________________
श्रीसन।
पकवाट्टिस्स कहा"
कुमार
॥३८॥
(*XXXXXXXXXXXXXXX
चक्रवर्तीचरितम्"
कयितुमायातौ । लोके यथा वर्ण्यमानं तव रूपं श्रूयते, ततोऽप्येतत्सविशेषं निरीक्ष्यते" ततः सनत्कुमार ऊचे-"अभ्यक्तेऽङ्गे कियती कान्तिः, क्षणं प्रतीक्षेथाम् , यावन्मजनं निर्वय॑ते । पुनः कृतनेपथ्यं रूपं निरीक्षेथाम् ।" ततः स्नात्वा कृतनेपथ्यः स सभामध्यास्त । ततोऽनुज्ञातौ विप्रौ पुरोभृय नृपते रूपं ददृशतुः । विषण्णौ दध्यतुश्च-"तद्रूपं, सा कान्तिस्तल्लावण्यं च क्षणात्क्वाऽगात् १ । मर्त्यानां सर्वमेव क्षणिकम्" । ती विषण्णौ दृष्ट्वा राज्ञा पृष्टौ विप्रावूचतुः-"आवा सौधर्मवासिनौ सुरौ । शक्रकृतं तद्रूपवर्णनमश्रद्दधानौ द्रष्टुमिहागतौ । पुरा त्व द्रूपं यथा शक्रोक्तं दृष्टम् । तदिदानीमन्यादृशमेवाज्जायत । कान्तिसर्वस्वतस्करैर्व्याधिभिरधुना तव देहः समन्तादाक्रान्तः"। इति यथाथमभिधाय शीघ्र तिरोहतयोस्तयोनृपः स्वं विच्छायमपश्यत् । ततश्च सांसारिके वस्तुनि जातानित्यत्वभावनः सञ्जातवैराग्यः प्रव्रज्या जिघृक्ष सुतं राज्ये निवेश्योद्यानं गत्वा विनयन्धरसूरिपादपार्वे सर्वसावद्यविरति प्रधान व्रतमग्रहीत् । ततो महाव्रतधरस्याऽस्य विहरतोऽनुरागेण सर्व प्रकृतिमण्डलं पृष्ठतोऽनुसरत्षण्मासान यावत्पर्युपास्य कथश्चिन्न्यवर्त्तत । ___अन्यदा च कृतपष्ठः स सनत्कुमारो गोचरे प्रविष्टचीनककूर लेभे। साऽजातनं च तदभुक्त । भूयोऽपि पष्ठभक्तान्ते तथैव कृतात्पारणादस्य व्याधयो ववृधिरे । ततः स पुण्यात्मा वर्षशतानि यावत्कच्छशोषज्वरादिकाः सप्तवेदना अधिसेहे । तदेवं दुःसहान परीषहान सहमानस्य तस्य लब्धयः समुदपद्यन्त । ताश्च सप्त नामतः कफविद्युञ्जल्लविष्ठामषौंषधयो लब्धयः । अत्रान्तरे शक्रो जातचमत्कारो देवानुद्दिश्य तस्य वर्णनं चक्रे "अयं सनत्कुमारश्चक्रवर्तिश्रियं त्यक्त्वा दुस्तपं तपस्तप्यते । लब्धास्वपि सर्वासु लब्धिषु शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति । तद्वाक्यमश्रद्दधानौ
RRC
*॥३८॥
Jain Educa
l amational
For Personal & Private Use Only
ISRnelibrary.org