SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥३५॥ XXXXXXXXXXXXXXX । चन्द्रवेगभानुवेगौ चाऽपि साहाय्याय वायुवेगिभिर्वाहनैरागतावेव विद्धि" तदानीमेव च तौ चन्द्रवेगभानुवेगौ महा सैन्यौ समेयतुः । तदा चाऽशनिवेगस्य समागच्छतः सैन्यसमूहैस्तुमुलम् उत्तस्थे । तदा च सन्ध्वयावलिरायपुत्राय प्रज्ञप्तिको नाम विद्यामदत्त । आर्यपुत्रोऽपि च सब्रह्य तं रथं समारुह्य च रणायोत्कण्ठितस्तस्थौ । चन्द्रवेगादयश्च विद्याधराः सनत्कुमारं परिवृत्य तस्थुः। अथाऽशनिवेगस्य सैनिका 'गृह्णीत गृह्णीत हत हते' ति भाषमाणा अतिवेगेनाऽऽगमन । ततश्चोभयोः सैन्यास्ताम्रचूडा इवोत्पत्त्योत्पच्याऽमर्षात्प्रहारिणोऽयुध्यन्त । चिरं च शस्त्राशस्त्रि-दण्डादण्डि-बाहूबाहवि-युद्धा द्वयोरपि सैन्येषु भग्नेषु रथेनानिलवेगिनाऽशनिवेगः समुत्थाय परानुच्चैराक्षिपन् धनुरधिज्यं विदधे । आर्यपुत्रोऽपि च तथैव तमधिक्षिपन् साधिज्यं धनुर्व्यधात् । ततो द्वयोरपि महौजसोः शराशरि-शस्त्राशस्त्रियुद्धे प्रवृत्ते धावतोऽशनिवेगस्य भुजार्धमार्यपुत्रः खड्गेन चकर्त्त । तादृशोऽपि च सोऽशनिवेगः क्रोधाद्धावमानः प्रहत्तुं प्रायतत । तत आयपुत्रो विद्यार्पितेन चक्रेण तस्य शिरश्चिच्छेद । तथाऽशनिवेगस्य राज्यलक्ष्मी वशीकृत्य चन्द्रवेगादिभिः समं वैताढयं गिरिं जगाम । तत्र चार्यपुत्रस्य विद्याधरेन्द्रविद्याधरमहाराज्याभिषेक कृतः। स चार्यपुत्रः शाश्वताहत्प्रतिमानामाष्टाह्निकोत्सवं चकार। अन्येद्यश्च मम पिता चन्द्रवेग आर्यपुत्रं सप्रश्रयमवदत्-"एकदा पुरा मया कोऽपि ज्ञानरत्नाकरो मुनिष्टः पृष्टश्च मां शिष्टवान-तव वकुलमतिप्रमुखं कन्याशतं चतुर्थश्चक्री सनत्कुमारः परिणेष्यति । ततश्च तच्चिन्ताग्रस्ते मयि सत्यां भाग्यात्तषसखा इह समागतः। तत्प्रसीद, अमः कन्याः परिणय" । ततश्चैवं मम पित्रा प्रार्थितस्तव सहन्मदादिकाः शतं |॥३५॥ For Persons & Private Use Only ory.org Jan Educato
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy