SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॥४१॥ किस्तस्थौ । तथा कपिलः सत्यके पितुरिव सविशेषां भक्तिं चकार । तेन प्रीतश्च सत्यकिः किमेतस्मै करोमीत्यचिन्तयत् । तदा सत्यकर्जम्बुका नाम भार्या शीलरूपादिसमन्वितायाः स्वपुत्र्याः सत्यभामाख्यायाः सम्प्राप्तयौवनाया वरान्वेषणाय तं प्रेरयामास । ततः सत्यकिरूचे "रूपगुणसम्पन्नो विनीतः कपिलो विप्रः सत्यभामोचितो वरोऽस्ति ।" जम्बुकया च तत्स्वीकृते शुभे लग्ने सत्यकिविधिवत्सत्यभामाकपिलयोविवाहं व्यधात् । ततश्च कपिलः सत्यकिवत्पौरैः पूज्यमानः सर्वेष्वपि पर्वसु सत्यकेरपि पूज्योऽयमिति धनधान्यादिभिः सक्रियमाणः सत्यभामया सह भोगान् भुजानो धनैर्गुणैश्च समृद्धो जज्ञे । एकदा च प्रावृषि स निशि नाट्यविलोकनाय सदनादहिगतश्चिरं तत्र स्थितः । ततो निवृत्तस्य गृहं गच्छतोऽर्धमार्गेऽम्बुदो वर्षितुमारब्धवान् । ततः स तदानीं विजनत्वानग्नीभूय स्ववाससी कक्षान्तः प्रक्षिप्य वेरमद्वारं प्राप्तः पुनस्तत्पर्यधात् । सत्यभामा च वृष्टया मद्भ वस्त्रास्तिमितानि स्युरिति बुद्धयाऽन्यवस्त्राणि गृहीत्वा समुपस्थिता “विद्याप्रभावेण मे वस्त्रे न स्तिमिते, तदन्यैर्वासोभिरलमि" त्युक्ता कपिलस्य वासांस्यनााणि शरीरं चाद्रं विलोकमाना दध्यौ-"यदि विद्याशक्त्या स्ववासांस्यसावरक्षत्तदा स्वाङ्ग कथं नाऽरक्षत् । नूनं नग्नोऽयमागतोऽस्ति । अतोऽयं मत्पतिरकुलीनो मेधावलादेव कर्णश्रुत्या श्रुतीरध्यगीष्ट"। एवं मन्यमाना च तत्प्रभृति तस्मिन् कपिले सा मन्दानुरागा जाता । देवाच्च क्षीणधनस्तदैव धरणीजट आढयं कपिलं श्रुत्वा धनेच्छया समाययौ कपिलश्च स्वयं पाद्यस्नानादिना तं सच्चक्रे । भोजनाऽवसरे प्राप्ते च प्रियां प्रोवाच-"प्रिये! शरीरबाधा ममाऽस्ति, ततः पितृहेतवे भोजनं विभिन्नं XXXXXXXX ॥४१॥ elibrary.org Jain Educator national For Personal & Private Use Only
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy