________________
॥३४॥
KXXXXXXXXXXXXXXXXXXXXXXXX
द्वौ विजयवैजयन्तौ सुरौ तत्समीपमुपेत्योचतुः-"महाभाग ! कि रोगैः । परिताम्यसि ?, आवां वैद्यौ स्वैरेव भेषजैविश्वं । चिकित्सावः । यदि त्वमनुजानासि, तहिं तव रोगान् शीघ्र निगृह्णावः। ततः सनत्कुमारः प्रत्यूचे-“भोश्चिकित्सकौ ! देहिनां भावतो द्रव्यतश्च द्विविधा रोगाः। क्रोधादयो भावरोगा जन्मान्तरसहस्त्रानुगा अत्यन्त दुःखदाः । युवा तांश्चिकित्सितुमीशौ चेत्तर्हि चिकित्सतम् । यदि द्रव्यरोगाश्चिकित्सथः, तर्हि पश्यतम्" । ततो गलत्पामामङ्गुली स्वकविग्रुषा लिप्त्वा द्राक्सुवर्णीचकार । तदृष्टा च तौ तस्य पादयोः पेततुरूचतुश्च-"त्वद्रूपं द्रष्टुं पूर्वमायातावेवाऽऽवां सम्प्रत्यप्यायातौ । शक्रश्च-लब्धसिद्धिरपि व्याधिबार्धा सहमानस्तपस्यती-ति त्वामवर्णयत् । तदावामिहागत्य प्रत्यक्षेण परीक्षितम्" इत्युदित्वा तौ देवौ तिरोहितौ ।
तदेवं चक्रिणस्तस्य कौमारे वर्षलक्षार्धम् , मण्डलित्वे च तावत् , दिग्जये दशवर्षसहस्राणि, चक्रित्वे नवतिवर्षसहस्राणि, व्रते वर्षलक्षमिति व्यब्दलक्षाण्यायुः । ततो ज्ञातावसानसमयोऽनशनं प्रपद्य पूरितायुः पश्चपरमेष्ठिनः स्मरन् सनत्कुमारः सानत्कुमारे कल्पे सुरः समजनिष्ट ॥ ७॥
षोडशमजिन पंचम चक्रवर्ती श्रीशान्तिनाथचरितम् ।
॥ प्रथमः सर्गः ॥ प्रादात्प्रजानां यः शान्ति गर्भस्थोऽपि जिनेश्वरः। अचिराकुक्षिजं विश्वसेनसूनुं नमामि तम् ॥१॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥३8 ।।
Jain Educatio
Alibrary.org
n
For Personal & Private Use Only
al