________________
॥ ३७ ॥
विकृत्य तदूर्ध्वं मण्डपसिंहासनादि क्षणाद्विधाय देवादिभिः क्षीरोदसलिलगन्धमाल्यादि च समानाय्य सनत्कुमारस्य सर्वे देवादिभिचक्रवर्तित्वाऽभिषेकं समहोत्सवं विधाय गजरत्नमध्यारोह्य तं हस्तिनापुरे प्रावीविशत् स्वपुरमिव च हस्तिनापुरं धनाकीर्णं कृत्वा कुबेरः स्वं धाम जगाम । तथा राजभिः सामन्ताभिश्च तस्याऽभिषेको विदधे । तस्याऽभिषेकोत्सवाच्च हस्तिनापुरं द्वादशाब्दीं यावद्दण्डशुक्लादिवर्जितमभूत् । स चक्री च पितेव विधिवत्सकलाः प्रजाः
पालयामास ।
तदानीं च सुधर्मायां रत्नसिंहासनस्थिते सौदामनीं नाटकं नाटयति शक्रे सर्वरूपाऽभिभाविनाऽनवद्येन रूपेण सर्वदेवानां विस्मयं जनयन् देहप्रभाभिस्सर्वेषां तेजांसि तिरयन्नैशान कल्पात्सङ्गमाख्योऽमरः समागत्य पुनः प्रत्यगात् । गते च तस्मिन् देवाः शक्रं पप्रच्छुः अस्य लोकोत्तरं तेजोऽनुपमं रूपं च कथम् ?" । ततः शक्रोऽवदत्-" प्राग्जन्म - न्येतेनाऽऽचामाम्लवर्धमानं तपः कृतम्, तेनाऽस्येत्थं रूपतेजसी" । ततः पुनः - " जगत्त्रये किं कोऽप्यन्योऽपीदृशः ?" इत्यमरैः पृष्टः शक्रोऽब्रवीत् - " राज्ञः सनत्कुमारस्य यद्रूपं तदन्यत्र देवेषु मनुष्येषु च न ।" ततस्तद्रूपस्यैवं प्रशंसामश्रद्दधानौ विजयो वैजयन्तश्च द्वौ सुरौ पृथिव्यामवतीर्य रूपान्वेषणार्थं विप्ररूपेण नृपतेः प्रासादद्वारि द्वाःस्थसन्निधौ तस्थतुः । तदानीं च सनत्कुमारोऽपि मुक्तनिःशेषनेपथ्यः सर्वाङ्गाऽभ्यङ्गमुद्वहन् प्रारब्धमजन आसीद् विज्ञप्य द्वारपालेन निवेशितौ च तौ विप्रौ सनत्कुमारमालोक्य सुविस्मितौ शक्रोक्तं तथैवेति चिन्तयन्तौ " किं निमित्तमिहागतौ” इति सनत्कुमारेण पृष्टावूचतुः - "राजन् ! भुवने भवतो रूपं लोकोत्तरचमत्कारकं गीयते । दूरतोऽपि तदाकर्ण्य कौतुकाद्विलो -
Jain Educatimational
For Personal & Private Use Only
॥ ३७५
helibrary.org