________________
किवट्टिस्सा
कहा"
"पञ्चमः श्रीशान्तिनाथ।
चक्रवर्ती| चरितम्"
।४०॥
XXXXXXXXXXXXXX
अथाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धविभूषणे रत्नपुरे पुरे धर्मार्थकामाननाबाघया सेवमानः प्रार्थिजनकल्पद्रुमो रूपवान् दयावांश्च श्रीषेणो नाम नृपो बभूव । तस्य च शीलगुणसमन्विते रूपतिरस्कृतदेव्यावभिनन्दिताशिखिनन्दिते द्वे पत्ल्यावभूताम् । कालक्रमेण चाऽभिनन्दिता गर्भ दधौ । तदानी च सा स्वोत्सङ्गस्थौ सूर्याचन्द्रमसौ स्वप्ने ददर्श । नृपश्च तवोत्कृष्टं पुत्रद्वयं भावीति स्वप्नफलमाख्यत् । पूर्णे च समये सा देवी पुत्रद्वयमसूत । ततः श्रीषेणः समहोत्सवं तयोरिन्दुषेणो बिन्दुषेणश्चेत्यभिधानमकरोत् । धात्रीमिाल्यमानौ च तौ क्रमाद्वर्धमानौ सर्वशस्त्रशास्त्रनिपुणतामापन्नौ कामक्रीडावनं यौवनं प्रतिपेदाते ।।
इतश्चात्र भरते मगधेषु ग्रामोत्तमेऽचलग्रामे वेदविद् धरणीजटनामा विप्राग्रणीभूव । तस्य च कुलीना यशोभद्रानाम पत्न्यासीत् । तस्याश्च क्रमेण नन्दिभूतिश्रीभूतिनामनौ द्वौ पुत्रौ जज्ञाते । तथा तस्य विप्रस्य कपिलाख्यायां दास्यां कपिलो नाम पुत्रो बभूव । स द्विजो नन्दिभूतिश्रीभृतिसुतौ साङ्गान् सरहस्यान् वेदानपाठयत् । अतिमेधावी कपिलोऽपि च तत्सर्व तूष्णीकोऽवधारयन् वेदाब्धिपारगो जज्ञे । स च कपिलः प्रकटवैदुषिको यज्ञोपवीतद्वितयं कण्ठदेशे निधाय द्विजोऽस्मीति गिरा प्रकाशयन् देशान्तरेषु बभ्राम । भ्रमंश्च स क्रमेण रत्नपुरपतनं प्राप्याऽशेषपौरोपाध्यायस्य सत्यकिनाम्नः कलानिधेः पाठशाला दिने दिने गत्वा पृच्छतां छात्राणां संशयानच्छिदत् । ततश्च विस्मितः सत्यकिदुर्ज्ञानानि शास्त्ररहस्यानि तमपृच्छत् । कपिलश्च तस्मै तानि सविशेषाणि प्रत्यपादयत् । ततः सत्यकिस्तं राजा युवराजमिव सर्वकर्मधुरन्धरं चक्रे । स च सर्वशिष्याणामन्वहं व्याख्या चकार । तेन स्वेन पुत्रेणेव निश्चिन्तः सत्य
EXXXXXXXXXXXXXXXXXXXXXXXX
LAK
॥४०॥
Jain Educ
a
tional
For Personal Private Use Only
Ninelibrary.org