------------- ________________ "श्री "पञ्चमः श्रीशान्ति चक्का हिस्सा कहा" नाथ ॥१२॥ चक्रवर्तिचरितम्" 来来来来来来来来来来来来来来来来来来来来来来聚聚 सहस्ररावृतो गजरथाऽश्वानां चतुरशीतिलक्ष्या भूषितो ग्रामाणां पत्तीनां च कोटिपण्णवत्या भूभुजा द्वात्रिंशत्सहस्र या च सेवितः सूपकाराणां त्रिषष्टयग्रशतत्रय्याऽष्टादशभिः श्रेणिप्रश्रेणिभिश्च शोभमानभू सप्ततेमहापुरसहस्राणां रक्षितैकसहस्रोनद्रोणमुखलक्षस्य शासिताऽष्टचत्वारिंशत्सहस्रपत्तनानामधीश्वरो मडम्बवच्चतुर्विशतिसहस्राणां कर्पटानां रत्नाद्याकरसहस्रविशतेश्चेशिता खेटसहस्राणां षोडशानां शासकश्चतुर्दशानां संबाधसहस्राणां प्रभुः षडधिकपश्चाशदन्तरोदकांस्वायमाण एकोनपश्चाशतः कुराज्यानां नायकः षटखण्डमपि भरतमुपभुञ्जानो गीतादिभिर्विविधक्रीडाभिश्च सुखमनुभवं वर्तित्वादारभ्याऽष्टवषेशतोनानब्दानां पञ्चविंशतिं सहस्रान् गमयामास । अथ लोकान्तिकैर्देवैरागत्य तीर्थ प्रवर्त्तयेति प्रार्थितः प्रभुः श्रीशान्तिनाथो जम्भकासुरैः पूरितार्थो वार्षिकदानं प्रदाय चक्रायुधं राज्ये निवेश्य शक्रादिभिः कृतनिष्क्रमणोत्सवः सर्वार्था नाम शिविकामारुह्य सहस्राम्रवणमाप्य शिविकाया उत्तीर्याऽलङ्कारादि त्यक्त्वा कृतषष्ठतपा विहितसिद्धनमस्कारो ज्येष्ठकृष्णचतुर्दश्यां भरणीस्थे चन्द्रेऽपराह्न नृपसहस्रण समं यथाविधि दीक्षामुपाददे। तदानीमेव च तस्य प्रभोमनःपर्यायज्ञानमुत्पेदे। ततो मन्दिरपुरे द्वितीयेऽह्नि सुमित्रनृपगृहे परमान्नेन पारणं विदधे । देवैर्वसुधारादिपञ्चकं दिव्यं सुमित्रेण च प्रभुपादस्थाने रत्नपीठं निर्ममे । प्रभुश्च मूलोत्तरगुणधरो वसुन्धरां विहरन द्वादशमासान्ते हस्तिनापुरे सहस्राम्रवणं प्राप्य तत्र नन्दिवृक्षतले षष्ठेन तपसा शुक्लध्यानान्तरस्थो घातयित्वा घातिकर्माण पौषशुक्लनवम्यां भरणीस्थे चन्द्रेऽमलं केवलज्ञानमाप्तवान् । तदानीं च शक्रादिभिरेत्य यथाविधि विहिते समवसरणे पूर्वद्वारा प्रविश्याऽशीत्यग्रचतुर्धन्वशतोच्चं चैत्यपादपं प्रदक्षिणीकृत्य तीर्थाय XXXXXXXXXXXXXXXXXXXXXX ॥ २॥ Jain Educatkalmational For Personal & Private Use Only Plnelibrary.org Page #97 -------------------------------------------------------------------------- ________________ ॥३३॥ KXXXXXXXXXXXXX नम इत्युक्त्वा रत्नसिंहासने प्राङ्मुख उपाविशत् । सुरादयश्चाऽपि यथाद्वारं प्रविश्य यथास्थानं यथाविधि निविविशिरे । चक्रायुधोऽपि च तज्ज्ञात्वा सद्यः समेत्य प्रभुं प्रदक्षिणापूर्वकं प्रणम्याऽनुशक्रमुपविवेश । ततः सचक्रायुधेन शक्रेण स्तुतः प्रभुः श्रीशान्तिनाथो देशनामारेभे । तथाहि-"अनेकदुःखसन्तानहेतुरयं संसारश्चतुर्गत्यात्मकः । गृहस्य स्तम्भा इव चत्वारः क्रोधमानमायालोमाः कषायास्तस्याऽऽधाराः। तस्मात्क्षीणेषु कषायेषु संसारश्छिन्नमूलो महीरुह इव स्वयं क्षीयते । कषायजयश्च नेन्द्रियजयं विना । असाधितैरिन्द्रियैर्हि हयैरिवाऽपथे जन्तुनरके पात्यते । इन्द्रियर्जित एव जन्तुः कषायैरभिभूयते । अजितानि चेन्द्रियाणि कुलघाताय पाताय बन्धाय वधाय च जन्तूनां जायन्ते । पण्डिता अपि हीन्द्रियवशा विडम्बना प्राप्नुवन्ति । इन्द्रियाणामतोऽधिकं किं लञ्जाकरं यद्वन्धावपि बाहुबलिनि भरतोऽस्त्रममुश्चत् । तत्र बाहुबलिनो जयो भरतस्य पराजयश्च जिताजितानामिन्द्रियाणामेव प्रभावः । एष च दुरन्तानामिन्द्रियाणां महिमा, यच्चरमेऽपि भवे स्थिता जन्तवः शस्त्राशस्त्रि युध्यन्ते । शान्तमोहाः पूर्वविदोऽपीन्द्रियैर्दैण्ड्यन्ते । देवादयश्चाऽपीन्द्रियवशास्तपस्विनश्च जुगुप्सितानि कर्माणि कुर्वन्ति । इन्द्रियवशा ह्यस्वाद्यमपि खादन्त्यपेयमपि पिन्वत्यगम्यां चाऽपि गच्छन्ति । तथेन्द्रियहताः कुलशीलवर्जिता वेश्यानामपि दास्यानि कुर्वते । इन्द्रियाणामेव स प्रभावो यनराः परद्रव्ये परस्त्रीषु च प्रवर्तन्ते । इन्द्रियवशाच्च पाण्यादीनां छेदान् मरणं च जनाः प्राप्नुवन्ति । एक वीतरागं त्यक्त्वाऽऽदेवेन्द्रादाकीटाच्च सर्वे प्राणिन इन्द्रियैर्जिताः । करिणीस्पर्शसुखलुब्धः करी तत्क्षणादालानबन्धनक्लेशमामोति । अगाधजलस्थश्च मीन आमिषं गिलन IXXXXXXXXXXXXXXXXXXXXXXX 18३॥ Jain Educa la derational For Personal & Private Use Only Sadhinelibrary.org Page #98 -------------------------------------------------------------------------- ________________ चक्कवट्टिस्स कहा" ॥१४॥ EXXXXXXXXXXXXXXXX धीवरकरे पतति । गन्धलोलुपश्च भृङ्गो मत्तमातङ्गकर्णतालघातान्मृत्युमेति । शिखारूपमोहितश्च दीपे पतन् शलभः । “पञ्चमः शोचनीयतां याति । गीतश्रवणलोलुपश्च हरिणो व्याधस्य वेध्यतां याति । एवमेकोऽपि विषयः सेवितः पञ्चत्वाय श्रीशान्तिजायते । पञ्चभिरिन्द्रियै युगपत्पश्च विषयाः सेविताः पञ्चत्वाय कथं न भवेयुः १ तस्मान्नरो मनःशुद्धथेन्द्रियजयं । | नाथकुर्यात् । अन्यथा यमनियमाः कायक्लेशमात्रफलाः स्युः । अजितेन्द्रियो हि दुःखै बर्बाध्यते इति सर्वदुःखविमुक्तये चक्रवर्तितानीन्द्रियाणि जयेत् । इन्द्रियजयश्च न विषयेषु सर्वथैवाप्रवृत्तिः। किन्तु रागद्वेषादिकं विना तत्प्रवृत्तिस्तज्जयः। इन्द्रियै चरितम्" हिं स्वसमीपगो विषयोऽग्रहीतुमशक्यः । किन्तु मतिमान विषयेषु रागादिकं विवर्जयेत् । संयमधारिणो हीन्द्रियाणि हितेषु प्रवर्त्तमानान्यहितेषु चाऽप्रवर्त्तमानि भवन्ति । किञ्चेन्द्रियाणि जितानि मोक्षायाऽजितानि बन्धायेति विमृश्य यद्युक्तं । तत्समाचरेत् । मदौ कर्कशे च स्पशें रागाद्यभावः स्पर्शनेन्द्रियजयः । भक्ष्यादे रसे स्वादे च रागाद्यभावो जिह्वन्द्रियजयः। सुरभावितरस्मिन् वा गन्धे रागाद्यभावो घ्राणेन्द्रियजयः । रूपवति कुरूपे वा हर्षजुगुप्साद्यभावश्चक्षुरिन्द्रियजयः। वीणादेः खरादेश्च स्वरे रागाद्यभावः श्रवणेन्द्रियजयः । कोऽपीह मनोज्ञोऽमनोज्ञो वा विषयो नास्ति य इन्द्रियैर्नोपभुक्त इति विमश्य स्वास्थ्यमेव सेवेत । विषया हि नैकान्तेन शुभा अशुभा वा, किन्त्वपेक्षयेति क्वेन्द्रिय रज्येत विरज्येत वा ?। ततो मनःशुद्धया जितेन्द्रियः क्षीणकषायो नरोऽचिरान्मोक्षमाप्नोति"। प्रभोरीदृशीं देशनां श्रुत्वा जातसंवेगश्चक्रायुधो भगवन्तं व्यजिज्ञपत्-"स्वामिन् ! संसारभीतोऽस्मि, तद्दीक्षा ४॥ प्रदायाभयं कुरु' । ततः स्वामिना 'युक्तमिदं ते' इत्युक्तस्तनयं राज्ये निवेश्य पश्चत्रिंशता राजभिः सहितः स्वामिनो RXXXXXXXXXXXXXXXXXXXXXX For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ ॥६५॥ XXXXXXXXXXXXXXXXXXXX XXXX ऽन्तिके प्रव्रज्यामुपादत्त । ततश्च प्रभुः षट्त्रिंशतश्चक्रायुधादिकान् गणधरान् त्रिपदीमुपादिशत् । ते च तदनुसारेण द्वादशाङ्गीमसूत्रयन् । स्वामी च तेषामनुयोगगणाऽनुज्ञे अदत्त । भूयांसश्च नरा नार्यश्च प्रबुद्धास्तदानीं स्वामिनोऽन्तिके प्रव्रज्यां जगृहुः । केचिच्च सम्यक्त्वपूर्वकं श्रावकत्वं जगृहुः। प्रथमपौरुष्यां पूर्णायां स्वामिनि देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां गणधरे देशनाविरते सुरादयः स्वामिनं नत्वा स्वं स्वं धाम ययुः। तत्तीर्थे च समुत्पन्ने,-गजरथोऽसितवर्णः क्रोडास्यो दक्षिणाभ्यां बाहुभ्यां बीजपूराऽब्जधरो वामाभ्यां च नकुलाऽक्षसूत्रधरो गरुडाख्यो यक्षः, कमलासना गौरागी दक्षिणाभ्यां पुस्तकोत्पलधारिणी वामाभ्यां च कमण्डलुकमलधरा निर्वाणी देवी च-शासनदेवते प्रभोः सन्निहिते जाते । ताभ्यां सहितश्च भगवान् शान्तिवसुन्धरां विजहार । अथाऽन्यदा हस्तिनापुरमुपेत्य भगवान् समवासार्षीत् । तत्र च सपौरपरिच्छदस्तत्पुरेश्वरः कुरुचन्द्रो भगवन्तमुपतस्थे । यथास्थानं स्थितेषु च देवादिषु भगवान् देशनां विदधे । देशनान्ते च नत्वा कुरुचन्द्रो व्यजिज्ञपत्-"स्वामिन् ! केन पूर्वकर्मणाऽहमिह राज्यमासदम् ? । तथा ममोपायने प्रतिदिनं पञ्च वस्तुफलादीनि केन कर्मणा ढौकन्ते । तदिष्टेभ्यो दास्यामीति स्वयं नोपभुजे, न चाऽन्यस्मै तत्प्रयच्छामि, तत्केन कर्मणा ?" ततः प्रभुराख्यत्-"एत सर्व साधवे दानतस्तव राज्यश्रीरन्वहं पञ्चवस्तुढौकनं च । एषामप्रदानमभोगश्च पुण्यसाधारणत्वात् । बहुधा यधीनं वस्तु न खल्वेकेन भुज्यते । तत एव चाऽभीष्टेभ्यः प्रदास्यामीति चिन्ता ते जायते । जन्तूनां बुद्धि हि पूर्वकर्माऽनु| सारेण जायते । अस्यैव जम्बूद्वीपस्याऽस्मिन्नेव भरतक्षेत्रे कौशलाख्ये जनपदे श्रीपुरे नगरे सुधनो धनपतिधनदो धने ॥६५॥ For Personal & Private Use Only JainEducadol nelibrary.org Page #100 -------------------------------------------------------------------------- ________________ पश्वमा "श्री चक्कवट्टिस्स कहा" श्रीशान्तिनाथ चक्रवर्तिचरितम्" श्वरश्च चत्वारो वणिक्पुत्राः सवयसोऽभूवन् । अन्यदा चाऽर्थोपार्जनार्थ ते चत्वारोऽपि गृहीतपाथेयाः सम्भूय रत्नद्वीपं प्रत्यचलन् । महाटवीं प्रविश्य तत्प्रान्ते क्षीणप्रायपाथेयास्ते प्रतिमास्थितं मुनिं दृष्ट्वाऽस्मै किश्चित्प्रयच्छामीति चिन्तयित्वा द्रोणकनामानं पाथेयवाहकमूचुः-"भो भद्र ! द्रोण ! अस्मै महर्षये किश्चिदपि देहि" । ततस्तेभ्योऽप्यधिकश्रद्धया स तं मुनि प्रत्यलाभयत् । तेन च तेन भहाभोगफलं कर्मोपार्जितम् । तथा ते रत्नद्वीपं प्राप्य व्यवहृत्याऽर्थमुपायं पुननिर्ज नगरं समाजग्मुः। तेन पुण्यबीजेन च ते सर्वदापि ननन्दुः । तेषु धनेश्वर-धनपती मनाग मायापरौ। द्रोणकश्च सर्वतः शुद्धवृत्तिः। स च द्रोणक आयुःक्षये विपद्य दानप्रभावाद् हस्तिनापुरेशितुः पुत्रस्त्वमभूः । त्वयि गर्भस्थे जननी मुखे विशन्तं चन्द्रं दृष्टवतीति तव पितृभ्यां कुरुचन्द्रेति नाम कृतम् । सुधनो धनदश्च द्वावपि मृत्वा काम्पील्यनगरे कृत्तिकापुरे च क्रमाद्वणिक्सतौ वसन्तदेवकामपालनामानौ जातौ । धनपतिर्धनेश्वरश्च विपद्य शङ्खपुरे जयन्त्यां पुर्या च क्रमान्मदिराकेसरानाम्न्यौ वणिकपुन्यौ बभूवतुः । ते चत्वारोऽपि च क्रमेण वर्धमाना यौवनं प्रापुः । एकदा वसन्तदेवो व्यवहारार्थ जयन्त्यां पुर्या प्रयायाऽथ समुपाजयत् । अष्टमीचन्द्रोत्सवे च यदृच्छया रतिनन्दनमुद्यानं गतः केसरां ददर्श । तयाऽपि च स स्निग्धया दृशा ददृशे । एवं तयोः प्राग्जन्मभवः स्नेहः परस्परं प्रादुरासीत् । ततो वसन्तदेवः प्रियङ्करं नाम वणिक्पुत्रं केयं कस्य च सुतेति पप्रच्छ । सोऽवोचत्-"इयं श्रेष्ठिनः पञ्चनन्दिनः पुत्री जयन्तिदेवस्य स्वसा केसरा नाम । ततो वसन्तदेवो जयन्तिदेवेन सह सौहृदं विधाय मिथो गृहे गतागतं समारेभे । एकदा च जयन्तिदेवेन निमन्त्रितस्तद्गृहं गतो वसन्तदेवः EXXXXXXXXXXXXXXXXXXX ॥६६॥ Jan Educa madonal For Persons & Private Use Only belorary.org Page #101 -------------------------------------------------------------------------- ________________ ॥ ७॥ XXXXXXXXXXXXXXXXXXX कामदेवं पूजयन्ती केसरां सा च जयन्तिदेव हस्तात्पुष्पमाल्यं गृह्णन्तं वसन्तदेवं सानुरागं ददृशतुः। एतदनुकूलं शकुनमिति द्वयोरेव हर्षो जातः । धात्रीपुत्री प्रियङ्करा च द्वयोर्भावं लक्षितवती । जयन्तिदेवश्च वसन्तदेवस्य सातिशयं सत्कारमकरोत् । तदा च केसराप्रेरिता प्रियङ्कराऽपि ककोलादीन्यादाय मम स्वामिन्येतानीष्टदेवानि फलानि ते दत्तानीत्युक्त्वा दत्तवती । वसन्तदेवोऽपि चाऽस्या अहमभीष्ट इति हृष्टः सर्व स्वपाणिना जग्राह । एवं क्रमेण तयोः परस्परं स्नेहोऽवर्धत । अन्यदा च पश्चनन्दिगृहे मङ्गल्यतूर्य श्रुत्वा प्रेषितः स्वपुरुषैः कान्यकुब्जनिवासिने सुदत्तश्रेष्टिपुत्राय वरदत्ताय केसरा प्रदत्तेति वर्धापनकृते तूर्य वाद्यत इति ज्ञात्वा मूर्च्छया पतितः प्रियङ्करया समाश्वासितः-"केसरा त्वां सन्दिशति-यत्त्वया खेदो न कार्य, गुरवो मदभिप्रायाऽनभिज्ञाः । त्वमेव मम भर्ता भावी, अन्यथा मम मरणं ध्रुवम्" । ततो वसन्तः प्रीत ऊचे-"अस्माकमप्येषा प्रतिज्ञा-यत्केनाऽप्युपायेन केसरामुद्वहामि यममन्दिरं वा यामि"। ततः प्रातः केसरोद्वाहार्थं जन्ययात्रामागतां श्रुत्वा वसन्तदेवो नगरानहिरुद्यानं गत्वा केसराया अप्राप्ति निश्चित्य मुमूर्षरशोकतरुशाखायां स्वं पाशग्रन्थि गले दत्वोद्धबन्ध । तदानीमेव च निकुञ्जानिर्गत्य 'भो मा मा साहसं कापोंरि' ति जन्पन्नेकः पुरुषः समागत्य पाशग्रन्थिमच्छिदत् । वसन्तदेवदुःखं ज्ञात्वोवाच च-"विवेकिनः प्राणत्यागो न युज्यते, उपाया एवभीष्टप्राप्तये युज्यन्ते । अहमप्युपायाऽभावतोऽप्राप्याऽप्यभीष्टं वस्तु तन्निमित्तं जीवामि, यतो जीवन् नरो भद्रशतानि पश्यति कृत्तिकापुरवास्तव्यः। कामपालनामाऽहम् । देशान्तरदिदृक्षया निर्गतश्च शङ्खपुरं प्राप्य शङ्खपालयक्षोत्सवमीक्षितुमुद्यानं गतस्तत्र चूतनिकुञ्ज शुभदर्शनां कन्यकामेकामपश्यम् । तयाऽपि चाऽहं साऽनुरागं दृष्टः । KXXXXXXXXXXXXXXXXXXXXXXXX ॥ ७॥ Jain Educati national For Personal & Private Use Only Matinelibrary.org Page #102 -------------------------------------------------------------------------- ________________ "पश्चमः चक्कवट्टिस्स कहा" ॥१८॥ XXXKAKNEKXXXXXXXXXXXXX यावत्सा सखीहस्तेन ताम्बूलं ददाति, तावदालानमुन्मूल्य त्रोटितशृङ्खल एको गजः प्रससार । हस्तिपकानवगणयंश्च । स गजः क्षणाच्चूतनिकुञ्जमाससाद। भीतश्च तस्याः कन्यकायाः सर्वः परिच्छदः पलायिष्ट । सा च वेपमाना पलायितुमक्षमा तत्रैव तस्थौ । यावच्च स गजस्ता करेण गृह्णाति, तावन्मया लकुटेन स पुच्छाग्रे निहतस्ता मुक्त्वाऽवलिष्ट । श्रीशान्ति नाथ अहं च तं गजं वश्चयित्वा तां चाऽऽदायाऽन्यतो गत्वैकस्मिन् निरुपद्रवे प्रदेशेऽतिष्ठिपम् । सा च मां हृदयान्नैव मुमोच । चक्रवर्तिततस्तत्राऽऽगतस्तस्याः परिजनो मदिरां त्राता ज्ञात्वा मामवणयत् । पुनश्च सा मदिरा सखीभिश्चूतवने नीता । तत्र चाऽकस्मात्पवनेन समाकृष्टाः करिशीकराः समापतन् । ततश्च सर्वेऽपि भीताः पुनर्दिशो दिशं पलायिताः। सा च चरितम्" मदिरा व गतेत्यजानानोऽहं तदिदृक्षया पर्यटम् । तां चिरेणाऽप्यदृष्ट्वा शून्यमना इहाऽऽगमम् । न म्रिये, निरुपायोऽपि जीवामि, मां पश्य । केसरायास्तु सम्प्राप्त्युपायोऽप्यस्ति, तद्वच्मि, अज्ञानेन मा मृथाः । प्रातर्विवाह इत्यतः सैकाकिन्येव रतिसमन्वितं कामदेवं पूजयिष्यति । एष कन्पोऽस्ति । ततो गुप्तमेवाऽऽवां स्मरदेवकुलाऽन्तः प्रविश्य निभृतं तिष्ठावः । तत्र तस्यां प्रविष्टायां चाऽहं तद्वेषं गृहीत्वा सेव तद्ग्रहं तत्परिच्छदं मोहयन् यास्यामि । ततो मयि दूरं गते सति तामादाय त्वमन्यतो गच्छेः । एवमखण्डिता तवेच्छा सेत्स्यति । तेन वचसा मुदितो वसन्तोऽब्रवीत् “ममात्र योगः क्षेमं च, किन्तु तब विपदं पश्यामि' । तदानीमेव वृद्धब्राह्मण्या क्षुतं कृतम् । ततः कामपाल ऊचे-"ममेह न व्यसनम्, किन्तु त्वत्कार्ये प्रसक्तस्य लाभ एव" । अस्मिन्नेवाऽवसरे वृद्धेन ब्राह्मणेनैवमेतनात्र संशय इति हृष्टचेतसोचे । ततो बसन्तदेवः शकुनग्रन्थि निवध्य तद्वचश्च प्रपद्य तेन मित्रेण सह पुरीमविशत् । तत्राऽशनादि कृत्वा ॥ ८॥ EKXXXXXXXXXX XXXX Jain Educ Mahelibrary.org a For Persona & Private Use Only tional Page #103 -------------------------------------------------------------------------- ________________ 188x EXXXXXXXXXXXXXXXXXXXXXXXX तो सायं स्मरमन्दिरं गत्वा स्मरपृष्ठतस्तस्थतुः। साऽपि च केसरा स्मरणमात्रेण प्रेयःसमागमं नाम साध्यमन्त्रं स्मरन्ती तत्राऽऽययौ । याप्ययानादुत्तीर्य च प्रियङ्कराकरात्पूजासामग्रीमुपादायकाकिनी स्मरमन्दिरं प्रविश्य निजपाणिना तवारं पिधाय भृतले पत्रपुष्पादि निवेद्य काममुद्दिश्याब्रवीत-"देव ! त्वं सर्वेषां चित्ते भवसि, तेन सर्वेषां भावं जानासि । तत्किमनभीष्टेन पत्या मां वलानियोजयसि, विना वसन्तदेवं मे मनोऽन्यत्र न रमते । अन्यः पति मम मरणायैव । तजन्मान्तरेऽपि वसन्तदेवो मम भर्ता भूयात् । सुचिरं नमस्कृतोऽसि, अयं चाऽन्तिमो नमस्कारो मम।" एवमुक्त्वा सा तोरणे यावदात्मानमुद्रवन्ध, तावद्वसन्तो धावित्वा पाशग्रथिममोचयत् । कुतोऽयमिति साश्चर्या सब्रीडा सभया च सा वसन्तदेवमृचे-"असावहं तव प्रियो वसन्तदेवोऽस्मि, यं कामात्परलोकेऽपि पति याचसे। निष्कारणमित्रस्याऽमुष्य बुद्धयाऽत्र त्वां जिहीर्ष गुप्तं प्रविष्टोऽस्मि । तत्स्वं नेपथ्यमर्पयस्व, येन त्वद्वेषधरोऽसौ परिजनं मोहयंस्त्वद्वेश्म गच्छति, अस्मिश्च किय गते आवामभिप्रेतं देशान्तरं यास्यावः" । तेनेत्थमुक्ता सा निजनेपथ्यं कामपालायाऽऽर्पयत् । कामपालश्च केसरावेषं विधाय मन्दिरानिर्गत्य प्रियङ्करामवलम्ब्य याप्ययानमारुह्य परिजनरलक्षितः पश्चनन्दिगृहं ययौ । तथा प्रियङ्करया यानादवतार्य वधूगृहमानाय्य स्वर्णवेत्रासने उपावेश्यत । तथा "केसरे ! प्रियसमागमं मन्त्रं स्मरन्ती तिष्ठे" त्युदित्वा सा प्रियङ्करा गेहान्निर्जगाम । सोऽपि च कामपालस्तथाऽतिष्ठत् । केसरामातुलसुता शङ्खपुरवास्तव्या मदिरा चाऽपि जन्ययात्रानिमन्त्रिता तत्राऽऽगता तस्य पुरत उपविश्य किञ्चिनिःश्वस्याऽब्रवीत् "केसरे ! किं सखेदाऽसि ?, दैवाऽधीना मनोरथसिद्धिः। शङ्खपुरे स्थिताऽपि वसन्तदेवेन सह ते सङ्गमोऽभीष्ट इत्य RE Jan Educat For Persona & Private Use Only orary.org Page #104 -------------------------------------------------------------------------- ________________ X“पश्चमः । चक्कवट्टिस्सा श्रीशान्ति कहा" नाथ ॥१०॥ चक्रवतिचरितम्" XXXXXXXXXXXXXXXXXXXXXXX श्रौषम् । अहमपि प्रियविरहवेदना जानामि, तेन त्वां समाश्वासयितं वच्मि । दैवं य दर्ता जानामि. तेन त्वां समाश्वासयितं वच्मि । देवं यथा प्रतिकलं करोति तथाऽनुकूलमपि करिष्यति । त्वं तु धन्याऽसि, यस्याः प्रेयसा समं दर्शनाऽऽलापादीनि मुहुर्मुहुरभूवन् । मम तु दारुणो वृत्तान्तः श्रृयताम् । शङ्खपालोत्सवे गताऽहमशोकतरोस्तले कामाकृतियुवानं दृष्ट्वा सखीहस्तेन तस्मै ताम्बूलं प्रैषयम् । तेन च मत्तगजाद्रक्षिताऽस्मि । पुनश्च गजभयात्रस्ताऽऽहं ससखीजना भूयोऽपि तमन्वेषयन्ती नाऽपश्यम् । तदा प्रभृति निर्विण्णा कथञ्चिज्जीवामि । किन्वद्य तं स्वप्नेऽद्राक्षम् । दैवप्रसादेन स प्रत्यक्षोऽपि भविष्यति । तद् दुःखं लघूकत्त तद्रहस्यं कथयामि । तत्खेदेनाऽलम् । देवेऽनुकूले सति प्रियसमागमो भविष्यति, धैर्य धेहि" । ततः कामपालो नीरङ्गीमपसार्याऽवोचत्-"त्वया यक्षोत्सवे दृष्टपूर्व एष ते प्रियोऽस्मि, दैवाऽनुकूल्यादधुनैवाऽऽत्रयोरिव वसन्तदेवकेसरयोरपि सङ्गमोऽभूत् । सम्प्रत्यालापेनाऽलम् । भयं त्यज, किश्चिनिर्गमनद्वारं दर्शय" । एवमुक्त्वा स गृहोद्याने पश्चिमद्वारमार्गेण मदिरादर्शितेन मदिरया समं निरगात् । पूर्वमस्मिन् पुरे आयातयो वसन्तदेवकेसरयोः सप्रियः कामपालः संयुयुजे । राजन् ! तौ पूर्वस्नेहेनाऽद्भुतपञ्चवस्तुढौकनं ते विदधाते, तज्जानीहि । तदमीभिरिष्टैस्तद्भोक्तुमीशिषे । इयकालं चाऽमूनभीष्टानजाननाऽभुक्त्था" । एवं प्रभोवचः श्रुत्वा नृपस्य तेषां च तत्क्षणं जातिस्मरणमुत्पेदे। ततः कुरुचन्द्रो नृपो भगवन्तं नत्वा स्नेहात्सोदरानिव तानि त । देवा अपि प्रभं नत्वा निजनिजं स्थानं ययुः। भगवांश्चाऽपि ततः स्थानादन्यत्र विजहार। तदानीं च भगवतः परिवारे-श्रमणानां द्वापष्टिः सहस्राणि, साध्वीनामेकषष्टिः सहस्राः षट् शतानि च, चतु KXEXXXXXXXXXXXXXXXXXX ॥१०॥ Jain Educa l ernational For Personal & Private Use Only D inelibrary.org Page #105 -------------------------------------------------------------------------- ________________ ॥१०॥ KXXXXXXXXXXXXXXXXXXXXXXXX देशपूर्वभृतामष्टौ शतानि, अवधिज्ञानिनां सहस्रत्रितयम् , मनःपर्ययिणां चत्वारि सहस्राणि, केवलिना त्रिचत्वारिंशच्छतानि, जातवैक्रियलब्धीनां षट्सहस्राणि, वादलब्धिमतां सचतुःशते द्वे सहस्र, श्रावकाणामुभे लक्षे नवतिः सहस्राणि च, श्राविकाणां त्रिलक्षी त्रिनवतिसहस्री च केवलादारम्यैकाब्दोनपश्चविंशतिवर्षसहस्राणि विहरमाणस्याऽभूवन ।। ____ अथ निर्वाणकालं ज्ञात्वा सम्मेताद्रिमुपेत्य मुनीनां नवभिः शतैः सार्धमनशनं प्रपद्य मासान्ते ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे चन्द्रे तै मुनिभिः समं श्रीशान्तिप्रभुर्मोक्षं जगाम । तदेवं प्रभोः कौमारे मण्डलिकत्वे चक्रित्वे व्रते च प्रत्येकं लक्षचतुर्थाशमिति वर्षाणां लक्षमायुः । श्रीधर्मनाथनिर्वाणाच्च पादोनपल्यन्यूनेषु त्रिषु सागरोपमेष्वतीतेषु श्रीशा. न्तिस्वामिनि तिरभूत् । सुरैश्चाऽऽगत्य श्रीशान्तिजिनस्य मोक्षमहिमानं चक्रे । चक्रायुधो गणधरश्चापि कालेन केवलमाप्य सुचिरं महीं विहृत्य कोटिशिलाख्ये तीर्थेऽनशनं प्रपद्य प्रभूतै मुनिभिः समं शिवमगात् ॥ ५॥ सप्तदशमजिन एवं षष्ठम चक्रवर्ति कुन्युनाथ चरितम् हस्तिनागपुरे मरराज्ञः श्रीदेवी भार्या । तस्या कुक्षौ भगवान् पुत्रत्वेनोत्पन्नः जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो दृष्टः । गर्भस्थे च भगवति पित्रा शत्रवः कुन्थुवद् दृष्ट्वा इति कुन्थुनाम कृतम् । पित्रा प्राप्तयौवनश्चायं विवाहितो राजकुमारिकाभिः। काले च भगवन्तं राज्ये व्यवस्थाप्य सूरराजा स्वयं दीक्षा जग्राह । भगवांश्चोत्पन्नचक्ररत्नप्रसाधितभरतश्चक्रवर्तिभोगान् बुभुजे। तीर्थप्रवर्त्तमानसमये च निष्क्राम्य षोडश वर्षाणि चोग्र KXXXXXXXXXXXXXXXXXXXXX 2॥१०॥ Jain Educat i onal For Personal & Private Use Only Titlelibrary.org Page #106 -------------------------------------------------------------------------- ________________ "सप्तमम् अरनाथ चक्रवर्ति चरितम" विहारेण विहृत्य केवलज्ञानभाग जातः । देवाश्च समवसरणमकार्षः । प्रजिताः केवलपर्यायेण घना लोकाः। घनकालं "श्री विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत् । तस्य भगवतः कुमारत्वे त्रयोविंशतिवषसहस्राणि, माण्डलिकत्वे च त्रयोचक्कवट्टिस्स विंशतिवर्षसहस्राणि चक्रित्वे त्रयोविंशतिवर्षसहस्राणि, श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि च सप्तशतानि वर्षाण्यभवन् । सर्वायुर्द्विनवतिवर्षसहस्राणि साधेसप्तशतानि चास्य बभूव । इति श्रीकुन्थुनाथदृष्टान्तः ॥६॥ ॥१०२॥ श्री अरनाथ सप्तम चक्रवर्ति चरितम् । प्राग्विदेहविभूषणे मङ्गलावतीविजये रत्नसंचया पुर्यस्ति । तत्र महीपालनाम भूपालोऽस्ति । प्राज्यं राज्यं भुङ्क्ते । अन्यदा गुरुमुखाद्धर्म श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षा ललौ । गुर्वन्तिके एकादशाङ्गा* न्यधीत्य गीतार्थो बभूव । बहुवत्सरकोटीः स संयममाराध्य विशुद्धविंशतिस्थानकैरहन्नामकर्म बबन्ध । ततो मृत्वा * सर्वार्थसिद्धविमाने देवो बभूव । ततश्च्युत्वेह भरतक्षेत्रे हस्तिनापुरे सुदर्शननामा नृपो बभूव । तस्य राज्ञी देवीनाम्नी बभूव । तस्याः कुक्षौ सोऽवततार । तदानीं रेवतीनक्षत्रं बभूव, तया चतुर्दश स्वप्ना दृष्टाः। ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव । जन्मोत्सवस्तदा षट्पञ्चाशदिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रनिर्मितः। ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सव विशेषाच्चकार । अस्मिन् गर्भवते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः। ततः पित्रास्यार इति नाम कृतम् । देवपरिवृतः स वयसा गुणैश्च वर्धते स्म । एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पित्रा राज्यं दत्तम् । XXXXXXXX ॥१०॥ Jain Educati o n For Persons & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ ॥१०३॥ XXXXXXXXXXX एकविंशतिवर्षसहस्राणि यावद्राज्यं भुक्तवतस्तस्य शास्त्रकोशे चक्ररत्नं समुत्पन्नम् । ततो भरतं साध्यैकविंशतिसहस्रवर्षाणि यावच्चक्रवर्तित्वं बुभुजे। ततः स्वामी स्वयंबुद्धोऽपि लोकान्तिकदेवबोधितो वार्षिकं दानं दत्वा चतुःषष्टिसुरेन्द्रसेवितो वैजयंत्याख्यां शिविकामारूढः सहस्राम्रवने सहस्रराजभिः समं प्रव्रजितः। ततश्चतुर्ज्ञान्यसौ त्रीणि वर्षाणि छामस्थ्ये | विहृत्य पुनः सहस्राम्रवने प्राप्तः । तत्र शुक्लध्यानेन ध्वस्तपापकर्मारः केवलज्ञानं प्राप । ततः सुरैः समवसरणे कृते स्वामी योजनगामिना शब्देन देशनां चकार। तद्देशनां श्रुत्वा केऽपि सुश्रावका जाताः, केऽपि च प्रव्रजिताः । तदानीं कुम्भभूपः प्रव्रज्य प्रथमो गणधरो जातः । अरनाथस्य षष्टिसहस्राः साधवो जाताः। साध्व्यः स्वामिनस्तावत्प्रमाणा एव जाता। श्रावकाश्चतुरशीतिसहस्राधिकलक्षमाना बभूवः । श्राविकाश्चतुरशीतिसहस्राधिकलक्षत्रयमाना बभूवुः । सर्वायुः चतुरशीतिसहस्रवर्षाणि भुक्त्वा सम्मेतशैलशिखरे मासिकानशनेन भगवानिवृत्तः। देवनिर्वाणोत्सवो भृशं कृतः । इत्यरचक्रवर्तिदृष्टान्तः ॥ ६॥ अष्टम चक्रवर्ति सुभूम चरितम् । ___तयोर्लिख्यते-सुधर्माभिधाने देवलोके द्वौ मित्रदेवौ, एको नाम्ना विश्वानरो द्वितीयो धन्वंतरिश्व. पूर्वो जैनो द्वितीयश्च तापसभक्तः, तयोः परस्परं धर्मवातां कुर्वतोः स्वस्वधर्मव्याख्याने क्रियमाणे धर्मपरीक्षार्थ तौ मृत्युलोकमागतो. तदवसरे मिथिलायाः स्वामी पद्मरथो राजा राज्यं विहाय श्रीवासुपूज्यमुनिचरणांतिके चारित्रं गृहीतुं गच्छति. तं नविनभावचारित्रिणं विलोक्य जैनदेवो बभाषे, प्रथमत एतस्य परीक्षा क्रियते, पश्चात्त्वदीयतापसानां परीक्षा EXIXXXXXXXXXXXXXXXXXXXXXXXI ॥१०३। Jain Educatio n al For Personal & Private Use Only Sarary.org Page #108 -------------------------------------------------------------------------- ________________ "श्री कट्टिस कहा " ॥१०४॥ करिष्यावः पश्चाद्भावचारित्रियो भिक्षार्थमटतस्तस्याऽनेका रसवत्यस्ताभ्यां दर्शिताः परं स भावसाधुः सत्वान्न चलितः, पश्चाद् द्वितीयवीथ्यामार्गे गच्छतस्तस्य साधोः पुरतो मार्गे निरंतरा मंडूक्यो विकुर्विताः, पचालन भूमौ च तीक्ष्णाः कण्टका विकुर्विताः, तदा पद्मरथो भावमुनिर्मण्डुकी मार्ग त्यक्त्वा कण्टकभूमौ चलितः, कंटकाश्चरणे विध्यति, ततो रुधिरधारा निपतति, महावेदनां स प्राप्नोति परं न मनागपि खेदभागभूत्, ईर्यासमित्वा चलन् लवलेशतोऽपि स न चुक्षोभ. ततस्तृतीयवारं नैमित्तिकीभूय करौ मुकुलीकृत्य विनयपूर्वकं देवो वदतिस्म. भगवन् यूयं दीक्षां गृहीतुं गच्छथ, परमहं निमित्त बलेन जानामि यद्भवतामायुरद्यापि भूरि वर्त्तते, यौवनं वयच, ततोऽधुना राज्यस्थित विविधान् भोगान् भुंक्ष्व १ वृद्धत्वे चारित्रग्रहणं वरं व पुनरिमे सरसा विषयस्वादाः १ क्व पुनर्वालुकाकालव द्विरसोयं योगमार्गः ९ भवता नोक्तं भव्यं यदि प्रचुरं ममायुस्तदा बहून् दिवसान् यावदहं चारित्रं पालयिष्यामि, महान् मे लाभ. अथ च यौवने एव धर्मोद्यमो विधेयः, यदुक्तमागमेऽपि — जरा जाव न पीडेइ । वाही जाव न बढइ || जादियान हायंति । तव सेयं समायरे ॥ १ ॥ जराग्रस्तस्य कवधर्मकरणोद्यमः ९ इन्द्रियाणा हीनबलत्वात्. यदुक्तं -- दंतैरुत्पलितं धिया तरलितं पाण्यंहिणा कम्पितं । दृग्भ्यां कुद्मलितं बलेन लुलितं रूपश्रिया प्रोषितं ॥ प्राप्तायां यमभूपतेरिह महाघाट्यां जरायामियं । तृष्णा केवलमेकमेव सुभटी हृत्पत्तने नृत्यति ॥ १ ॥ इत्यादि तस्य दृढतां विलोक्य देवौ दृष्टौ तत्प्रशंसां कर्त्तुं लग्नौ पञ्चाज्जैन देवेनोक्तं दृष्टं जैनानां स्वरूपम् ? अधुना तापसपरीक्षां कुर्वः, इत्युक्त्वा चलितौ, वनै गतौ, तत्रैको जीर्णो जटाधारी तीव्र तपस्तप्यन् ध्यानाधिरूढो यमदग्निनामा तापसो Jain Educationmational For Personal & Private Use Only " अष्टमम् सुभूम चक्रवर्ति चरितम्" ॥१०४॥ ahelibrary.org Page #109 -------------------------------------------------------------------------- ________________ ॥१०॥ XXXXXXX KXEXXXXXXXXXXXXXXXXXXXXX दृष्टः, तत्परीक्षायै चटकचटकिकयोः स्वरूपं कृत्वा तत्श्मश्रुणि कुलायं बद्ध्वा तौ स्थिती. तत्र स्थितश्चटको मनुष्यभाषया प्रोवाच भो बाले त्वमत्र सुखं तिष्ट ? अहं हिमवत्पर्वते गत्वा समागच्छामि, तदा चटकिकयोक्तं भो प्राणेश्वर अहं त्वां गन्तुं न अनुमन्ये, यतो यूयं पुरुषा यत्र गच्छथ तत्रैव लुब्धा भवथ, यदि पश्चान्नागच्छथ तदा मम का गतिः? अहमबलैकाकिनी कथमत्र तिष्ठामि ? त्वद्वियोगः कथं मया सोढुं शक्यते ? तदाकर्ण्य चटकेनोक्तं हे बाले किमर्थं कदाग्रहं करोषि ? अहं सत्वरमेव समागमिष्यामि, यदि नागच्छामि, तदा मम ब्रह्मस्त्रीभ्रूणगोघातपातक, तदापक्षिण्योक्तमहमेनं शपथं नानुमन्ये, परं चेद्यदि यमदग्नितापसपातकं शिरसि गृह्णीयास्तदाज्ञां समर्पयामि तदा तेनोक्तं मैवं वद १ एतत्पापं कोऽङ्गीकरोति ? एतत् श्रुत्वा यमदग्निानाचलितः, क्रोधवशो भूत्वा चटकं चटकिकां च गृहीत्वा कथयतिस्म किमियन्मम पातकमस्ति ? चटकिकयोक्तं भो मुने त्वं क्रोधं मा कुरु ? भवतो धर्मशास्त्राण्यवलोकय ? यतः--अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च ।। तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्गे गच्छंति मानवाः॥१॥ इति ॥ । अतो अपुत्रिणो भवतः कथं शुभा गतिर्भाविनी ? ततस्तव पातकं महदित्युक्त्वा परीक्षा कृत्वा देवी स्वस्थानं गतो. मिथ्यागपि परमजैनो जातः, पश्चाद्यमदग्निरपि पक्षिणो मुखात् श्रुत्वा मनसि विचारयति, सत्यमेतत् , स्त्रीकरपीडनं कृत्वा पुत्रमुत्पादयामि तदा मम गतिर्भवति. इति संचित्य कोष्टकनगरपतिजितशत्रसमीपमागत्य तेन कन्या मार्गिता. राज्ञोक्तं मम पुत्रीणां शतं, तासां मध्ये या भवन्तमभिलपती तां गृहाण ? तदाकण्य सोडन्तःपुरमागतः, तत्र स्थिताभिः कन्यामिर्जटाजूटधारिण दुवलं मलमलीन गात्रं विपरीतरूपं यमदग्निमालोक्य धृत्कारः कृतः क्रोध XXXXXXXX ॥१०॥ Jain Educa t ional For Persona & Private Use Only keahelbrary.org Page #110 -------------------------------------------------------------------------- ________________ "अष्टमम् चक्कवाद्विस्स कहा" * सुभूम चक्रवर्तिचरितम्" ॥१०६॥ XXXXXXXXXXXXXXXX*:* वशेन तेन सर्वा अपि ताः कुब्जाकृतयः कृताः, स पश्चाद्वलितः, राजगृहाङ्गणे धुलिक्रीडां कुर्वत्येका राजपुत्री तेन दृष्टा, तस्या बीजपूरकं च दर्शितं, तद्गृहणाय तया करः प्रसारितः, तदा तेन राज्ञोऽग्रे निरूपितं यदियं मामभिलपतीति कथयित्वा गृहीता. पश्चाद्भीतेन राज्ञा सहस्रगवां गोकुलेन दासीवृन्देन च सहिता सा तस्मै दत्ता, तुष्टेन तेनाऽवशिष्टया तपःशक्त्या सर्वा अपि राजपुत्र्यः सजीकृताः, एवं सर्वमपि तपःक्षपयित्वा रेणुकां बालामादाय स वनमागतः, तत्र चाश्रमोटजानि विधाय स स्थितः. क्रमेण सा यौवनं प्राप्ता, परिणीता च. प्रथमर्नुकाले यमदग्निस्तस्यै कथयतिस्म, भो सुलोचने शृणु ? त्वदर्थमहं चरु मंत्रेणाभिमन्त्र्य समर्पयामि, येन तव चारुपुत्रो भवेत , ततो रेणुकयोक्तं भो स्वामिन् द्वौ चरू ममार्पय ? येनैकेन ब्राह्मणः पुत्रो भवेत् , एकेन च क्षत्रियः, क्षत्रियचरु हस्तिनागपुराधिपाऽनंतवीर्यनृपपरिणीतायाः स्वभगिन्या अनंगसेनाया अहं समर्पयिष्यामि. द्वितीयं चाहं भक्षयिष्यामि. एवं रेणुकायाः कथनेन तेन चरुद्वयं मन्त्रितं, स्वस्त्रियै च समर्पितं. पश्चाद्रेणुकया चिंतितं, मदीयः पुत्रः शूरो भवेत्तदा वरमिति विचार्य तया क्षत्रियचरुभक्षणं कृतं. द्वितीयो ब्राह्मणचरुरनगसेनायाः प्रेषितस्तया च भक्षितः, तस्याः पुत्रो जातः, तस्य च कीर्तिवीर्य इति नाम दत्तं. रेणुकायाः पुत्रस्य राम इति नाम दत्तं. यौवनमनुप्राप्तः, तदवसरे कश्चिदतीसाररोगपीडितो विद्याधरस्तदाश्रममागतः, रामेण तस्य प्रतिपत्तिः कृता, औषधप्रयोगेण तस्य स्वास्थ्यं कृतं. हृष्टेन विद्याधरेण रामाय परशुविद्या दत्ता, तेन च सा साधिता, ततस्तस्य परशुराम इति नाम प्रसिद्धं जातं. देवताधिष्ठितं कुठारायुधं गृहीत्वा स इतस्ततः परिभ्रमति केनाप्यजेयः, KXXXXXXXXXXXXXXXXXXXXXXX:* ॥१०६॥ Jain Educa t ional For Personal & Private Use Only polibrary.org Page #111 -------------------------------------------------------------------------- ________________ ॥१०७॥ एतदवसरे परशुरामजननी रेणुका हस्तिनागपुरे स्वभगिन्या मिलनार्थ गता, तत्र तस्याः स्वभगिनीपतिनाऽनन्तवीर्येण सार्द्ध संबन्धो जातः, रेणुकायाः कुक्षौ कोऽपि जीवो गर्भत्वेनोत्पन्नः, क्रमेण पुत्रो जातः, पश्चात्पुत्रवती रेणुका यमदग्निना स्वाश्रममानीता. परशुरामेण मातुश्चरित्रं ज्ञात्वा पुत्रवती जननी निधनं प्रापिता, इयं प्रवृत्तिरनंतवीर्येण राज्ञा ज्ञाता. तेन तत्रागत्य यमदग्नितापसो मारितः, परशुरामेण तत्र गत्वा परशुशक्त्या कीर्तिवीर्य हत्वा गजपुरराज्यं गृहीतं. तदवसरे कीर्तिवीर्यराज्ञ एका तारानाम्नी स्त्री चतुर्दशस्वप्नसुचितं गर्भ दधाना भत मरणसमये नष्टा वनमध्ये तापसोटजे समागता. सर्वमपि स्वस्वरूपं कथितं, दयाचित्तैस्तापसैः प्रच्छन्नं भूमिगृहे सा स्थापिता. क्रमेण तस्यास्तत्रैव पुत्रो जातः तस्य च सुभूम इति नाम दत्तं, क्रमेण स वद्धते. परशुरामेणापि क्षत्रियोपरि क्रोधं कृत्वा सप्तवारान् पुनः पुनः क्षत्रियरहिता पृथ्वी विहिता. मारितक्षत्रियाणां दंष्ट्रा एकीकृत्यैकं महत्स्थालं भृत्वा मुक्तं. एकदा भ्रमन् परशुरामस्तापसोटजमागतः, तत्परशुमध्याज्ज्वाला निःसृता, तदा परशुरामेण तापसानां पृष्टं, यूयं सत्यं वदत ? कोऽप्यत्रक्षत्रियो वर्तते १ यतो मदीयपरशुमध्यादंगारवर्षणं जायते. तदा तैरुक्तं वयमेव क्षत्रियाः तापसत्वान्मुक्ताः, एवं सर्वान क्षत्रियान्मारयित्वा स निष्कंटकं गजपुराधिपत्यं भुक्तेस्म. एकदा परशुरामेण कोऽपि नैमित्तिकः पृष्टः, मम मारकः को भविष्यतीति. नैमित्तिकेनोक्तं यं दृष्टा क्षत्रियदंष्ट्राः क्षरेयी भोजनं भविष्यति, तद्भोक्ता तब मारको भविष्यति. तत् श्रुत्वा परशुरामेण तदभिज्ञानार्थं दानशाला निर्मिता, तत्र च सिंहासने दंष्ट्रापूर्णस्थालं मुक्तं. तदवसरे वैताढ्यवासिना मेघनादविद्याधरेण नैमित्तिककथनतो भाविनं स्वपुत्रीवरं सुभृमं ज्ञात्वा, तत्रागत्य स्वपुत्री सुभूमाया *॥१०७ Jain Educati onal For Persone Private Use Only brary.org Page #112 -------------------------------------------------------------------------- ________________ "अष्टमम् चक्कवट्टिस कहा" सुभूम चक्रवर्ति ॥१०॥ चरितम्" XXXXXXXXXXXXXXXX र्पिता, स्वयं च सुभूमस्य सेवको भूत्वा तिष्ठति. एकवारं सुभूमेन स्वमातुः पृष्ठं, भोमातः कथय ? भूमिः किमेतावत्येवास्ति एतत्पुत्रवाक्यं श्रुत्वाऽश्रुधाराविललोचना सा गद्गदस्वरं तारा राज्ञी सर्वमपि पूर्वस्वरूपं कथयामास. भो पुत्र तब पितरं पितामहं च हत्वा, सर्वक्षत्रियाणां विनाशं कृत्वा आत्मीयं राज्यं परशुरामो भुक्ते. तद्भयेन नष्टौ तापसशरणमाश्रित्यस्थिनौ भूमिगृहवर्तिनी. स्वमातृमुखादेतदाकण्य सरोषः सुभूमो भूमिगहानिर्गतः, मेघनादसहितो गजपुरपरिसरे दानशालायामागतः, तावत्तदंष्ट्रास्थालं सुभूमदृष्टौ पतितं, औरेयीजाता. सुभूमो भक्षितुं लग्नः, तावत्तत्परशुरामेण ज्ञातं, सन्नद्धो भूत्वा ज्वलदंगारं परशुमादाय म बहिरागतः, सुभूमं दृष्टा तत्पुण्यप्राग्भारतो निस्तेजः परशुरामायुधं जातं, पश्चाद्भोजनानंतरमुत्थितेन सुभूमेन स्थालं परशुरामोपरि क्षिप्तं, तत्स्थालं च सहस्रदेवताधिष्ठितं चक्रं जातं तेन च चक्रेण परशुरामस्यशिरश्छिन्नं तदा तस्य चक्रवर्तिपदोदयो जातः, जयजयशब्दो जातः, देवैः पुष्पवृष्टिः कृता, क्षत्रियमारणवैरं स्मृत्वा तेनैकविंशतिवारान निर्ब्राह्मणा भूमिनिर्मिता. चक्रबलेन पटखंडानि निर्जित्य लोभाभिभूतः स परतो घातकीखंडस्थितभरतक्षेत्रसाधनाथं चलितः, तत्राष्टचत्वारिंशत्क्रोशविस्तृतचर्मरत्नोपरि स्वकटकं स्थापयित्वा लवणसमुद्रांतर्गच्छन् समकालं सहस्रसंख्यैरपि देवैमुक्तचर्मरत्नो दलसहितो जले निपत्य मृतः, पापकर्मयोगात्सप्तम्यां च गतः ॥ इति सुभूमचक्रिणः संवन्धः॥ XXXXXXXXXX ॥१०८॥ Jain Educati o nal For Personal & Private Use Only wwwhigalmelibrary.org Page #113 -------------------------------------------------------------------------- ________________ ॥१०६॥ **** **** श्रीनवम चक्रवर्ति महापद्म चरितम् इहैव जम्बूद्वीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरम् । तत्र श्री ऋषभवंशप्रभूतः पद्मोत्तरो नाम राजा । तस्य ज्वालानामहादेवी । तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रः । द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा । द्वापि वृद्धिं गतौ, महापद्मो युवराजा कृतः । इतवोज्जयिन्यां नगर्यो श्रीधर्मनामराजा, तस्य नमुचिनामा मन्त्री । अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुत्रतो नाम सूरिः समवसृतः । तद्द्वन्दनार्थ लोकः स्वविभूत्या निर्गतः, प्रासादोपरि स्थितेन राज्ञा दृष्टः । पृष्टाव सेवकाः, अकालयात्रया क्वायं लोको गच्छति १ ततो नमुचिमन्त्रिणा भणितम् - देव अत्रोद्याने श्रमणाः समागताः, तेषां यो भक्तो लोकः स तद्द्वन्दनार्थं गच्छति । राज्ञा भणितम्वयमपि यास्यामः । नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्यम्, यथाहं वादं कृत्वा तान्निरुत्तरीकरोमि । राजा नमुचिसहितस्तत्र गतः । नमुचिना भणितम् - भो श्रमणाः ! यदि यूयं जानीथ धर्मतत्त्वं तर्हि वदथ । सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा मौनेन स्थिताः । ततो नमुचिभृशं रुष्टः सूरिं प्रत्येवं भणित वान् एष बयल्लः (बलदः) किं जानाति १ ततः सूरिभिर्भणितं, भणामः किमपि यदिते मुखं खर्जति । इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितम्, भगवन्नहमेवैनं निराकरिष्यामि । इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः । रात्रौ च चरवृत्यैकाक्येव मुनिवधार्थमागतो देवतया स्तम्भितः । प्रभाते तदाश्रयं दृष्ट्टा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनापुरम्, महापद्मयुवराजस्य मंत्री जातः । इतश्च पर्वतवासी सिंहबली नाम राजा, स च कोट्टा 1 Jain Educatenational For Personal & Private Use Only ॥१०६॥ nelibrary.org Page #114 -------------------------------------------------------------------------- ________________ "श्री "नवमम् चकवाट्टिस्स महापा चक्रवर्तिचरितम्" ॥११॥ KXXXXXXXXXXXXXXXXXXXXXXX धिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति । ततो रुष्टेन महापद्मन नमुचिमंत्री पृष्टः, सिहबलराजग्रहणे किञ्चिदुपायं जानासि १ नमुचिनोक्तं सुष्टु जानामि । ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपायेन च दुर्ग भक्त्वासिंहवलो बद्ध आनीतश्च महापान्तिके । महापद्मेनोक्तं नमुचे ! यत्तवेष्टं तन्मार्गय ? नमुचिनोक्तं सांप्रतं वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि । एवं यौवराज्यं पालयतो महापद्मस्य कियान कालो गतः । अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः, अपरमात्रा च मिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो भणितश्च पद्मोतरो नाम राजा, यथेष ब्रह्मरथः प्रथम नगरमध्ये परिभ्रमतु | जिनरथश्च पश्चात्परिभ्रमतु । इदं वचः श्रुत्वा ज्वाला देव्या प्रतिज्ञा कृता, यदि जिनरथः प्रथमं न भ्रमिष्यति तदाऽपरजन्मनि ममाहारः। ततो राज्ञा द्वावपि रथौ निरुद्धौ । महापद्मः स्वजनन्याः परमामधति दृष्टा नगरान्निर्गतः केनापि न ज्ञातः। परदेशे गच्छन् महाटव्यां प्रविष्टः, तत्र च परिभ्रमंस्तापसालये गतः । तापसैदत्तसन्मानस्तत्र तिष्ठति । इतश्च चम्पायां नगर्या जनमेजयो राजा परिवसति । स च कालनरेन्द्रेण प्रतिरुद्धः, ततो महान् सङ्ग्रामो बभूव । जनमेजयो नष्टः, तस्यान्तः पुरमपीतस्ततो नष्टम् जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुच्या समं नष्टा, आगता तं तापसाश्रमम् , समाश्वासिता कुलपतिना तत्रैव स्थिता । कुमारमदनावल्योः परस्परमनुरागो ज्ञातः । कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किन स्मरसि नैमित्तिकवचनं १ यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि । ततः कथं यत्र तत्रानरागं करोषि ! कुलपतिनापि कुमारस्य विसर्जनार्थमु *:XXXXXXXXXXXXXXXXXXXXXXXX ॥११०॥ Jain Educa Ternational For Personal & Private Use Only Malinelibrary.org Page #115 -------------------------------------------------------------------------- ________________ ॥११॥ XXXXXXXXXXXXXXXXXXX XXXXXXXXX कुमार ! त्वमितो गच्छ ? तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथं चकार । यथाहमेतस्याः सङ्गमेन भरताधिपो भूत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति । भ्रमन कुमारोऽथ प्राप्तः सिन्धुनन्दनं नाम नगरम् । त्रयोद्यानिकामहोत्सवे नगरानिर्गता नरनार्यश्च विविधक्रीडाभिः क्रीडन्ति । अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तम्भमुन्मूल्य गृहहभित्तिभङ्ग कुर्वन्नगराबहिर्यवतीजनमध्ये समायातः । ताश्च तं तथाविधं दृष्टा दरतः प्रधावितुमसमर्थास्तत्रैवस्थिताः यावदसौ तासामुपरि शुण्डापातं करोति, तावता दूरदेशस्थितेन महापद्मन करुणापूर्णहृदयेन हक्तितोऽसौ करी, सोऽपि वेगेन चलित कुमाराभिमुखम् । तदानीं ताः सर्वा अपि भणन्ति । हाहा! अस्मद्रक्षणार्थ प्रवृत्तोऽयं करिणा हिंस्यते । एवं तासु प्रलपन्तीषु च तयोः करिकुमारयोोरः सङ्ग्रामो बभूव । सर्वेऽपि नागरजनास्तत्रायाताः। सामन्तभृत्यसहितो महासेनो राजापि तत्रायातः । भणितं च नरेन्द्रेण कुमार ! अनेन समं सङ्ग्राम मा कुरु ? कृतान्त इव च रुष्टोऽसौ तव विनाशं करिष्यतीति । महापद्म उवाच, राजन् । विश्वस्तो भव ? पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकरिणं स्वकलया वशीकृतवान् । आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नीतवान् । साधुकारेण तं लोकः पूजितवान् , यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति । अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति १ ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वकं कन्याशतं दत्तम् । तेन समं विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यान्ति । तथापि स ता मदनावली हृदयान्न विस्मारयति । अन्यदा रजन्यां शय्यातोऽसौ वेगवत्या विद्याधर्यापहृतः, निन्द्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमारेण भणिता, किं KXXXXXXXXXXX ॥११॥ Jain Educatio r ational For Personal & Private Use Only Pealhelibrary.org Page #116 -------------------------------------------------------------------------- ________________ "श्री कट्टिस कहा " ॥ ११२ ॥ ****** त्वमेवं मामपहरसि ? तया भणितं कुमार ! शृणु । वैताढये सुरोदयनाम नगरमस्ति । तत्रेन्द्रधनुर्नाम विद्याधराधिपतिरस्ति । तस्य भार्या श्रीकान्ता वर्तते तस्याः पुत्री जयचन्द्रानाम्नी वर्तते । सा च पुरुषद्वेषिणी नेच्छति कथमपि चरम् । ततो नरपत्याज्ञया मया सर्वत्र वरनरेन्द्रा विलोक्य विलोक्य पट्टिकायां लिखिताः सर्वेऽपि तस्या दर्शिताः, नकोsपि रुचितः अन्यदा मया तस्यास्तव रूपं दर्शितम् । तदर्शनानन्तरमेव सा कामावस्थया गृहीता, भणितं च तया यद्येष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यम्, अन्य पुरुषस्य मम यावज्जीवं निवृत्तिरेव । एष तस्या व्यतिकरो मया तन्मातृपित्रोर्ज्ञापितः । ताभ्यां त्वदानयनायाहं प्रयुक्ता । अविश्वसन्त्यास्तस्या विश्वासार्थ मयेयं प्रतिज्ञा कृता, यद्यहं त्वां त्वरितं नानयामि, तदा ज्वालाकुले ज्वलने प्रविशामि । ततः कुमार ! यदि तव प्रसादेन मम मरणं न सम्पद्यते, यथा च मे प्रतिज्ञानिर्वाहो भवति, तथा प्रसादं कुरु । ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः । खेचराधिपतिर्मिलितः, तेन च सुमुहूर्ते तस्याः पाणिग्रहणं कारितं पूजिता च वेगवती । इतश्च जयचन्द्राया मातुलभ्रातरौ गंगाधर महीधरनामानौ विद्याधरावतिप्रचण्डाषिमं व्यतिकरं ज्ञात्वा अनेकमटसहितौ महापद्मेन समं सङ्ग्रामार्थमागतौ । महापद्मोऽपि तयोरागमनं श्रुत्वा सरोदयपुराद्वहिविद्याधरभट परिवृतो निर्गतः, संप्रलग्नस्तयोः सङ्ग्रामः, तदानीं महापद्म ेन स्यन्दनाः, कुञ्जराः, अश्वाः, सुभटाः परवलसत्काः सर्वेऽपि बाणैर्विद्धाः, भग्नं स्व बलं दृष्ट्रा गङ्गाधरमहीधरौ स्वयमुत्थितौ, महापद्म नोभावपि हतौ । ततो लब्धजयः स महापत्र उत्पन्न स्त्रीरत्नवर्जसर्वरत्नः, प्राप्तनवनिधिर्द्वात्रिंशत्सहस्र मण्डलेश्वर सेवितपादपद्मः, परिणीतैकोन चतुःषष्टिसहस्रान्तः पुरो हयगजरथपदातिकोशसम्पन्नो नवम I For Personal & Private Use Only Jain Educaternational "नवमम् महापद्म चक्रवतिचरितम्” ॥११२॥ nelibrary.org Page #117 -------------------------------------------------------------------------- ________________ ॥११३॥ श्चक्रवर्ती जातः । तथापि षट् खण्डभरतराज्यं स मदनावल्या रहितं नीरसं मन्यते । अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य - महापद्मचक्रिणस्तापसैमहान् सत्कारः कृतः। जनमेजयेनापि राज्ञा मदनावली तस्मै दत्ता, तेन परिणीता स्त्रीरत्नं बभूव । ततो महापद्मश्चत्र द्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान् । ताभ्यामप्यधिकस्नेहेन प्रेक्षितः । अत्रान्तरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागमरिः, ततो निर्गतः सपरिवारः पद्मोत्तरराजा तं वंदित्वा पुरो निषण्णः । गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता । तां श्रुत्वा वैराग्यमापन्नो राजा गुरु प्रत्येवमुवाच-भगवनहं राज्यं स्वस्थं कृत्वा भवदन्तिके प्रव्रजिष्यामि । गुरुणा भणितं-मा विलम्ब कुर्विति, गुरु प्रणम्य नगरे प्रविष्टो राजा। आकारिता मन्त्रिणः प्रधानपरिजना विष्णकुमारश्च, सर्वेषामपि राज्ञैवमुक्तम् । भो भो! श्रुता भवद्भिः संसारासारता, अहमेतावत्कालं वश्चितः । यत् श्रामण्यं नानुष्ठितवान् । ततः साम्प्रतं विष्णकुमारं निजराज्येऽभिषिच्य प्रव्रज्यां गृह्णामि । ततो विष्णुकुमारेण विज्ञप्तम् , तात ! ममापि किम्पाकोपमै गैः सृतम् , तव मार्ग मेवानुसरिष्यामि। ततो विष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराज्ञा महापद्म आकारितो भणितश्च-पुत्र ! ममेदं राज्यं प्रतिपद्यस्व । विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः । अथ विनीतेन महापद्मन च भणितम् । तात ! निजराज्याभिषेक विष्णुकुमारस्यैव कुरु । अहं पुनरेतस्यैवाज्ञाप्रतीक्षको भविष्यामि। राज्ञा भणितं-वत्स ! मयोक्तोऽप्ययं राज्यं न प्रतिपद्यते । अवश्यमयं मया समं प्रवजिष्यति। ततः शोभनदिवसे महापद्मस्य कृतो राज्याभिषेकः । विष्णुकुमार XXXXXX EXXXXXXXXXXXXXXXXXX ॥११३॥ For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ "नवमम् "श्री चक्कपट्टिस्सा कहा" XXXXXXXXXXX महापन चक्रवतिचरितम् ॥११४|| ※※※※※※※※※※※※※※※※※※ सहितः पद्मोत्तरराजा सुव्रतमूरिसमीपे प्रव्रजितः । ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः । स्वमात्रपरमातृकारितौ द्वावपि रथौ तथैव स्तः । महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः, तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः। तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि पद्मोत्तरमुनिरपि पालितनिष्कलङ्कश्रामण्यः शुद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पन्न केवलज्ञानः सम्प्राप्तः सिद्धिमिति । विष्णुकुमारमुनेरप्युग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवक्रियलन्धय उत्पन्नाः । स कदाचिन्मेरुवत्तंगदेहो गगने व्रजति, कदाचिन्मदनवद्रपवान् भवति । एवं नानाविधलब्धिपात्रः स सञ्जातः । इतश्चः ते सुव्रताचार्या बहुशिष्यपरिवृता वर्षारात्रस्थित्यर्थ हस्तिनागपुरोद्याने समायाताः, ज्ञाताश्च तेन विरूद्धेन नमुचिना, अवसरं ज्ञात्वा तेन राज्ञे विज्ञप्तम् । यथा पूर्वप्रतिपन्न मम वरं देहि १ चक्रिणोक्तं यथेष्टं मार्गय १ नमुचिना भणितं राजन्नहं वेदभणितेन विधिना यज्ञं कर्तमिच्छामि, अतो राज्यं मे देहि । चक्रिणा नमुचिः स्वराज्येऽभिषिक्तः, स्वयं चान्तःपुरे प्रविश्य स्थितः। नमुचिर्यज्ञापाटकमागम्य यागनिमित्तं दीक्षितो बभूव । राज्येऽभिषिक्तस्य तस्य वर्धापनार्थ जैनयतीन् वर्जयित्वा सर्वेऽपि लिङ्गिनो लोकाश्च समायाताः। नमुचिना सर्वलोकसमक्षमुक्तम् , सर्वेऽपि लोका मम वर्धापनार्थ समायाताः, जैनयतयः केऽपि नायाताः। एवं बलं प्रकाश्य सुव्रताचार्या आकारिता आगताः। नमुचिना भणिता-भो जैनाचार्याः ! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्राप्नोति, स तदा पाखण्डिभिरागत्य दृष्टव्यः। इयं लोकस्थितिः, यतो राजरक्षितानि तपोधनानि भवन्ति । KXXXXXX ॥११४॥ XXXXX Jain Educa t ional For Personal & Private Use Only Malelibrary.org Page #119 -------------------------------------------------------------------------- ________________ ॥११॥ यूयं पुनः स्तब्धाः सर्वपाखण्डा दृषका निर्मर्यादा मां निन्दथ, अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजत । यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे वध्यो भविष्यति । सुव्रताचार्यरुक्तं राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वद्वर्धापनकृते नायाताः, न च वयं किंचिनिन्दामः, किं तु समभावास्तिष्ठामः । ततः स रुष्टः प्रतिभणति यदि श्रमणं सप्तदिनोपर्यहं द्रक्ष्यामि तमहमवश्यं मारयिष्यामि, नात्र सन्देहः। एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः, सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तत एकेन साधुना भणितम् , यथा सदा सेविततपोविशेषो विष्णकुमारनामा महामुनिः साम्प्रतं मेरुपर्वतचूलास्थो वर्तते । स च महापद्मचक्रिणो भ्रातास्ति, ततस्तद्वचनादयमुपशमिष्यति । आचार्यरुक्तं तदाकारणार्थ यो विद्यालब्धिसंपन्नः स तत्र व्रजतु । __तत एकेन साधुनोक्तमहं मेरुचूला यावद्गगने गन्तुं शक्तोऽस्मि । पुनः प्रत्यागन्तुं न शक्तोऽस्मि । गुरुणा भणितं विष्णकुमार एव त्वामिहानेष्यति । तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः, क्षणमात्रेण मेरुचूलायां प्राप्तः । तमायन्तं दृष्ट्वा विष्णुकुमारेण चिन्तितं किंचिद्गुरुकं संघकार्यमुत्पन्नम् , यदयं मुनिवर्षाकालमध्येऽत्रायातः । ततः स मुनिर्विष्णकुमारं प्रणम्यागमनप्रयोजनं कथितवान् । विष्णकुमारस्तं मनिं गृहीत्वा स्तोकवेलयाऽऽकाशमार्गेण गजपुरे प्राप्तः, वन्दितास्ते गुरवः, गुर्वाज्ञया साधुसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः सर्वैः सामन्तादिभिर्वन्दितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग विनयं चकार । विष्णुना धर्मकथनपूर्व नमुचेरेवं भणितम् , वर्षाकालं यावन्मुनयोऽत्र तिष्ठन्तु । नमुचिना भणितम् , किमत्र पुनः पुनवेचनप्रयासेन ? पञ्चदिवसान् यावन्मुन XXXXXXXXXXXXXXXXXXXXXXXXX ॥१११ Jain Educatolational For Personal & Private Use Only Relibrary.org Page #120 -------------------------------------------------------------------------- ________________ "श्री "नवमम् चकवादिस कहा" ॥११६॥ महापद्म चक्रवतिचरितम्" EXXXXXXXXXXXXXXXXXXXXXXX योऽत्र तिष्ठन्तु, विष्णुना भणितं तवोद्याने मुनयस्तिष्ठन्तु । ततः सञ्जातामर्षेण नमुचिनैवं भणितम्-सर्वपाखण्डवामै-- भवद्भिर्न मद्राज्ये स्थेयम् , मद्राज्यं त्वरितं त्यजन्तु ? यदि जीवितेन कार्यम् । ततः समुत्पन्नकोपानलेन विष्णुना भणितम्तथापि त्रयाणां पादानां स्थानं देहि । ततो भणितं नसुचिना, दत्तं त्रिपदीस्थानम्, परं यं त्रिपद्या बहि क्ष्यामि तस्य शिरश्छेदं करिष्यामि । ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धि गच्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः । क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीणां भूमिमकम्पयत , शिखराणि पातयति स्म । त्रिभुवने क्षोभं कुर्वन् स मुनि शक्रेण ज्ञातः तस्य कोपोपशान्तये शक्रेण गायनदेव्यः प्रेषिताः । ताश्चेवं गायन्तिस्म___"सपर संतावो धम्मवणदावओ कुग्गइगमणहेउ कोवो ता ओवसमं करेसु भयवंति ॥" ( स्वपरसन्तापको धर्मवनदावकः कुगतिगमनहेतुः क्रोधस्तस्मात् उपशमं करोतु भगवन् ! इति ।) एवमादीनि गीतानि ता वारंवारं श्रावयन्ति स्म । स मुनिर्नमुचिं सिंहासनात्पृथिव्यां पातितवान् । दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयति स्म । ज्ञातवृर्त्तान्तो महापद्मश्चक्री तत्रायातः, तेन समस्तसंघेन सुरासुरैश्च शान्तिनिमित्तं विविधोपचारैः स उपशामितः । तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः। उपशान्तकोपः स मुनिरालोचितः प्रतिक्रान्तः शुद्धश्च । यत उक्तं EX:XXXXXXXXXXXXXXXXXXXXXX X॥११६॥ Jain Education ational For Personal & Private Use Only wwwerelibrary.org Page #121 -------------------------------------------------------------------------- ________________ ॥११७॥ 'आयरिए गच्छंमि, कुलगणसंघे अचेइअविणासे । आलोइयपडिक्कतो, सुद्धो जं निजरा विउला ॥१॥" प्राचार्ये गच्छे, कुलगणसङ्घ च चैत्यविनाशे, मालोचितप्रतिक्रान्त:, शुद्धो यत् निर्जरा विपुला ॥१॥ निष्कलङ्क श्रामण्यमनुपाल्य समुत्पन्नकेवलः स विष्णकुमारः सिद्धिं गतः। महापद्मचक्रव_पि क्रमेण दीक्षा गृहीत्वा सुगतिभागभूत् । इति महापद्मदृष्टान्तः । श्री दशम चक्रवर्ति हरिषेण चरितम् काम्पिल्ये नगरे महाहरिराज्ञो मेरादेव्याः कुक्षौ चतुर्दशस्वप्नसूचितो हरिषेणनामा चक्रवर्ती समुत्पन्नः । क्रमेण 8 यौवनं प्राप्तः पित्रा राज्ये स्थापितः । उत्पन्नानि चतुर्दश रत्नानि, प्रसाधितं च भरतम् , कृतपट्टाभिषेको हरिषेण उदा रान् भोगान् भुञ्जन् कालं गमयति । अन्यदा लघुकर्मतया भववासाद्विरक्तः स एवं चिन्तित प्रवृत्तः। पूर्वकृतसुकृतकर्मवशेन मयात्रेदशी ऋद्धिः प्राप्ता, पुनरपि परलोकहितं करोमि । उक्तं च-- ___"मासैरष्टभिरह्ना वा, पूर्वेण वयसा यथा । तत्कर्तव्यं मनुष्येण, यथान्ते सुखमेधते ॥१॥" एवमादि परिभाव्य पुत्रं राज्ये निवेश्य स निष्क्रान्तः, उत्पन्न केवलश्च सिद्धिं गतः। पञ्चदशधनुरुच्चत्वं दशवर्षसहस्रायुश्च सञ्जातमिति हरिषेणचक्रिदृष्टान्तः ।। KXEXXXXXXXXXXXXXXXXXXXXXXX ॥११॥ Jain Educati o nal For Personal & Private Use Only wwdewalibrary.org Page #122 -------------------------------------------------------------------------- ________________ "श्री चक्कवट्टिस्स कहा" ॥११८॥ ********************* श्री एकादशम चक्रवर्ति जय चरितम् राजगृहे नगरे वप्राया राज्याः कुक्षौ चतुर्दशस्वप्नसूचितो जयनामा पुत्रो जातः । क्रमेण संसाधितभरतश्चक्री जातः । राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च चिन्तितवान् -- "सुचिरमपि उषित्वा स्यात् प्रियैविंप्रयोगः । सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं याति नाशं शरीरं । सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १॥" एवं संवेगमुपागतो निष्क्रान्तोऽनुक्रमेण सिद्धः । द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आसीदिति जयचक्री दृष्टान्तः ॥ १० ॥ द्वादशम ब्रह्मदत्त चक्रवर्ती चरितम् तपः कुर्वता पुरुषेण निदानं न कार्यमित्याह इति । चित्र-संभूतसाध्वोः सम्बन्धमाह -- साकेतनगरे चन्द्रावतंसकस्य राज्ञः पुत्रो मुनिचन्द्रनामा बभूव । स च निवृत्तकाम - भोग-तृष्णः सागरचन्द्रस्य मुनेः समीपे प्रव्रजितः । गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः । सार्थेन सह सर्वेऽपि साधवश्चलिताः, सार्थभ्रष्टोऽसौ मुनिचन्द्रोsटव्यां पतितः । तत्र चत्वारो गोपालदारकास्तं क्षुत्तृषाक्रान्तं पश्यन्ति, शुद्ध रशनादिभिः प्रतिजाग्रति । यतिना तेषां पुरो देशना कृता । ते गोपालदारकाः प्रतिबुद्धास्तदन्तिके प्रव्रज्यां गृहीतवन्तः । तैः सर्वैः शुद्धा दीक्षा पालिता । Jain Educatmational For Personal & Private Use Only ******:* "एकादशम जय |" द्वादशम् ब्रह्मदत्त चक्रवर्ति चरितम् " | ॥११८॥ wwelibrary.org Page #123 -------------------------------------------------------------------------- ________________ ॥ ११६ ॥ 1 तु दीक्षा पालितैव परं मलक्लिन्नवस्त्रादिजुगुप्सा कृता, ते चत्वारोऽपि देवलोकं गताः । तत्र जुगुप्साकार कौ द्वौ देवलोकच्युतौ दशपुरनगरे शाण्डिल्यब्राह्मणस्य यशोमत्या दास्याः पुत्रत्वेनोत्पन्नौ युग्मजातौ बभूवतुः । अतिक्रान्तबालभावौ तौ यौवनं प्राप्तौ । अन्यदा क्षेत्ररक्षणार्थं तावटव्यां गतौ, रात्रौ च वटपादपाधः सुप्तौ । तत्रैको दारको वटकोटरान्निर्गतेन सर्पेण दष्टः । द्वितीयः सर्पोपलम्भनिमित्तं भ्रमंस्तेनैव सर्पेण दष्टः । ततो द्वावपि मृतौ कार्लिज्जरपर्वते मृगकुक्षौ समुत्पन्न युग्मजातौ मृगौ जातौ । कालक्रमेण तौ द्वौ मात्रा समं भ्रमन्तावेकेन व्याधेनैकशरेणैव हतौ मृतौ । ततस्तौ द्वावपि गङ्गातीरे एकस्या राजहंस्याः कुक्षौ समुत्पन्नौ जातौ क्रमेण हंसौ, मात्रा समं भ्रमंतावेकेन मत्स्यबन्धकेन गृहीतौ मारितौ च । ततो वाराणस्यां नगर्यो महर्द्धिकस्य भूतदिन्नाभिधस्य चाण्डालस्य पुत्रत्वेन समुत्पन्नौ, क्रमेण जातयोस्तयोः चित्रश्च सम्भृतश्चेति नामनी कृते । तौ चित्र सम्भूतौ मिथः प्रीतिपरौ जातौ । I इतश्च तस्मिन्नवसरे वाराणस्यां नगर्या शङ्खनामा राजा, तस्य नमुचिनामा मन्त्री, अन्यदा तस्य किञ्चित् क्षणं जातम् । कुपितेन राज्ञा स वधार्थं भूतदिन्नचाण्डालस्य दत्तः, भूतदिन्नचाण्डालेन तस्यैवमुक्तम्- - भो मन्त्रिन् ! त्वामहं रक्षामि, यदि मद्गृहान्तभू मिगृहस्थितौ मत्पुत्रौ पाठयसि, जीवितार्थिना तेन तत्प्रतिपन्नम् । भूमिगृहस्थः स चित्र-संभूतौ पाठयति, चित्र-संभूतमाता तु मन्त्रिपरिचर्यां कुरुते । मन्त्री तु तस्यामेव व्यासक्तोऽभूत् निजपत्नीव्यभिचारिचरितं चाण्डालेन ज्ञातम् । नमुचिमारणोपायस्तेन चिन्तितः । पितुरध्यवसायस्ताभ्यां ज्ञातः । उपकार- प्रीतिरताभ्यां स नमुचिर्नाशितः । ततो नष्टः स क्रमेण हस्तिनागपुरे सनत्कुमारचक्रिणो मन्त्री जातः । इतश्च ताभ्यां मातङ्ग Jain Educationmational For Personal & Private Use Only ॥ ११६॥ ww.library.org Page #124 -------------------------------------------------------------------------- ________________ XX *"द्वादशम् ब्रह्मदत्त | चक्रवर्तिचरितम" कहा" | दारकाभ्यां चित्र-सम्भूताम्यां रूप-यौवन-लावण्य नृत्य-गीत कलाभिर्वा राणसीनगरीजनः प्रकामं चमत्कार प्रापितः। अन्यदा तत्र मदनमहोत्सवो जातः, सर्वेषु लोकेषु गीत-नृत्यवादित्रादिविनोदप्रवृत्तेषु सत्सु तौ मातङ्गदारको चक्कवाट्टिस्सा वाराणसीनगर्यन्तः समागत्य सर्वाः स्वकलाः दर्शयितु प्रवृत्तौ। तयोविशेषकलाचमत्कृता लोकास्तरुणीप्रमुखास्त समीपे गताः । एकाकारो जातः। अस्पृश्यत्वादिकं न जानन्ति सर्वेऽपि लोकास्तन्मयतां गताः । ततश्चतुर्वेदविद्भि॥१२॥ ब्राह्मणेनगरस्वामिन एवं विज्ञप्तम्-राजन्नेताभ्यां चित्र-सम्भूताम्यां चाण्डालाभ्यां सर्गेऽपि नगरीलोक एकाकारं प्रापितः, राज्ञा तयोनगरीप्रवेशो वारितः । कियत्कालानन्तरं पुनस्तत्र कौमुदीमहोत्सवो जातः, तदानों कौतुकोत्तालौ तौ राजशासनं विस्मार्य नगरीमध्ये प्रविष्टौ, तत्र स्वच्छवस्त्रेण मुखमाच्छाद्य प्रेक्षणानि प्रेक्ष्माणयोस्तयो रसप्रकर्षोद्भवेन मुखाद्गीतं निर्गतम् , सर्वे लोका वदन्ति । केन किन्नराणुकारेणेदं कर्णसुखमुत्पादितमिति वस्त्रं पराकृत्य लोकैस्तयोर्मुखमीक्षितम् , उपलक्षितौ तौ मातङ्गदारको, राज्ञोऽनुशासनभञ्जकत्वेन जनैर्यष्टि-मुष्टयादिभिर्हन्यमानौ तौ नगर्या बहिनिष्कासितौ, प्राप्ती बहिरुघाने । भृशं खिन्नावेव चिन्तयतः-धिगस्त्वस्माकं रूप-यौवन-सौभाग्य-लावण्यसर्वकलाकौशल्यादिगुणकलापस्य, यतोऽस्माकं मातङ्गजत्वेन सर्व दृषितम् । लोकपराभवस्थानं वयं प्राप्ताः। एवं गुरुवैराग्यमागतौ तौ स्वबान्धवादीनामनापृच्छयैव दक्षिणदिगभिमुखौ चलितौ। दूरं गताभ्यां ताभ्यामेको गिरिवरो दृष्टः । तत्र भृगुपातकरणार्थमधिरूढौ । तत्र तो शिलातलोपविष्टं तपःशोषिताङ्ग शुभध्यानोपगतमातापनां गृह्णन्तमेकं श्रमणं ददृशतुः । हर्षितौ तौ तत्समीपे जग्मतुः। भक्तिबहुमानपूर्व ताभ्यां स वन्दितः । साधुना धर्मलाभकथनपूर्वकं । RXXXXXXXXXXXX KXxxxxx RXXXXXXX ॥१२०॥ Jain Educate national For Personal & Private Use Only elibrary.org Page #125 -------------------------------------------------------------------------- ________________ ॥१२॥ तयोः स्वागतं पृष्टम् । ताभ्यां पूर्ववृत्तान्तकथनपूर्वकं स्वाभिप्रायः साधोः कथितः । साधुना कथितम्--न युक्तमनेकशास्त्रावदातबुद्धीनां भवादृशानां गिरिपतनमरणम् । सर्वदुःखक्षयकारणं श्रीवीतरागधर्म गृह्णन्तु । इति पञ्चमहाव्रतरूपः श्रीवीतरागधर्मस्तयोः कथितः । ततस्ताभ्यां तस्य मुनेः समीपे दीक्षा गृहीता। कालक्रमेण तौ गीताौँ जातौ । ततः स्वगुज्ञिया षष्ठा-ष्टम-दशम द्वादशा-ऽर्धमास-मासक्षपणादितपोभिरात्मानं भावयन्तौ ग्रामानुग्रामं विहरन्तौ कालान्तरेण हस्तिनागपुरं प्राप्ती बहिरुद्याने च स्थितौ।। ___ अन्यदा मासक्षपणपारणके सम्भूतसाधुनगरमध्ये भिक्षार्थ प्रविष्टः । गृहानुग्रहं भ्रमन राजमार्गानुगतो गवाक्षस्थेन नमुचिमन्त्रिणा दृष्टः, प्रत्यभिज्ञातश्च । चिन्तितं च स एष मातङ्गदारको मदध्यापितो मच्चरित्रमशेषमपि जानबस्ति कदाचिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति मत्वा दूतैः स मुनिर्यष्टिमुष्टथाविभिर्भारयित्वा नमुचिना नगराबहिनिष्कासयितुमारब्धः, निरपराधस्य हन्यमानस्य तस्य कोपकरालितस्य मुखाग्निर्गतः प्रथमं धूम स्तोमा, तेन सर्वमपि नगरमन्धकारितम् भयकौतूहलाक्रान्ता नागरास्तत्रायाता। क्रोधाक्ष्मातं तं मुनि दृष्टा सर्वेऽपि * प्रसादयितुं प्रवृत्ताः । सनत्कुमारचक्रवर्त्यपि तत्रायातः । तं प्रसादयितुं प्रवृत्त एवं बभाण-भगवन् ! यदस्मादृशैर ज्ञानरपराद्ध तद्भवद्भिः क्षमणीयम् । संहरन्तु तपस्तेजःप्रभावम् । कुर्वन्तु ममोपरि प्रसादं सर्वनागरिकजीवितप्रदानेन । पुनरेवंविधमपराधं न करिष्यामः । इत्यादि चक्रिणाप्युक्तोऽसौ यावन्न प्रशाम्यति, तावदुद्यानस्थश्चित्रसाधुर्जनापवादात्तं कुपितं ज्ञात्वा तस्य समीपमागत एवमुवाच । भो सम्भूतसाधो! उपशामय कोपानलम् , उपशमप्रधानाः श्रमणा ॥१२॥ Jain Educa ! For Persona 3 Private Use Only Plelorary.org Page #126 -------------------------------------------------------------------------- ________________ "श्री "द्वादशम् ब्रह्मदत्त चक्रवतिचरितम् * भवन्ति । अपराधेऽपि न कोपस्यावकाशं ददति । क्रोधः सर्वधर्मानुष्ठाननिष्फलीकारकोऽस्ति, यत उक्तम्-- चक्कवट्टिस्स ""मासुववासु करेइ, निच्चं वणवासु निसेवे । पढइ नाणु सुज्झाणु, निच्चं अप्पाणं भावइ ॥१॥ धारइ दुद्धरवंभचेरं, भिक्खासणं भुंजइ । जासु रोस तासु सयलु, धम्म निष्फलु संपज्जइ ॥२॥" १. मासोपवास. करोति, नित्यं वनवासं निसेवते । पठति ज्ञानं सद्ध्यानं, नित्यमात्मानं भावयति ॥ १ ॥ ॥१२२॥ २. धारयति दुर्धरब्रह्मचर्य, भिक्षाऽशनं भुनक्ति । यावत् शेषस्तावत् सकलो धर्मो निष्फलो संपद्यति ।। २ ॥ इत्यादिकैश्चित्रसाधूपदेशैः संभूतस्योपशान्तः क्रोधः, तेजोलेश्या संहृता । ततस्तौ द्वावपि तत्प्रदेशान्निवृत्ती, गतौ तदुद्यानम् । चिन्तितं चैताभ्यामावाभ्यां सल्लेखना कृता, साम्प्रतमावयोर्युक्तमनशनं कर्तुं, इति विचार्य ताभ्यामनशनं विहितम् । सनत्कुमारचक्रिणा नमुचिमन्त्रिणो वृत्तान्तो ज्ञातः, दूतैः सह रज्जुबद्धः कृतः । प्रापितश्च तदुद्याने तयोः समीपे, ताभ्यां स मोचितः, सनत्कुमारोऽपि तयोर्वन्दनार्थ सान्तःपुरपरिवारस्तत्रायातः । सर्वलोकसहितश्चक्री तयोः पादयुग्मे प्रणतः । चक्रिणः स्त्रीरत्नं सुनन्दापि ओत्सुक्यात्तयोः पादे प्रणता, तस्या अलकस्पर्शानुभवेन सम्भूतयतिना निदानं कर्तमारब्धम् । तदानीं चित्रमुनिनैवं चिन्तितमहो दुर्जयत्वं मोहस्य ! अहो दर्दान्ततेन्द्रियाणाम् । येन समाचरितविकृष्टतपोनिस्करोऽपि विदितजिनवचनोऽप्ययं युवतीवालाग्रस्पर्शणेत्थमध्यास्पति । ततः प्रतिबोधितुकामेन चित्रमुनिना तस्या सम्भूतमुनेरेवं भणितम् । भ्रातरेतदध्यासायानिवृत्ति कुरु। एते हि भोगा असाराः, परिणामदारुणाः, संसारपरिभ्रमणहेतवः सन्ति । एतेषु मा निदानं कुरु। निदानात्तव घोरानुष्ठानं नैव तादृक् फलदं । XX****XXXXXXXXXXXXX RXXX ॥१२२॥ Jain Educa For Persona 3 Private Use Only Khelibrary.org Page #127 -------------------------------------------------------------------------- ________________ ॥१२३॥ KXXXXXXXXXX __ भविष्यति । एवं चित्रमुनिना प्रतिबोधितोऽपि सम्भूतो न निदानं तत्याज । यद्यस्य तपसः फलमस्ति, तदाहं भवान्तरे चक्रवर्ति भ्यासमिति निकाचितं निदानम् । ततो मृत्वा सौधर्मदेवलोके तौ द्वावपि देवौ जाती। ततश्च्युतश्चित्रजीवः पुरमतालनगरे इम्यपुत्रो जातः। सम्भूतजीवस्ततश्च्युतः कापिल्यपुरे ब्रह्मनामा राजा, तस्य चुलिनीनाम्नी भार्या, तस्याः कुक्षौ चतुर्दशस्वप्नसूचित उत्पन्नः । क्रमेण जातस्य तस्य ब्रह्मदत्त इति नाम कृतम् । देहोपचयेन कलाकलापेन च वृद्धिं गतः। तस्य ब्रह्मराक्ष उत्तमवंशसम्भृताश्चत्वारः सुहृदः सन्ति, तद्यथा--काशीविषयाधिपः कटकः, गजपुराधिपः कणेरदत्तः, कौशलदेशाधिपतिदीर्घः, चम्पाधिपतिः पुष्पचूलश्चेति । तेऽत्यन्तस्नेहेन परस्परविरहमनिच्छन्तः समुदिताश्चैव एकमेकं वर्ष परिपाटथा विविधक्रीडाविलासैरे कस्मिन् राज्ये तिष्ठन्ति । अन्यदा ते चत्वारोऽपि समुदिताश्चैव ब्रह्मराज्ये स्थिताः सन्ति । तस्मिन्नवसरे ब्रह्मराज्ञो मन्त्रतन्त्रौषधाद्यसाध्यः शिरोरोग उत्पन्नः । ततस्तेन कटकादिचतुणों मित्राणामुत्सङ्गे ब्रह्मदत्तो मुक्तः । उक्तं च यथैष मद्राज्यं सुखेन पालपति तथा युष्माभिः कर्तव्यमिति राज्यचिंता कारयित्वा ब्रह्मराजा कालं गतः। मित्रैस्तस्य प्रेत्यकर्म कृतम् , मिथश्चैवं भणितम् , एष कुमारो यावद्राज्यधुरा) भवति तावदस्माभिरेतद्राज्यं रक्षणीयमिति विचार्य सर्वसम्मतं दीर्घराजानं तत्र स्थापयित्वा कटक-कणेरदत्त-पुष्पचूलाः स्वस्वराज्ये जग्मुः । स दीर्घराजा सकलसामग्रीकं तद्राज्यं पालयति, भाण्डागारं विलोकयति, प्रविशत्यन्तःपुरम् , चुलिन्या समं मन्त्रयति । तत इन्द्रियाणां दुर्निवारत्वेन ब्रह्मराज्ञो मैत्रीमवगणय्य, वचनीयतामवमन्य चुलिन्या समं ※※※※※※※※※※※※ ॥१२३॥ Jain Educa IMKinelibrary.org t For Personal & Private Use Only ional Page #128 -------------------------------------------------------------------------- ________________ चक्कवट्टिस्स XXXXXXX "द्वादशम् ब्रह्मदत्त चक्रवतिचरितम्" कहा" ॥१२४॥ KXXXXXXXXXXXXX संलग्नः। एवं प्रवर्धमानविषयसुखरसयोस्तयोर्गच्छन्तिः दिनाः। ततो ब्रह्मराजमन्त्रिणा धनुर्नाम्ना तयोस्तत्स्वरूपं ज्ञातम् । चिन्तितं च य एवंविधमकार्यमाचरति, स किं कुमारब्रह्मदत्तस्य हिताय भविष्यति ? एवं चिन्तयित्वा तेन धनुर्नाम्ना मन्त्रिणा स्वपुत्रस्य वरधनुनाम्नः कुमारस्यैवं भणितम् , यथा पुत्र ! ब्रह्मदत्तस्य माता व्यभिचारिणी जातास्ति, दीर्घराज्ञा भुज्यमानास्ति । अयं समाचार एकान्ते त्वया ब्रह्मदत्तकुसारस्य निवेदनीयः, तेन च तथा कृतम् । ब्रह्मदत्तकुमारोऽपि मातुर्दुश्चरितमसहमानस्तयोओपनार्थ काक-कोकिलामिथुनं शूलाप्रोतं कृत्वा चुलिनीमातृदीर्घनृपयोर्दशितम् । एवं प्रोक्तं च, य ईदृशमनाचारं करिष्यति, तस्याहं निग्रहं करिष्यामीत्युक्त्त्वा कुमारो बहिर्गतः। एवं द्वित्रिभिदृष्टान्तैदिनत्रयं यावदेवं चकार उवाच च । ततो दीघनृपेण शङ्कितेन चुलिन्या एवमुक्तम्--कुमारेणावयोः स्वरूपं ज्ञातम् , अहं काकस्त्वं कोकिलेति दृष्टान्तः कुमारेण ज्ञापितः । तयोक्तं बालोऽयं यत्तदुल्लपति । नात्रार्थे काचिच्छङ्का कार्या । ततो दीर्घपृष्टेनोक्तम् त्वं पुत्रवात्सल्येन न किमपि स्वहितं वेत्सि, अयमवश्यमावयोरतिविघ्नकरः, तदवश्यमयं मारणीयः, मयि स्वाधीने तवान्ये पुत्रा बहवो भविष्यन्ति । एतादृशं दीर्घनृपवचस्तयाङ्गीकृतम् । यत उक्तं "महिला जालकुलहरं, महिला लोयंमि दुचरियखित्तं । महिला दुग्गइदारं, महिला जोणी अणत्थाणं ॥१॥ मारेइ य भत्तारं, हणे सुअं तह पणासए अत्थं । नियगेहंपि पीलावै, णारी रागाउरा पावा" ॥२॥ महिला जालकुलघरं, महिला लोके दुश्चरित्रक्षेत्रम् । महिला दुर्गतिद्वार, महिला योनिः अनर्थानाम् ॥१॥ मारयति च भर्तारं, नन्ति सुतं तथा प्ररणाशयति अर्थम् । निजगृहमपि पीडापयति, नारी रागातुरा पापा ॥२॥ XXXXXXXXXXXXX XXXX 2॥१२४॥ Jain Educati o nal For Personal & Private Use Only wwd atibrary.org Page #129 -------------------------------------------------------------------------- ________________ ॥१२५॥ १ चुलिन्या भणितम्, कथमेष मारणीयः १ कथं च लोकापवादो न भवति दीर्घनृपेणोक्तं साम्प्रतमस्य विवाहः क्रियते । पश्चात्सर्वमावयोश्चिन्तितं भविष्यति । ततस्ताभ्यां ब्रह्मदत्तस्य मित्रस्य कस्यचिद्राज्ञः कन्यायाः पाणिग्रहणं कारितम् । तयोः शयनार्थमनेकस्तम्भशतसन्निविष्टं गूढनिर्गमद्वारं जतुगृहं कारितम् । इतश्च धनुर्मन्त्रिणा दीर्घनृपायैवं विज्ञप्तम् । एष मम पुत्रो वरधनुरेतद्राज्यकार्यकरणसमर्थो वर्तते, अहं पुनः परलोकहितं करोमि । दीर्घनृपेणोक्तमिह स्थित एव त्वं दानादिधर्म कुरु । तस्यैतद्वचः प्रतिपद्य धनुर्मन्त्रिणा गङ्गातीरे महती प्रपा कारिता, तत्र पथिकपरिव्राजSarai यथेष्टदानं दातुं प्रवृत्तः । दानोपचारावर्जितैः परिव्राजिकादिभिर्द्विगव्यूतप्रमाणा सुरङ्गा जतुगृहं यावत्खानिता । जतुगृहान्तः सुरंगाद्वारि शिला दत्ता । इतश्च चूलिन्या महताडम्बरेण वधूसहितः कुमारस्तत्र प्रवेशितः । ततः समग्रः परिवारो विसर्जितः, वरधनुः कुमारपार्श्वे स्थितः । एवं स्वपित्रा गदितवृत्तान्तानुसारेण स सावधानो जाग्रन्नेव सुप्तः । ब्रह्मदत्तकुमारस्त्वेकशय्यायां तया वध्वा सह सुप्तः । गतं रात्रिप्रहरयुग्मम् । तदा तत्र चुलिन्या स्वहस्तेन अग्निकन्दुको न्यस्तः । तेन तद्गुह्य समन्ताद्दहमानं दृष्ट्वा विनिद्रो ब्रह्मदत्तः स्वमित्रं वरघनुं पप्रच्छ, किमेतदिति । वरधना सर्व चुलिनीस्वरूपं कथितं । पुनः कथितमियं च कन्या राजपुत्री न, किन्तु काप्यन्या, तस्मादस्य मोहो मनागपि न कार्यः । त्वमस्य शिलायां पादप्रहारं कुरु, येनावां निर्गच्छावः । वरधनूक्तं सर्वं ब्रह्मदत्तेन कृतम् । ततो द्वापि निर्गत्य सुरङ्गाद्वहिर्देशे समायातौ । तत्र च धनुर्मन्त्रिणा पूर्वमेव द्वौ तुरङ्गमौ पुरुषौ च मुक्तौ स्तः । ताभ्यां पुरुषायां तयोः सङ्केतः कथितः, तुरङ्गाधिरूढौ तौ द्वावपि कुमारौ ततश्चलितौ । एकेन दिवसेन पञ्चाशद्योजन मात्रं Jain Educatinational For Personal & Private Use Only ॥१२५॥ helibrary.org Page #130 -------------------------------------------------------------------------- ________________ "श्री चक्काट्टिस्स "द्वादशम ब्रह्मदत्त चक्रवर्तिचरितम्" कहा" ॥१२६॥ KXXXXXXXXXXXXXX भूभागं गतो। दीर्घमार्गखेदेन तुरङ्गमौ व्यापन्नौ । ततः पादचारेण गच्छन्तौ तौ कोट्टाभिधानग्रामं गतौ, कुमारेण वरधनुर्भणितः, मां क्षुधा बाधते । वरधनुः कुमारं बहिरेवोपवेश्य स्वयं ग्राममध्ये प्रविष्टः । नापितं गृहीत्वा तत्रायातः । कुमारस्य मस्तकं मुण्डापितम्, परिधापितानि कषायवस्त्राणि, चतुरङ्गलप्रमाणपट्टबन्धः कुमारस्य श्रीवत्सालकृते हृदि बद्धः, वरधनुनापि वेषपरावर्तनः कृतः । तादृशवेषधरौ द्वावपि ग्राममध्ये प्रविष्टौ । तावता एको द्विजः स्वमन्दिरान्निर्गत्याभिमुखमागत्य तौ कुमारौ प्रत्येवमाह । आगच्छतामस्तमद्गृहे, भुञ्जतां च । तेनेत्युक्ते तो द्वावपि तद्गृहे गतौ । ब्राह्मणेन राजरूपप्रतिपत्तिपूर्वकं तौ भोजितौ । भोजनान्ते चैका प्रवरमहिला बन्धमती नाम्नी कन्यामुद्दिश्य ब्रह्मदत्तकुमारमस्तकेऽक्षान् प्रक्षिपति । भणति चेषोऽस्याः कन्याया वरोऽस्त्विति । वरधनुना भणितम् किमेतर बटुकस्य कृते एतावानायासः क्रियते ? ततो गृहस्वामिना भणितं श्रूयतामस्मस्मदायासवृत्तान्तः पूर्व सुवृत्तनैमेत्तिकेनाख्यातं यथास्या बालिकायाः पट्टाच्छादितवक्षःस्थलः समित्रो भवद्गृहे भोजनकारी वरो भविष्यति । सोऽयमस्या योग्यो वर इति । तस्मिन्नेव दिने तस्याः कन्यायाः कुमारेण पाणिग्रहणं कारितम् । मुदितो गृहस्वामी, कुमारस्त्वेकरात्रौ तत्र स्थितः । द्वितीयदिने वरधनुना कुमारस्योक्तमावाभ्यां दूरे गन्तव्यम् । दीर्घराजासन्नत्वेनात्र स्थातुमावयोरयुक्तमिति तो द्वावपि बन्धुमत्याः स्वरूपं कथयित्वा निर्गतौ । गच्छन्तौ । तावेकदा कस्मिंश्चिद् दूरग्रामे गती। तृषाक्रान्तं कुमारं बहिरुपवेश्य वरधनुः सलिलमानेतु ग्राममध्ये प्रविष्टः। स्वरितमेव पश्चादागत्यैवं कुमारस्योक्तवान् । अत्र ईदृशो जनापवादो मया श्रुतः, यद्दीर्घनृपेण ब्रह्मदत्तमार्गः सर्वत्र XXXXXXXXXXXXXXXXXXXXXXXX ॥१२६॥ Jan Educa For Persona 3 Private Use Only orary.org Page #131 -------------------------------------------------------------------------- ________________ ॥१२॥ सैन्यैर्वन्धितोऽस्ति । ततः कुमार ! आवामितो नश्यावः । नष्टौ ततो द्वावपि उन्मार्गेण व्रजन्तौ महाटवीं प्राप्तौ । तत्र कुमारं वटाध उपवेश्य वरधनुः जलमानेतुमितस्ततो बभ्राम। दिनावसाने वरधनुः दीर्घपृष्टनृपभटै दृष्टः, प्रकामं यष्टिमुष्टयादिभिर्हन्यमानः कुमारं दर्शयेति प्रोच्यमानः कुमारासन्नप्रदेशे प्रापितः। तावता वरधनुना कुमारस्य केनाप्यलक्षिता संज्ञा कृता । भट्टरदृष्ट एवं ब्रह्मदत्तो नष्टः । पतितश्च दुर्गमे कान्तारे क्षुधा-तृषाश्रमातः कुमारस्तृतीये दिने तामटवीमतिक्रान्तस्तापसमेकं ददर्श | दृष्टे च तस्मिन् कुमारस्य जीविताशा जाता । कुमारेण स तापसः पृष्टः भगवन् ? क्व भवदाश्रमः १ तेनासन्न एवास्मदाश्रम इत्युक्त्वा कुलपतिसमीपं नीतः, कुमारेण प्रणतः कुलपतिः। कुलपतिना भणितम्--वत्स ! कुत इह भवदागमनम् ? कुमारेण सकलोऽपि स्ववृत्तान्तः कथितः। कुलपतिनोक्तं अहं भवज्जनकस्य क्षन्लभ्राता, ततस्त्वं निजं चैवावासं प्राप्तोऽसि, सुखेनात्र तिष्ठ? इत्यंभिप्रायं तापसस्य ज्ञात्वा कुमारस्तत्रैव सुखं तिष्ठन्नस्ति । अन्यदा तत्र वर्षाकालः समायातः। तदानीं निश्चिन्तितेन कुमारेण तत्र तापसान्तिके सकला धनुर्वेदादिका कला अभ्यस्ताः । अन्यदा शरत्काले फलमूलकन्दादिनिमित्तं तापसेषु गच्छत्सु ब्रह्मदत्तकुमारोऽपि तैः समं वने गतः। वनश्रियं पश्यता तेन एक महाहस्ती दृष्टः। कुमारस्तदभिमुखं चलितः। कुमारं दृष्ट्वा हस्तिना गलगर्जिरवः कृतम् । कुमारेण तस्य निजमुत्तरीयं वस्त्रं निक्षिप्तम् । करिणापि तत्क्षणात् शुण्डादण्डेन गृहीतम् , क्षिप्तं च गगनतले । यावत्स क्रोधान्धो जातस्तावत् कमारेण बलं कृत्वा तद्वस्त्र स्वकराभ्यां गृहीतम् , ततस्तेन नानाविधक्रीडया परिश्रमं नीत्वा EXXXXXXXXXXXXXXXXXXXXXXXXX ॥१२७ For Persona & Private Use Only brary.org Jain Educataland Page #132 -------------------------------------------------------------------------- ________________ "द्वादशम् कहा" ब्रह्मदत्त चक्रवतिचरितम्" * करी मुक्तः । स पश्चाद्गन्तुं प्रवृत्तः। तत्पृष्टौ कुमारोऽपि चलितः। इतश्चाग्रे गच्छन् कुमारः पूर्वापरदिग्विभागे परिभ्रमन् गिरिनदीतटसन्निविष्टं जीर्णभवनभित्तिमात्रोपलक्षितं जीर्ण नगरमेकं ददर्श । तन्मध्ये प्रविष्टश्चतुर्दिक्षु दृष्टिं चक्कवट्टिस्स क्षिपन् पार्श्वपरिमुक्तखेटकखग विकटवंशकुडङ्ग ददर्श । कुमारेण तत्खङ्ग तथैव कौतुकाद्वाहितम् । एकप्रहारेण निपतितं वंशकडङ्ग, वंशान्तरालस्थितं च निपतितं रुडमेकम् , स्फुरदोष्ठं मनोहराकारं शिरःकमलं दृष्ट्वा संभ्रान्तेन ॥१२८॥ कुमारेणैवं चिन्तितम् । हा ! धिगस्तु मे व्यवसितस्य, धिमे बाहुबलस्येति कुमारः स्वं निनिन्द । पश्चात्तापाक्रान्तेन तेन कुमारेण दृष्टं धूमपानलालसं कवन्धं समधिकमधृतिस्तस्य पुनर्जाता। ___ इतस्ततः पश्यता कुमारेण पुनः प्रवरमुद्यानं दृष्टम, तत्र भ्रमन्नशोकतरुपरिक्षिप्तमेकं सप्तभूमिकमावासं कमारो दृष्टवान् । तन्मध्ये प्रविष्टः कुमारः क्रमेण सप्तभूमिकामारूढः । तत्र विकसितकमलदलाक्षी प्रवरां महिलां पश्यति स्म । कुमारेण सा पृष्टा काऽसि त्वमिति १ ततः सा स्वसद्भायं कथयितुं प्रवृत्ता। महाभाग ! मम व्यतिकरो महान् वर्तते, ततस्त्वमेव प्रथमं स्ववृत्तान्तं वद । कस्त्वं ? कृतः समायातः१ एवं तया पृष्टे कमार आख्यत्-अहं पश्चालाधिपतिब्रह्मराजपुत्रो ब्रह्मदत्तोस्मीति । कमारोक्तिश्रवणान्तरं हर्षोत्फुल्लनयना सा अभ्युत्थाय तस्यैव चरणे निपत्य रोदितु प्रवृत्ता। ततः कारुण्यहृदयेन कमारेण सा पुनरेवं भणिता, मुखमुन्नतं कुरु मा रुदेति चाश्वासिता सा। ततः कुमारेण त्वं स्ववृत्तान्त वदेत्युक्ता सा आचख्यौ–कुमार ! अहं तव मातुलस्य पुष्पचूलस्य राज्ञः पुत्री, तवैव पित्रा दत्ता, विवाहदिवसं प्रतीक्ष्यमाणा निजगृहोद्यानदीर्घिकापुलिने क्रीडन्ती दुष्टविद्याधरेणात्रानीता। यावदहं स्वजनविर ※※※※※※※※※※※※※※※※※※※※※※ KXXXXXXXXXXXXXXXXXXXXXXXX *||१२८॥ Jain Educa l ernational For Personal & Private Use Only Minelibrary.org Page #133 -------------------------------------------------------------------------- ________________ ॥१२॥ **XXXXXXXXXXXXXXXXXXXXXX हाग्निसन्तप्ता इह तिष्ठामि, तावत्वमतर्कितवृष्टिसमोऽत्रायातः। अथ मम जीविताशा सञ्जाता यत्त्वं मया दृष्टः। कुमारेणोक्तं--स मम शत्रुः क्वास्ति ? येन तबलं पश्यामि । तया भणितं-स्वामिन् । ममानेन शङ्करीनाम्नी विद्या दत्ता। कथितं चेयं विद्या पठितमात्रा तव दासदासीसखीपरिवाररूपा भूत्वा आदेशं करिष्यति । तवान्तिकमागतं प्रत्यनीकं निवारयिष्यति । दूरस्थस्यापि मम चेष्टितं पृष्टा सती इयं तव कथययिष्यति । साद्य मया प्राप्ता. स्मृता सती मम तच्चेष्टितं प्राह । यथा स उन्मत्तनामा विद्याधरः पूर्णपुण्यायास्तव बलात्स्पर्श तेजश्च सोहमशक्तस्त्वामत्र मुक्त्वा निजभगिनी ज्ञापनाय ज्ञापिकी विद्या प्रेषयित्वा च स्वयं विद्या साधयितुं वंशकुडङ्गे गतोऽस्ति । ततो निर्गतमात्रस्त्वां परिणेष्यतीति ममाद्य तया विद्यया कथितम् । एतत्तस्या वचः श्रुत्वा ब्रह्मदत्तेनोक्तं वंशकुडङ्गस्थस्य तस्य विद्याधरस्य मया साम्प्रतमेव शिरश्छिन्नम् तयोक्तमार्यपुत्र ! शोभनं कृतम्, यत्स दुरात्मा निहतः । ततः सा कुमारेण गन्धर्व विवाहेन परिणीता; तया समं विलसन् कुमारः कियत्कालं तत्र स्थितः। अन्यदा कुमारेण तत्र दिव्यवलयानां शब्दः श्रुतः । कुमारेणोक्तं--कोऽयं शब्दः श्रूयते ? तयोक्तं--कुमार ! एषा एवं वैरिभगिनी खण्डशाखानाम्नी विद्याधरकुमारीपरिवृता स्वभ्रातृनिमित्तं विवाहोपकरणानि गृहीत्वा समायाता। स्वमितस्त्वरितमपक्रम १ यावदेतासामहमभिप्रायं वेभि । यद्येतासां तवोपरि रागो भविष्यति, तदाहं प्रासादोपरि स्थिता रक्तां पताका चालयिष्यामि । अन्यथा तु श्वेतामिति । कुमारस्तद्गृहाद् बहिर्गत्वा दूरे स्थित ऊर्ध्व विलोकते, तावचालितां धवल पताकां दृष्ट्वा शनैः शनैस्तत्प्रवेशादपक्रान्तः कुमारः प्राप्तो गिरिनिकुञ्जमध्ये । तत्र भ्रमता कुमारेणैकं KXXXXXXXXXXXXXXXX ॥१२६। Jain Education ational For Personal & Private Use Only Homelibrary.org Page #134 -------------------------------------------------------------------------- ________________ "श्री "द्वादशम् चक्क हिस्सा कहा" ब्रह्मदत्त चक्रवतिचरितम् ॥१३०॥ सरोवरं दृष्टम । तत्र स्नानं सरपश्चिमतीरे उत्तीर्णेन कुमारेण दृष्टैका वरकन्या. चिन्तितं चाहो मे पुण्यपरिणतिः। येनैषा कन्या मे दृग्गोचरमागता । तथाप्यसौ कुमारः स्नेहनिभेरं विलोकितः कुमारं विलोकयन्ती सा अग्रे प्रस्थिता। स्तोकया वेलया तया कन्यया एका दासी प्रेषिता । तया कुमाराय वस्त्रयुगलं पुष्पताम्बूलादिकं च दत्तम्, उक्तं च, या युष्माभिः सरस्तीरे कन्या दृष्ट्वा, तया सर्वमिदं प्रेषितम्, लावण्यलतिकानाम्न्यहं तस्या दासी अस्मि । तया च ममेदमादिष्टम्--एनं महानुभावं कुमारं मम तातमहामन्त्रिणो मन्दिरे शरीर स्थिति कारय १ ततस्तत्र कमार ! यूयमागच्छत । ततः कमारस्तया सह तदेवामात्यमन्दिरे गतः। तत्र दास्या मन्त्रिण एवमुक्तम् मन्त्रिन ! त्वत्स्वामिपुत्र्यायंप्रेषितोऽस्ति, प्रकाममस्यादरः कतव्यः, मन्त्रिणा तथैव कृतम् । द्वितीयदिने कुमारो मन्त्रिणा राज्ञः सभायां नीतः, अभ्युत्थितेन राज्ञा कुमारस्य धुरि आसनं दत्तम् , पृष्टश्च वृत्तान्तः, कुमारेण सर्वोऽपि कथितः। अथ विविधभङ्ग्या भोजितस्य कुमारस्य एवमुक्तं राज्ञा । कुमार ! तव भक्तिरस्मादृशैः कापि कर्तुं न पार्यते। परमियमेवास्माकं भक्तिः, यदियं कन्या तव प्राभृतीकृता । सुमुहूर्ते तयोविवाहो जातः । कुमारस्तया समं विलासं कुर्वन् सुखेन तत्र तिष्ठति । अन्यदा कुमारेण तस्याः प्रियायाः पृष्टम् । किमर्थमेकाकिने मह्य त्वं नृपेण दत्ता ? सा उवाच आर्यपुत्र ! एष मदीयः पिता बलवत्तरवैरिसन्तापित इमां विषमपल्लि समाश्रितः । अन तातपत्न्याः श्रीमत्याश्चतुणों पुश्वाणामुपर्यहं पुत्री जाता । अहमतीव पितुर्वल्लभा, यौवनस्था अन्यदा पित्रा उक्ता । पुत्रि ! मम सर्वेऽपि राजानो विरुद्धाः सन्ति । तेन त्वमिह स्थितैव योग्यं वरं गवेषय । ततोऽहं ग्रामाद् बहिस्तस्य सरसस्तीरे समायातान् पथिकान् XXXXXXXXXX ।।१३०॥ Jain Educa t ional For Personal & Private Use Only helitary.org Page #135 -------------------------------------------------------------------------- ________________ ॥१३१॥ विलोकयन्ती स्थिता । तदानीं त्वं तत्रायातो मया भाग्यात् प्राप्तश्चेति परमार्थः । ततस्तया श्रीकान्तया समं विषयसुखमनुभवतस्तस्य सुखेन वासरा यान्ति । अन्यदा स पल्लीपतिः कुमारेण समं निजसैन्यवेष्टितः स्वविरोधिनृपदेशभगाय चलितः । मार्गे गच्छतस्तस्य क्वचित्सरस्तीरे वरधनुर्मिलितः । कुमारेणोपलक्षितः । कुमार दृष्ट्वा स रोदितुं प्रवृत्तः कुमारेण बहुप्रकारं वारितः स्थितः । कुमारेण पृष्टं--मत्तो दूरीभूतेन त्वया किमनुभृतं ? वरधनुः प्राह--कुमार! तदानीं त्वां वटाध उपवेश्याहं जलार्थ गतः, सर एकं च दृष्टवान् । ततो जलं गृहीत्वा तवान्तिके यावदहमागन्तुं प्रवृत्तस्तावत्सन्नद्धबद्धकवचैदीर्घनृपभटैः सहसान्मिलितैरहमुपलक्षितस्ताडितश्च, उक्तं ब्रह्मदत्त इति । मयोक्तमहं न जानामि । ततो दृढतरं ताडिताऽहमवदं च व ब्रह्मदत्तो व्याघ्रण भक्षितः। तैरुक्तं तं देशं दर्शय ? तैमार्यमाणोऽहं तवान्तिकदेशमागत्य तदानीं तो संज्ञामकार्षम् । त्वयि ततो नष्टेऽहं पुनस्तैभृशं ताडयमानः स्वमुखे परिव्राजकदत्ता गुटिकां क्षिप्तवान् । तत्प्रभावादहं निश्चेष्टो जातः । ततस्ते मृतोऽयमिति ज्ञात्वा सर्वेऽपि भटा गताः । तेषां गमनानन्तरं चिरकालेन मया गुटिका मुखानिष्कासिता। ततः सचेतनोऽहं त्वां गवेषयितु प्रवृत्तः। न मया दृष्टस्त्वम् , ततोऽहमेकं ग्रामं गतः, तत्र दृष्ट एकः परिव्राजकः । तेनोक्तमहं तव तातस्य मित्रं सुभगनामा, तव पिता धनुर्नेष्टः, माता तु दीर्घेण गृहीता । मातङ्गपाटके च क्षिप्तास्तीति श्रुत्वाहमतीव दुःखितः कांपिल्यपुरे गतः । कापालिकवेषं कृत्वा मातङ्गमहत्तरं च वश्चयित्वा मातङ्गपाटकान्मातरं निष्कासितवान् । एकस्मिन् ग्रामे पितृमित्रस्य देवशमंत्रा मातरं मुक्त्वा त्वामन्वेषयन्नहमिहायातः । इत्थं यावत्तौ वरधनुब्रह्मदत्तौ वातों कुरुतस्तावदेकः पुरुषस्तत्रागत्यैवमुवाच, XXXXXXXXXXXXXXXXXXXXXXXX ॥१३१ Jain Educat clalbrary.org For Personal & Private Use Only i onal Page #136 -------------------------------------------------------------------------- ________________ "श्री चक्कवट्टिस्म कहा " ॥१३२॥ ********** यथा - महाभाग ! भवता क्वचिदितस्ततो न पर्यटिव्यम् त्वद्गवेषणार्थ दीर्घनियुक्ता नरा इहागताः सन्तीति श्रुत्वा तौ द्वावपि ततो वनान्नष्टौ, भ्रमन्तौ च कौशाम्ब्यां गतौ । तत्र बहिरुद्याने द्वयोः श्रेष्ठितयोः सागरदत्त- बुद्धिलनाम्नोः कुर्कुटयुगलं लक्षपणकरणपूर्वकं योद्धुं प्रवृत्तम्, द्रष्टुं कौतुकेन तौ तत्रैव स्थितौ । बुद्धिलकुर्कुटेन सागरदत्तकुर्कुटः प्रहारेण जर्जरीकृतो भग्नः । सागरदत्तेन प्रेर्यमाणोऽपि स्वकुर्कुटो बुद्धिल कुर्कुटेन समं पुनर्योध्धुं नाभिलषति । हारितं लक्षं सागरदत्तेन । अत्रान्तरे वरधुनुनोक्तं-- भो सागरदत्त ! एष सुजातिरपि कुर्कुटः कथं भग्नः १ ममात्रार्थे विस्मयोऽस्ति । यदि कोऽपि कोपं न करोति तदा बुद्धिलकुकुटमहं पश्यामि । सागरदत्तो भगति - भो महाराज ! विलोकय । नास्त्यत्र मम कोऽपि द्रव्यलोभः किन्त्वभिमान सिद्धिमात्रप्रयोजनमस्तीति । ततो वरधनुना विलोकितः स. कुकुटः तच्चरणनिबद्धः सूचीकलापो दृष्टः, बुद्धिलोऽपि वरधनुं प्रति शनैरेवमाह -- यदि त्वं सूचीकलापं न वक्ष्यसि, तदाहं तव लक्षार्धं दास्यामि । ततो वरधनुनोक्तं -- विलोकितो यत्कुक्कुटो नात्र किञ्चिद् दृश्यते । एवमुक्त्वापि यथा बुद्धिलो न जानाति तथा सूचीकलापमपाकृत्य सागरदत्तस्य तद्वयतिकरः कथितः । सागरदत्तेन पुनः स्वकुकुटः प्रेरितो बुद्धिल कुकुटेन समं युद्धं प्रववृते । सागरदत्तकुकुटेन जितो बुद्धिलकुकुटः, हारितं बुद्धिलेन लक्षम् । तुष्टः सागरदत्त एवमाह--आर्यपुत्र ! गृहे गम्यते, इत्युक्त्वा द्वावपि कुमारौ रथे निवेश्य सागरदत्तः स्वगृहे गतः । सागरदत्तस्तौ परमप्रीत्या पश्यति । सागरदत्तस्नेहनियन्त्रितौ तावतीत्राग्रहात्तद्गृह एव तस्थतुः । कियदिनान्तरमेको दासस्तत्रायातः, तेनैकान्ते वरधनुराकारितः, उक्तं च वरधनुकुमाराय तव तदानीं सूची Jain Educaternational For Personal & Private Use Only “द्वादशम् ब्रह्मदत्त चक्रवर्ति चरितम् " ॥१३२॥ inelibrary.org Page #137 -------------------------------------------------------------------------- ________________ ॥१३३॥ व्यतिकरद्रव्यं स्वमुखोक्तं बुद्धिलेन तद्रव्यार्पणायायं हारः प्रेषितोस्ति । इत्युक्त्वा हारकरण्डिका तेन वरधनवे दत्ता, दासः स्वगृहे गतः। वरधनुरपि हारकरण्डिका गृहीत्वा ब्रह्मदत्तान्तिके गतः, स्वरूपं कथयित्वा हारकरण्डिकातो हारं । निष्कास्य दर्शितवान् । हारं पश्यता ब्रह्मदत्तेन हारैकदेशस्थो ब्रह्मदत्तनामाङ्कितो लेखो दृष्टः । पृष्टं च मित्र ! कस्यैष लेखः१ वरधनुर्भणति को जानाति । ब्रह्मदत्तनामकाः पुरुषा बहवः सन्ति । ततो दूरे गत्वा वरधनुनोत्कीर्णो लेखः। तन्मध्ये इयं दृष्टा “पस्थिज्जइ जइ विजए, जणेण संजोयजणियजत्तेणं । तहवि तुम चिय धणि, रयणवई मुणे माणेउं ॥१॥" - प्रार्थ्यते य यद्यपि जये, जनेन संयोगजनितयत्नेन । तथापि त्वमेव धनिक, रत्नवती जानाति मानयितुं ॥१॥ उपदेशपदे षष्ठश्लोकवृत्त्या इयं गाथा एवमस्ति-पत्थिज्जइ जइ हियए, जणेण संजोग-जणिय-जत्तेण । तहवि तुमं चिय धणि रयणवई महइ माणेउं ॥ २५४॥ सूक्ष्मबुद्धया ध्यायता वरधनुनास्या गाथाया अर्थोऽवगतः। द्वितीयदिने एका परिव्राजिका तत्रायाता । सा कुमारशिरसि कुसुमाक्षतानि प्रक्षिप्य-कुमार ! त्वं शतसहस्रायुभवेत्याशिषं ददौ । ततः सा वरधनुमेकान्ते नयतिस्म । तेन समं किञ्चिन्मन्त्रयित्वा सा प्रतिगता । कुमारेण वरधनुर्जल्पितः, अनया किमुक्तं ? वरधनुर्भणति अनयैवमुक्तं यत्तत्र बुद्धिलेन करण्डे हारः प्रेषितोऽस्ति, तेन समं च यो लेखः समागतोऽस्ति, तत्प्रतिलेखं समर्पय । मयोक्तमेष लेखो ब्रह्मदत्तराजनामाङ्कितो वर्तते । ततस्त्वमेव वद कोऽसौ ब्रह्मदत्तः । तयोक्तं श्रयताम, परं कस्यापि त्वया न वक्तव्यम् । PR॥१३३॥ KXXXXXXXXXXXXXXXXXXXXXXXX Jain Educ Suklnelbrary.org a For Personal & Private Use Only tional Page #138 -------------------------------------------------------------------------- ________________ चक्कवट्टिस्स कहा" "द्वादशम् ब्रह्मदत्त चक्रवर्तिचरितम्" । ॥१३४॥ RRRRRRXXXXXXXXXXXXX इह नगयों श्रेष्टिपुत्री रत्नवतीनाम्नी कन्यकास्ति । सा बालभावादारभ्यातीव मम स्नेहानुरक्ता यौवनमनुप्राप्ता। अन्यदिने सा किश्चिद्ध्यायन्ती मया दृष्टा, पृष्टा च पुत्रि! त्वं किं ध्यायसीति । सा किमपि नैव बभाण। परिजनेनोक्तमियं बहून् प्रहरान यावदीदृश्येव किञ्चिदात्तध्यानं कुर्वन्ती दृश्यते । परमस्या हार्द न ज्ञायते । ततः पुनरपि तस्याः पृष्टम् , परं सा किंचिन्नोवाच । तत्सख्या प्रियङ्गुल्या उक्तम्--हे भगवति ! तव पुरः सा लज्जया किञ्चिद्वक्तुं न शक्नोति, अहं तावत्कथयामि । इयं गतदिने क्रीडार्थमुद्याने गता । तत्रानया स्वभ्रातुर्बुद्धिलश्रेष्ठिनः कुर्कुटयुद्धं कारयतः समीपे एको वरकुमारो दृष्टः, तं दृष्ट्वैषा एतादृशी जाता । कुमारीसख्याः प्रियङगुलतिकाया एतद्वचः श्रुत्वा मयोक्तं--पुत्रि ! कथय सद्भावम् , पुनः पुनरेवं मयोक्ता सा कथमपि सद्भावमुक्त्वा प्राह--भगवति ! त्वं मम जननीसमानासि, न किंचित्तवाकथनीयम् । अनया प्रियङ्गुलतिकया कथितो यो ब्रह्मदत्तः कुमारः, स मे पतिभविष्यति तदा वरम्, अन्यथाहं मरिष्यामि । सा मया भणिता-वत्से ! धीरा भव । अहं तथा करिष्ये, यथा तव समीहितं भविष्यति । ततः सा किञ्चत् स्वस्था जाता । कल्यदिने पुनरेवं मया तस्या विशेषाश्वासनाकरणार्थ कल्पितमेवोक्तम् , कन्ये ! य ब्रह्मदत्तकुमारो मया दृष्टः । तयापि समुच्छ्वसितरोमकूपया भणितम्-भगवति ! तव प्रसादेन सर्व भव्यं भविष्यति । किन्तु तस्य विश्वासनिमित्तं धुद्धिलव्यपदेशेनेमं हाररत्नं करण्डके प्रक्षिप्य ब्रह्मदत्तराजनामाङ्कितलेखसहितं कृत्वा कस्यचिद्धस्तेन प्रेषय । ततो मया कल्ये तथा विहितम् । एष लेखव्यतिकरः सर्वोऽपि मया तव कथितः । साम्प्रतं प्रतिलेखं देहि ? ततो मयापि तस्याः प्रतिलेखो दत्तः। तन्मध्ये चेदृशी गाथा लिखितास्ति ॥१३४॥ Jain Educ a tion For Persona 3 Private Use Only dhelibrary.org Page #139 -------------------------------------------------------------------------- ________________ ॥१३५॥ ************ "गुरुगुणवरधरणुकलिओ, तं माणिओ मुणइ बंभदत्तोवि । रयणवई रयणमई, चंदोवि य चंदिमा जोगो ॥ १ ॥ " गुरुगुणवरधनुकलितः, तं मानितो जानाति ब्रह्मदत्तोऽपि । रत्नवती रत्नमयी, चन्द्रोऽपि च चन्द्रमायोगः ।। १ ।। इदं वरधनूक्तमा अष्टायामपि रत्नवत्यां परमप्रेमवान् कुमारो जातः । तद्दर्शनसङ्गमोपायमन्वेषमाणस्य कुमारस्य गतानि कतिचिद्दिनानि । अन्यदिने समागते नगरबाह्याद्वरधनुरेवं वक्तुं प्रवृत्तः, यथा एतन्नगरस्वामिनो दीर्घनृपेण स्वकिङ्करा आवां गवेषणाय प्रेषिताः सन्ति । नगरस्वामिना चावां ग्रहणोपायः कारितोऽस्ति । एतादृशी लोकवार्ता बहिः श्रुता । सागरदत्तेन एतद्वयतिकरं श्रुत्वा तौ द्वावपि भूमिगृहे गोपितौ । रात्रिः पतिता, कुमारेण सागरदत्तस्य भणितं -- तथा कुरु, यथावामपक्रमाः । एतदाकर्ण्य सागरदत्तस्ताभ्यां द्वाभ्यां सह नगराद्बहिर्निर्गतः । स्तोकां भूमिं गत्वाऽनिच्छन्तमपि सागरदत्त बलान्निवर्त्य कुमारखरधनु द्वावपि गन्तुं प्रवृत्तौ । पथि गच्छद्द्भ्यां ताभ्यां यक्षायतनोद्यानपादपान्तरालस्थिता प्रहरणसमन्वितरथवरसमीपस्था एका प्रवरमहिला दृष्टा ततस्तया समुत्थाय सादरं तौ भणितौ, किमियत्यां वेलायां भवन्तौ समायातो ? इति तस्या वचः श्रुत्वा कुमारः प्राह - भद्रे ! कौ आव १ तयोक्तं त्वं स्वामी ब्रह्मदत्तोऽयं च वरधनुः कुमार इति । कुमार उवाच - - कथमेतदवगतं त्वया ? सा उवाच श्रूयताम्-इहैव नगर्या धनप्रवरो नामा श्रेष्ठी वर्तते, तस्य धनसंचया भार्या वर्तते, तथा अष्टपुत्राणामुपर्येका पुत्री प्रसूता सा चाहमेव । मा च कोऽपि पुरुषो न रोचते, ततो मातुरनुज्ञयाहं यक्षमाराधितुं प्रवृत्ता । तुष्टेन यक्षेणैवमुक्तम् — वत्से ! तव भर्ता भविष्यचक्रवर्ती ब्रह्म For Personal & Private Use Only ************** ॥१३५ Page #140 -------------------------------------------------------------------------- ________________ "द्वादशम् चकवट्टिस्स कहा" ब्रह्मदत्त चक्रवर्ति। चरितम् XXXXXXXXXXXXX दत्तो भविष्यति । मया भणितं-स मया कथं ज्ञातव्यः ? तेन उक्तम्-बुद्धिल-सागरदत्तयोः कुकटबुद्धिमध्ये यो दृष्टः तवानन्दं जनयिष्यति स वरधनुमित्रसहितो ब्रह्मदत्तकुमार उपलक्ष्यः । ततः परं मया हारलेखप्रेषणादिकं यत्कृतम् , तत्सर्व तव सुप्रतीतमेवास्तीति कुमारीवाक्यमाकण्य सानुरागः कुमारस्तया सह रथमारूढः । सा कुमारेण पृष्टा इतः क गन्तव्यम् १ रत्नवत्या भणितम् , अस्ति मगधपुरे मम पितुः कनिष्ठभ्राता धनसार्थवाहनामा श्रेष्ठी, स ज्ञातव्यतिकरो युवयोर्मम च समागमनं सुन्दरं ज्ञास्यति, ततस्तत्र गमनं क्रियते । पश्चाद्यथा युवयोरिच्छा तथा कार्यमिति रत्नवतीवचसा कुमारो मगधपुराभिमुखं गन्तुं प्रवृत्तः । वरधनुस्तदा सारथिर्बभूव । ग्रामानुग्रामं गच्छन्तौ तौ कौशाम्बीदेशानिर्गतौ । अन्यदा गतौ गिरिगुहाटव्याम् । तत्र कण्टक--सुकण्टकाभिधानौ द्वौ चौरसेनापती तं प्रवरं रथम् , विभूषितं स्त्रीरत्नं च प्रेक्ष्य, तद्रक्षकं च कुमारद्वयमेव प्रेक्ष्य सन्नद्धौ सपरिवारौ प्रहन्तुमायातौ । अत्रावसरे कुमारेण तथा प्रहरणशक्तिर्दर्शिता, यथा सर्वेऽपि चौरसुभटाः कुमारप्रहाराज्जर्जराः सर्वासु दिक्षु गताः । कुमारस्ततो रथारूढश्चलितः। वरधननोक्तं-कमार! यूयं दृढश्रान्ताः, ततो मुहूर्तमात्रमत्रैव रथे निद्रासुखमनभवत । ततो रत्नवत्या सह कमारः प्रसुप्तः । गिरिनदी एका मार्गे समायाता, तावत्तुरङ्गमाः श्रमखिन्ना नाग्रे चलन्ति । ततः कश्चित्प्रतिबुद्धः कुमारः श्रमखिन्नांस्तुरङ्गमान् पश्यन् रथाग्रे च वरधनुमपश्यन् जलनिमित्तं वरधनुगतो भविष्यतीति चिन्तितवान् । इतस्ततः पश्यन् कुमारो रथाग्रभागं रुधिरावलिप्तं ददर्श । ततो व्यापादितो वरधनुरिति ज्ञात्वा हाहा ! हतो मे सुहृदिति शोकातः कुमारो रथोत्संगात्पपात, मूर्छा च प्राप्तवान् । पुनरपि लब्धचैतन्यः स एवं विललाप । हा भ्रातः ! हा वरधनुमित्र ! ॥१३६॥ R||१३६॥ Jain Educatidalmational For Personal & Private Use Only Selelibrary.org Page #141 -------------------------------------------------------------------------- ________________ ॥१३७॥ त्वं व गतोऽसीति विलपन कुमारः कथमपि रत्नवत्या रक्षितः। कुमारो रत्नवती प्रत्येवमाह--सुन्दरि! न ज्ञायते वरधनुम तो जीवन् वास्तीति । ततोऽहं तदन्वेषणार्थ पश्चाद्वजामि । तया भणितमार्यपुत्र ! अवसरो नास्ति पश्चाद्वलनस्य, येनाहमेकाकिनी, चौरश्वापदादिभीमं चारण्यमिदम् , अत्र च निकटवर्ती सीमावकाशोऽस्ति, येन परिम्लानाः कुशकण्टका दृश्यन्ते । एतद्रत्नवतीवचः प्रतिपद्य रत्नवत्या सह कुमारः पथि गन्तु प्रवृत्तः मगधदेशसन्धिसंस्थितमेकं ग्रामं च प्राप्तः तब प्रविशन कुमारः सभामध्यस्थितेन ग्रामाधिपतिना दृष्टः। दर्शनानन्तरमेव एष न सामान्य पुरुष इति ज्ञात्वा सोपचारः प्रतिपत्त्या पूजितो नीतश्च स्वगृहम, दत्तस्तत्र सुखावासः। तत्र सुखं तिष्ठन् स एकदा ग्रामाधिपतिना भणित:-कुमार! त्वं विखिन्न इव कि लक्ष्यसे ? कुमारेणोक्तम्--मम भ्राता चौरेण सह भण्डनं कुर्वन् न जाने कामप्यवस्था प्राप्तः, ततो मया तदन्वेषणार्थ तत्र गन्तव्यम् । ग्रामाधिपेनोक्तमलं खेदेन, यद्यस्यामटव्यां स भविष्यति तदावश्यमिह प्राप्स्यामः। इति भणित्वा तेन प्रेषिता निजपुरुषा अटव्यां गत्वा समायाताः कथयन्ति, यदस्माभिः सर्वत्र स पुरुषो गवेषितः परं क्वचिन्न दृष्टः । किन्तु प्रहारापतितो वाण एवैष दृष्टः । ततः कुमारो वरधनुमृत इति चिरकालं शोकं चकार । एकदा रात्रौ तस्मिन् ग्रामे चौरधाटिः पतिता, सा च बाणः कुमारेण जर्जरीकृता नष्टा । अथ हर्षितो ग्रामाधिपतिमश्च । अथ ग्रामाधिपतिमापृच्छ्य ततश्चलितः कुमारः क्रमेण राजगृहं प्राप्तः । तत्र नगराद्वहिः परिव्राजकाश्रमे रत्नवतों मुक्त्वा स्वयं नगराभ्यन्तरे गतः। तत्रैकस्मिन् प्रदेशे तेन धवलगृहं दृष्टम् । तदन्तः प्रविष्टेन कुमारेण द्वे कन्ये दृष्टे, ताभ्यां कुमारं दृष्ट्वा प्रकटितानुरागाभ्यां भणितम् । कुमार ! युष्मादृशामपि XXXXXXXXXXXXXXXXXXXXXXX *॥१३७॥ Jain Education R ational For Personal & Private Use Only wwJUNalibrary.org Page #142 -------------------------------------------------------------------------- ________________ "श्री चक्क हिस्स कहा" ॥१३८॥ 京 पुरुषाणां रक्तजनमुत्सृज्य भ्रमितु किं युक्तं ९ कुमारेणोक्तं स जनः कः १ येनैवं यूयं भणथ । ताभ्यामुक्तं प्रसादं कृत्वासने निविशन्तु भवन्तः । तत उपविष्ट आसने कुमारः । ताभ्यां कुमारस्य मञ्जनस्नानाद्युपचारं कृत्वोक्तम्, कुमार ! श्रूयतामस्मवृत्तान्तः- sa भरक्षेत्रे वैतायगिरिदक्षिणश्रेणिमण्डिने शिवमन्दिरे नगरे ज्वलनशिखो राजा, तस्य विद्युच्छिखानाम्नी देवी, तस्या आवां द्वे पुग्यौ । अस्मद्भ्राता उन्मत्तो नाम वर्तते । अन्यदास्मत्पिताग्निशिखाभिधानेन मित्रेण समं यावद्गोष्ठ्यां प्रविष्टस्तिष्ठति, तस्मिन्नवसरेऽष्टापदपर्वताभिमुखं व्रजन्तं सुरासुरसमूहं पश्यति । राजापि पुत्रीसहितस्तत्र गन्तुं प्रवृत्तः, अष्टापदे प्राप्तो जिनप्रतिमाश्च वंदिताः, कर्पूरा-गुरुधूपाद्युपचारो महान् कृतः । प्रदक्षिणात्रयं गृहीत्वा निर्गच्छता राज्ञाऽशोकपादमस्याध उपविष्टं चारणमुनियुगलं दृष्टं प्रणतं च । तत्रोपविष्टस्य राज्ञः पुरस्ताद्गुरुणैवं धर्मदेशना कर्तुमारब्धा -- असारः संसारः, शरीरं भङ्गुरम्, शरदओपमं जीवितम्, तडिद्विलसितानुकारि यौवनम्, किम्पाकफलोपमा भोगाः, सन्ध्यारागसमं विषयसुखम् कुशाग्रजलबिन्दुचञ्चला लक्ष्मीः, सुलभं दुःखम्, दुर्लभं सुखम्, अनिवारितप्रसरो मृत्युः, तस्मादेवं स्थिते सति भो भव्याः ! मोहप्रसरं छिन्दन्तु जिनेन्द्रधर्मे मनो नयन्तु । एवं चारणश्रमणदेशनां श्रुत्वा सुरादयो यथाऽऽगतास्तथा गताः । तदा लब्धावसरेणाग्निशिखिना भणितम् - - यथैतासां बालिकानां को भर्ता भविष्यति १ चारणश्रमणाभ्यामुक्तमेते द्वे कन्ये भ्रातृवधकारिणो नार्यो भविष्यतः । तयोरेतद्वचः श्रुत्वा राजा श्याममुखो जातः । Jain Educatio national For Personal & Private Use Only " द्वादशम् ब्रह्मदत्त चक्रवर्ति चरितम् " ॥१३८॥ Pahelibrary.org Page #143 -------------------------------------------------------------------------- ________________ ॥ १३६ ॥ अस्मिन्नवसरे आवाभ्यामुक्तम्, तात ! साम्प्रतमेव साधुभ्यामुक्तं संसारस्वरूपम् । तत आवयोरलमेवंविधावसानेन विषयसुखेन, आवयोरेतद्वचस्तातेन प्रतिपन्नं, आवाभ्यां च भ्रातृस्नेहेन स्वदेहसुखकारणानि त्यक्तानि । आतुरेव स्नानभोजनादिचिन्तां कुर्वन्त्याबावां तिष्ठावः । अन्यदास्मन् भ्रात्रा पृथिवीं भ्रमता दृष्टा कुमार ! भवन्मातुलपुत्री पुष्पवती कन्यका । तद्रूपाक्षिप्तचित्तस्तां हृत्वा आगतः । परं तद्द्दष्टि सोढुमक्षमः स विद्यां साधयितुं गतः । अतः परं वृत्तान्तो युष्माकं ज्ञानगोचरोऽस्ति । तस्मिन् काले भवदन्तिकादागत्य पुष्पवत्या आवयोर्भ्रातृवधवृत्तान्तः कथितः । ततः शोकभरेण आवां रोदितुं प्रवृत्ते, मधुरवचनैश्च पुष्पवत्या रक्षिते । तदा आवां शङ्करीविद्या एवं वक्तुं प्रवृत्ता, असौ भ्रातृवधकारी ब्रह्मदत्तश्चक्रवर्ती भविष्यति, युवां मुनिवचनं किं न स्मरथः १ एतद्वचनमाकर्ण्य आवास्यां जातानुरागाभ्यां मानितम्। परं पुष्पवत्या बालिकया स्नेहरस सम्भ्रान्तया रक्तपताकां विहाय श्वेतपताका चालिता । तद्दर्शनानन्तरं त्वमन्यत्र कुत्रापि गतः । नानाविधग्रामा -ऽऽकर - नगरादिषु भ्रमन्तीभ्यामावायां त्वं क्वचिन्न दृष्टः । ततो विखिन्ने आवामिहागते । साम्प्रतमत किंत हिरण्यसमं तव दर्शनं जातम् । ततो हे महाभाग ! पुष्पवतीव्यतिकरं स्मृत्वा कुरु अस्मत्समीहितम् । एवं श्रुत्वा कुमारेण सहर्ष मानितम् । गन्धर्वविवाहेन तयोः पाणिग्रहणं कृतम् । एकरात्रौ ताभ्यां सममुषित्वा प्रभाते कुमारस्तयोरेवमुवाच - - युवां पुष्पवत्या समं गच्छतम् । तया समं च तावत्स्थातव्यम्, यावन्मम राज्यलाभो भवति । एवं श्रुत्वा ते गते । तावत्कुमारो न नद्धवलगृहं, न तं परिजनं च पश्यति, चिन्तितair एषा विद्याधरीमायेति चिन्तयन् रत्नवतीगवेषणानिमित्तं स तापसाश्रमाभिमुखं गतः । न च तत्र तेन रत्नवती For Personal & Private Use Only Jain Education international ॥१३६॥ Page #144 -------------------------------------------------------------------------- ________________ वक्तवाट्टिस्स कहा" "द्वादशम् ब्रह्मदत्त चक्रवर्तिचरितम् ॥१४॥ EXXXXXXXXXXXXXXXXXXkkk दृष्टा, न चान्यः कोऽपि पुरुषो दृष्टः । ततः कं पृच्छामीति विचार्य स इतस्ततः पश्यति । तावदेको भद्राकतिः पुरुष स्तत्रायातः । कमारेण स पृष्टः, भो महाभाग! एवविधरूप-नेपथ्या एका स्त्री मयात्र मुक्ता, कल्येऽद्य वा त्वया सा दृष्टा ? तेन भणितं पुत्र ! त्वं किं तस्या रत्नवत्या भर्ता ? कुमारो भणति एवम् । तेन भणितम् कल्ये सा मया रुदन्ती दृष्टा, अपराह्नकाले च तस्याः समीपे गतः । पृष्टा च सा मया पुत्रि ! कासि त्वं ! कुतः समागता ? किं ते शोककारणं व वा त्वया गन्तव्यम् ? तया किश्चित्कथिते सा मया प्रत्यभिज्ञाता, मम त्वं दौहित्री भवसीत्युदित्वा मया तस्य लघु पितुः समीपे गत्वा शिष्टा । तेनाप्युपलक्ष्य सा विशेषादरेण स्वमन्दिरे प्रवेशिता । सर्वत्र त्वं गवेषितः परं न क्वचिद् दृष्टाः । साम्प्रतं सुन्दरं जातं यत्त्वं लब्धः। एवमुक्त्वा नीतः कुमारस्तद्गृहे, उपचारः कृतः । तत्र महोत्सवेन रत्नवतीपाणिग्रहणं कुमारः कृतवान । तया सह विषयसुखमनुभवंश्च कियत्कालं तस्थौ । अन्यदा वरधनुवर्षदिवसोऽद्येत्युक्त्वा तद्गहे कुमारेण ब्राह्मणदयो भोजिताः । अस्मिन्नवसरे वरधनुः कृतब्राह्मणवेषो भोजननिमित्तमागतः एवं भणितुं प्रवृत्तश्च । भो ज्ञापयन्तु तस्य भोज्यकारिणो यथा--यदि मम भोज्यं प्रयच्छथ तदा तस्य परलोकवर्तिन उदरे भोज्यं सङ्क्रामति । गृहपुरुषैस्तद्वचः कुमाराय शिष्टम् , कुमारोऽपि गृहाद्वहिर्निर्गतः। दृष्टो बरधनुः प्रत्यभिज्ञातश्च । गाढं कुमारेणालिङ्गितो गृहमध्ये प्रवेशितः स्नान-मजन-भोजनादिभिः सत्कृतश्च अनन्तरं कुमारेण पृष्टो वरधनुः स्ववृत्तान्तं जगौ । यथा तस्यां रात्रौ निद्रावशमुपागतेषु युष्मासु सत्सु पृष्टतो धावित्वा चौरेणैकेन कुडगांतरितेन मम पादे बाणप्रहारः कृतः। तद्वदनापरवशोऽहं निपतितो महीतले, परमपायमी ||१४०॥ Jain Educatlam ational For Personal & Private Use Only nelibrary.org Page #145 -------------------------------------------------------------------------- ________________ ॥१४॥ *****XXXXXXXXXXXXXXXXXXX रुत्वेन मया युष्माकंन निवेदितम् , रथस्त्वग्रे चरितः। अहं तु शनैः शनैः पतितवृक्षान्तराले चलन महता कष्टेन तस्मिन् ग्रामे प्राप्तो यत्र यूयं स्थिताः। तेन ग्रामाधिपतिना सत्कृतः । युष्माकं प्रवृत्तिं श्रुत्वाहमद्य प्रगुणीभूतो भोजनप्रस्तावे समागतः । यूयमद्य मद्भाग्यान्मिलिताः । अथ तयोस्तत्राऽवियुक्तयोः सहर्ष दिवसा यान्ति । अन्यदा ताभ्यां परस्परमेवं विचारितम् । यथावाम्यां कियत्कालं मुक्तपुरुषाकाराम्यां स्थातव्यम् ? एवं च चिन्तयतोस्तयोगतः कियान् कालः। अन्यदा तत्र समायातो मधुमासः, मदनमहोत्सवे जायमाने सबैलोको नगरादहिः क्रीडितुमायातः । वरधनु-कुमारावपि कौतुकेन नगरादहिगतौ निर्भरक्रीडारसनिमग्ने लोकेऽतर्कित एव पातितर्मिण्ठो निरंकुशो राज्ञो हस्ती तत्रायातः, समुच्छलितकोलाहलो भग्नक्रीडारसो नष्टः सन्नातामन्रीनिकरः । एका च बालिका समुन्नतपयोधरा नश्यन्ती तस्य हस्तिनो दृष्टौ पतिता, सा शरणं मार्गयन्ती इतस्ततः पश्यति, तस्याः परिजनाः पूत्कुर्वन्ति । भयभ्रान्तायास्तस्याः पुरो भूत्वा कुमारेण स करी हक्कितः, एषा च मोचिता । सोऽपि करी तो मुक्त्वा रोषपशविस्तारितलोचनः प्रसारितशुण्डादण्डः शीघ्र कुमाराभिमुखं धावितः, कुमारेणाप्युत्तरीयवस्त्रं गजाभिमुखं प्रक्षिप्तम् । गजेन तद्वस्त्रं शुण्डया गृहीत्वा गगने प्रक्षिप्तम् । गगनाच्च पुनर्भूमौ निपतितम् , तद्ग्रहणाय यावत्करी पुनर्भूम्यभिमुखं परिणमति, तावदुत्प्लुत्य कुमारस्तत्स्कन्धमारूढः, स्वकरतलाभ्यां तत्कुम्भस्थलमास्फालितवान् । मधुरवचनैश्च संतोषितः सन् करी स्ववशं नीतः। समुच्छलितः साधुकारः, जयति कुमार इति पठितं बन्दिजनैः। कुमारेण स करी आलानस्तम्भसमीपं नीतो बद्धश्च । नरपतिस्तमनन्यसदृशं दृष्ट्वा परमं विस्मयं प्राप्तः स्वमन्त्रिणं पप्रच्छ । क एषः १ ततः कुमारस्वरूपाभिशेन मन्त्रिणोक्तम् । **************XXXXXXXXX XXXXXXX * ॥१४॥ Jain Educa t ional For Personal & Private Use Only w rbelibrary.org Page #146 -------------------------------------------------------------------------- ________________ "श्री चक्क हिस्स - कहा " ॥१४२॥ *************** एष ब्रह्मराज्ञः पुत्रो ब्रह्मदत्तकुमार इति । ततस्तुष्टेन राज्ञा नीतः कुमारः स्वभुवनम् । सत्कृतश्च स्नान-मज्जन- भोजनादिभिः । ततः कुमारस्याष्टौ स्वपुत्र्यो दत्ताः । महोत्सवपूर्वकं तासां पाणिग्रहणं कुमारेण कृतम् । तत्र कियद्दिनानि वरधनुकुमारौ सुखेन स्थितौ । अन्यदा एका स्त्री कुमारसमीपमागत्य भणितुं प्रवृत्ता यथा - कुमार ! अस्ति किश्चिद्वक्तव्यं तव, कुमारेणोक्तं वद १ सा उवाच - अस्यामेव नगर्या वैश्रमणो नामा सार्थवाहः, तस्य पुत्री श्रीमत्यस्ति, सा मया बालभावादारभ्य पालिता, या त्वया तदानीं हस्तिसम्भ्रमाद्रक्षिता । हस्तिसम्भ्रमोद्धरिता सा तदानीं जीवितदायकं af स्नेहेन विलोकितवती साम्प्रतं त्वदेकचित्ता त्वद्रूप लावण्य-कलाकौशलमोहिता त्वामेव स्मरन्ती परिजनेन कथमपि स्वमन्दिरं नीता । तत्रापि सा न मज्जन- भोजनादिदेहस्थिर्ति करोति । तदानीं मया तस्या उक्तम् - कथं स्वमकाण्डे ईदृशी जाता ? यावन्ममापि प्रतिवचनं न ददासि हसित्वा सा एवमुवाच । हे अम्ब : भवत्याः किम१ कथनीयम् ? परं लज्जया किञ्चिद्वक्तुं न शक्नोमि । पुनर्मया साग्रहं पृष्टा सोवाच - - येनाहं हस्ति सम्भ्रमाद्र क्षिता, तेन समं यदि मम पाणिग्रहणं न स्यात्, तदा मेऽवश्यं मरणम् । एवमुक्त्वा तयाहं तव समीपे प्रेषिता, अङ्गीकुरुतां बालिकाम् । कुमारेण तद्वचोऽङ्गीकृतम् । प्रशस्तदिवसे तस्याः पाणिग्रहणं कुमारेण कृतम् । वरधनुना तु सुबुद्धिनामामात्यपुत्र्या नन्दननाम्न्याः पाणिग्रहणं कृतम् । एवं च द्वयोरपि विषयसुखमनुभवतोस्तयोर्गताः कियन्तो वासराः, तयोः सर्वत्र प्रसिद्धिर्जाता । तात्रन्यदा गतौ वाराणस्याम्, ब्रह्मदत्तं वहिः स्थापयित्वा वरधनुर्नगरस्वामिकटकसमीपं गतः । एष हर्षितः सबल Jain Educaernational For Personal & Private Use Only " द्वादशम ब्रह्मदत्त चक्रवर्तिचरितम् " ॥१४२॥ nelibrary.org Page #147 -------------------------------------------------------------------------- ________________ ॥१४३॥ वाहनः सम्मुखो निर्गतः, कुमारं च हस्तिस्कन्धे समारोप्य नगरीप्रवेशोत्सवो महान् कृतः। स्वभवने नीतस्य कुमारस्य स्नानमज्जन-भोजनादिसामग्री कृत्वा, प्रकामं सत्कारं च कृत्वा स्वपुत्री कनकवती अनेकहय-गज-रथ-द्रव्यकोशसहिता दत्ता। प्रशस्तविवाहो जातः । तया समं विषयसुखमनुभवतस्तस्य सुखेन कालो याति । ततो दूतसम्प्रेषणेनाकारिताः सबलवाहनाः पुष्पचूलराज-धनुमन्त्रि-कणेरदत्त-भवदत्तादयोऽनेके राजमन्त्रिणः समायाताः। तैः सर्वैः कुमारो राज्येऽभिषिक्तः, वरधुनुस्तु सेनापतिः कृतः । ब्रह्मदत्तः सर्वसैन्यसहितो दीर्घनृपोपरि चलितः। अनविच्छिन्नप्रयाणैश्च काम्पिन्यपुरे प्राप्तः । दीर्घनृपेणापि कटकादीनां दूतः प्रेषितः। परं तैस्तु निभत्सितः दूतः स्वस्वामिसमीपे गतः। ब्रह्मदत्तसैन्येन काम्पिल्यपुरं समन्ताद्वेष्टितम् । ततो दीर्घनृपेणैवं चिन्तितम् , कियत्कालमस्माभिलिप्रविष्टैरिव स्थेयम् ? साहसमबलम्ब्य नगरात्स्वसैन्यपरिवृतो दीर्घनृपो निर्गत्य सम्मुखमायातः । ब्रह्मदत्तदीर्घनृपसैन्ययो?रः सङ्ग्रामः प्रवृत्तः । क्रमाद् ब्रह्मदत्तसैन्येन दीर्घनृपसैन्यं भग्नम् । अथ दीर्घनृपः स्वयमुत्थितः ब्रह्मदत्तोऽपि तमायातं वीक्ष्य प्रदीप्तकोपानलस्तदभिमुखं चलितः । तयोर्द्वयोयुद्धं लग्नम् । अनेकैरायुधैनिक्षिप्तैर्न तयोः सङ्ग्रामरसः सम्पूर्णो बभूव । ब्रह्मदत्तेन ततश्चक्रमुक्तम् । चक्रेण दीर्घनृपमस्तकं छिन्नम् । ततो जयत्येष चक्रवर्तीत्युच्छलितः कलकलः, सिद्धगन्धवदेवैर्मुक्ता पुष्पवृष्टिः, उक्तं च उत्पन्नोऽयं द्वादशश्चक्री । ततो जनपदलौकै स्तूयमानो नारीवृन्दकृतमङ्गलः कुमारः स्वमन्दिरे प्रविष्टः। कृतश्च सकलसामन्तैर्ब्रह्मदत्तस्य चक्रवर्त्यभिषेकः । चक्रवर्तित्वं पालयन् ब्रह्मदत्तः सुखेन कालं निर्गमयति । अन्यदा चक्रवर्तिनः पुरो नटेन नाट्य कतु मारब्धम् । स्वदास्या अपूर्व कुसुमदामगण्डं हस्ते ढौकितम् । तव प्रेक्षतो गीत XXXXXXXXXXXXXXXXXXXXXXX ॥१४३ Jain Educatiotsational For Personal & Private Use Only Dhorary.org Page #148 -------------------------------------------------------------------------- ________________ चक्कचट्टिस्स "द्वादशम ब्रह्मदत्त चक्रवर्तिचरितम् ॥१४४॥ XXXXXXXXXXXXXXXXXXXXXXXX विनोदं शृण्वतश्चक्रवर्तिन एवं विमों जातः । एवंविधो नाट्यविधिर्मया क्वचिद् दृष्टः, क्वचिच्चैतादृशं पुष्पदामगण्डमपि घातम् । एवं चिन्तयतस्तस्य जातिस्मरणमुत्पन्नम् । दृष्टाः पूर्वभवाः, तत्र सौधर्म पद्मगुल्मविमानेऽनुभूतं नाटथदर्शनदिव्यपुष्पाघ्राणादिकं तस्य स्मृतिपथमाययौ। देवसुखस्मरणेन मूर्छा गतः पतितो भूमौ चक्री । पार्श्ववर्तिभिर्वातोक्षेपादिना स्वस्थीकृतः । ततश्चक्रवर्तिना पूर्वेभवभ्रातृशुद्धयर्थ श्लोकाधमिदं रचितम् , यथा "आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा ।।" इदं श्लोकाधं कृत्वा चक्रिणा वरधनुसेनापतेरुक्तम् , इदं श्लोकाधं सर्वत्र निर्घोषय ? एतत्पश्चिमाधं यः पूरयति तस्य राजा राज्याधं ददाति । इदं श्लोकाध सर्वैलर्लोकः शिक्षितम् , ते यत्र तत्र निर्घोषयन्ति अत्रावसरे स पूर्वभवसम्बन्धी भ्राता चित्रजीवः पुरिमतालनगरे इम्यपुत्रो भूत्वा सञ्जातजातिस्मरणो गृहीतव्रतस्तत्र नगरे मनोरमाभिधाने आरामे समवसृतः। तत्र प्रासुके भूभागे पात्रोपकरणानि निक्षिप्य धर्मध्यानोपगतः कायोत्सर्गेण स्थितः । अत्रान्तरे आरपट्टिकेन पठ्यमानं तत् श्लोकार्ध मुनिना श्रुतम् । ज्ञानोपयागेन स्वभ्रातृस्वरूपं सर्वमवगम्य मुनिनोत्तरचरणद्वयं पूरितम्-- "एषा नो षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥१॥" ततोऽसावारघट्टिकस्तत् श्लोकाधं लिखित्वा प्रफुल्लास्यपङ्कजो गतो राजकुलम् , पटितश्चक्रिणः पुरः सम्पूर्णः श्लोकः । ततः पूर्वभवभ्रातृस्नेहातिरेकेण चक्री मूर्छा गतः । क्षुभिता सभा । रोषवशंगतेन सेवकवर्गेण आरघट्टिकश्चपेटाभिहंतुमारब्धः, हन्यमानेन तेनोचे, इदं पदद्वयं मया न पूरितम् , किन्तु वनस्थेन मुनिनेति विलपन्नसौ मोचितः। गतमूर्छन चक्रिणा पूर्वभवभ्रातृमुनि समागतं श्रुत्वा KXXXXXXXXXXXXXXXXXXXXXXXX १४४॥ Jain EducatSRinational For Personal & Private Use Only elibrary.org Page #149 -------------------------------------------------------------------------- ________________ ॥१४॥ तद्भक्तिस्नेहाकृष्टचित्तो ब्रह्मदत्तचक्री सपरिकरो निर्ययौ। उद्याने तं मुनि ददर्श, वन्दित्वा चाग्रे उपविष्टः । मुनिना प्रारब्धा धर्मदेशना । दर्शिता भवनिगुणता, वर्णिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमागः, ख्यापितः शिवसौख्यातिशयः। इमां देशनां श्रुत्वा पर्षत्संविग्ना जाता। ब्रह्मदत्तस्त्वभावित एवमाह--भगवन् ! यथा स्वसङ्गसुखेन वयमाह्लादितस्थिता राज्यस्वीकारेण साम्प्रतमस्मानाहादयन्तु, पश्चादावां तपः स्वयमेव करिष्यावः। एतदेव वा तपसः फलम् । मुनिराह-युक्तमेवेदं वचो भवतामुपकारोद्यतानाम् । परमियं मनुष्यता दुर्लभा, सततं पतनशीलमायुः, श्रीश्च चञ्चला, अनवस्थिता धर्मबुद्धिः, विषया विपाककटवः, विषयासक्तानां च ध्रवो नरकपातः, दुर्लभं पुनर्मोक्षबीजं विरतिरत्नम् , तत्त्यागानरकपातहेतुः, कतिपयदिनमावि राज्याश्रयणं न विदुषां चित्तमालादयति । ततः परित्यज्य कदाशयं प्राग्भवानुभूतदुःखानि स्मर । पिब जिनवचनामृतरसम् । सञ्चर तदुक्तमार्गेण । सफलीकुरु मनुष्यजन्मेति । स प्राह-भगवन्नुपनतत्यागेनाऽदृष्टसुखवाञ्छाऽज्ञानतालक्षणम् , तन्मेवमादिश, कुरु मत्समीहितं । मुनिराह संसारसुखस्य भोगः परभवे महते दुःखाय भावीति तत्त्यागः कार्यः। एवं मुनिना वारंवारमुक्तोऽपि यदा चक्रवर्ती न प्रतिबुध्यते । तदा मुनिना चिन्तितम् । आः ज्ञातम्, पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नकेशसंस्पशनजाताभिलाषातिरेकेण सम्भूतभवेऽमुना मया निवार्यमाणेनापि चक्रवर्तिपदवीप्राप्तिनिदानं कृतम् । तस्येदृशं फलम् । अतः कारणादसौ दुष्टाध्यवसायो जिनवचनान्यसाध्यानि इत्युपैक्षितानि । मुनिस्ततो विजहार, क्रमेण च मोक्षं गतः। चक्रिणाऽपि प्रकामं सुखमनुभवतः कियान् कालोऽतीतः । अन्यदैकेन पूर्वपरिचितेन द्विजातिनोक्तोऽसौ, भो राजाधिराज ! KXXXXXXXXXXXXXXXXXXXXXXXX KXXXX****** ॥१४॥ IMChelibrary.org Jain Educa ! For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ "श्री चकाट्टिस्स द्वादशम ब्रह्मदत्त चक्रवर्तिचरितम्" कहा" ************ // 146 // ममेडशी वाञ्छा समुत्पन्नास्ति यच्चक्रिभोजनं भुजे। चक्रिणोक्तम् भो द्विज! मामकं भोजनं भोक्तु त्वमक्षमः, यतो मां विहाय मद्भोजनमन्यस्य न परिणमति, ततो ब्राह्मणेनोक्तम् धिगस्तु ते राज्यलक्ष्मीमाहात्म्यम् , यदन्नमात्रदानेऽप्यालोचयसि / ततश्चक्रिणा कृते तस्य भोजनमङ्गीकृतम् / स्वगृहे निमन्व्य स्वभोजनदानेन भोजितश्चासौ भार्या-पुत्र स्नुषा-दुहित-पौत्रादिकुटुम्बान्वितः भोजनं कृत्वा स स्वगृहे गतः / रात्रावत्यन्तजातोन्मादप्रसरोऽनपेक्षितमातृ-स्नुषाभगिनीव्यतिकरो महामदनवेदनानष्टचित्तः प्रवृत्तोऽकार्यमाचरितं द्विजः। द्वितीये दिने मदनोन्मादोपशान्तः परिजनस्य निजमास्यं दर्शितुमपारयन् निर्गतो नगरात्स द्विज एवं चिन्तयामास / अनिमित्तवैरिणा चक्रिणाहं विडम्बितः अमर्ष वहता तेन द्विजेन वने भ्रमता एकोऽजापालको दृष्टः, स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् लक्ष्यवेधी वर्तते / द्विजेन चितितं मद्विवक्षितकार्यकरोऽयमिति कृत्वोपचरितस्तेन दानसन्मानादिभिः। कथितस्तेन स्वाभिप्रायोऽस्य रहसि / तेनापि प्रतिपन्नः / अन्यदा गृहान्निगच्छतो ब्रह्मदत्तस्य कुडयन्तरिततनुनानेन अमोघवेधिना निक्षिप्तगोलिकया समकालमुत्पाटिते लोचने। राज्ञा तवृत्तान्तमवगम्य उत्पन्नकोपेनासौ सपुत्रवान्धवो घातितः। ततश्चक्रिणान्येऽपि द्विजा घातिताः / अशान्तकोपेन च चक्रिणा मन्त्रिण एवमुक्तम् , यथा ब्राह्मणानामक्षीणि कर्षयित्वा स्थाले निक्षिप्य स्थालं मम पुरो निधेहि 1 यतोऽहं तानि स्वहस्तेन मर्दयित्वा वैरवालनसुखमनुभवामि / मन्त्रिणा तस्य चक्रिणः क्लिष्टकर्मोदयवशतामवगम्य शाखौटतरुफलानि स्थाले निक्षिप्य अर्पितानि / सोऽपि रौद्रध्यवसायस्तानि फलान्यक्षिबुद्धया मर्दयित्वा सुखमनुभवति / एवं स प्रत्यहं करोति / ततः सप्तशतानि षोडशोत्तराणि वर्षाणि आयुरनुपाल्य प्रवर्धमानरौद्राध्यवसायः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारको बभूव / For Persona 45 vate Use Only KXXXXXXX // 146 // Jain Educa t ional M Khelibrary.org