________________
"श्री चक्कवट्टिस्स
कहा"
। श्रीसनकुमार चक्रवर्तिचरितम्"
कन्याः पर्यणैषीत् । तत्प्रभृति च विद्याधरैः परिवृतो मदादिकाभिस्ताभिः सर्वाभिः कन्यकाभिः सुखं रममाणो यथेच्छ विषयसुखमनुभवन् तव सखा कालमनैषीत् । अधुना च क्रीडानिमित्तमेव हागतस्त्वया मिलितः।
एवमुक्तवत्यां वकुलमत्यां रतिनिकेतनान्निर्गतः सनत्कुमारो महेन्द्रसिंहेन विद्याधरैश्च परिवृतो वैताढयाद्रिमगात् । यथासुखं कालं गमयंश्चैकदा महेन्द्रसिंहेन विज्ञापित:-"तवाऽनया महद्धर्था मम मनो नितरां मोदते । किन्तु त्वद्वियोगात्तौ पितरौ त्वां स्मारं स्मारं विषीदतः । तत्प्रसीद, हस्तिनापुरं नगरमभिगच्छावः।" तेन सख्या तथाऽभिहितः सोऽपि सोत्कण्ठो बलयुतैविद्याधराऽधिपशतैः परिवृतः समित्रः सकलत्रश्च सनत्कुमारो हस्तिनापुरं प्राप । तत्र च वियोगात्तौ पितरौ पौरांश्च निजदर्शनात्समानन्दयत् । ततोऽश्वसेननृपः स्वे राज्ये सनत्कुमारं तत्सेनाऽधिपत्ये च महेन्द्रसिंह निधाय श्रीमद्धर्मतीर्थकृतीर्थे स्थविराणामन्तिके परिव्रज्यां समादाय स्वार्थमसाधयत् । ___इतश्च सनत्कुमारस्य राज्यं परिपालयतः सतश्चतुर्दशचक्रादीनि महारत्नान्यजायन्त । ततः स चक्रमार्गाऽनुगः स्वयं षट्खण्डं भरतक्षेत्रं नैसर्यादीनिधींश्च दशभिवषेसहस्रः साधयित्वा हस्तिनापुरं प्राविशत् । तं च नगरे प्रविशन्तमवधिज्ञानतः शक्रः सौहृदात्स्वमिव वीक्षाश्चक्रे । ततः पूर्वजन्मन्यसौ मे बान्धव इति स्नेहवशाच्छको नगरं प्रविशतः सनत्कुमारस्याऽभिषेको विधीयतामिति कुबेरं समादिशत् । हारं शशिमालामातपत्रं चामरे मुकुटं कुण्डलयुगं देवदूष्यद्वयीं सिंहासनपादुके पादपीठं च शक्रः सनत्कुमारार्थं कुबेरस्य समार्पयत् । तिलोत्तमानारदादींश्च तदभिषेकाय समादिशश्च । ततः कुबेरस्तैः साधं हस्तिनापुरमेत्य सनत्कुमाराय शक्रादेशं निवेद्य तदनुज्ञात एकयोजनं माणिक्यपीठं
KXXXXXXXXXXXXXXXXXXXXX
KXXXXXXXXXXX
॥३६॥
Jain Educa
t ional
For Personal & Private Use Only
W
h elibrary.org