SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ चक्कट्टिस्स कहा" ॥४२॥ "पञ्चमः श्रीशान्तिनाथचक्रवर्तीचरितम्" A XXXXXXXXXXXXXXXXXXXXXXX सम्पादय" । ततः पितुः पुत्रस्य चाऽऽचरणमन्यथा दृष्ट्वा सत्यभामाकुलीनत्वमधिकमाशशङ्क।चरितैश्च श्वशुरं कुलीनं ज्ञात्वा जनकवदाराधयित्वा ब्रह्महत्याशपथं दत्त्वा रहसि "अयं तव सूनुः शुद्धपक्षद्वयोद्भवोऽन्यथा वेग ति पप्रच्छ । ततो धरणीजट: सर्व यथातथं समाचख्यौ।। अथ कपिलेन विसृष्टो धरणीजटः पुनरेव निजं ग्रामं जगाम । सत्यभामाऽपि च गत्वा श्रीषेणं व्यजिज्ञपत्"ममाऽयं दैववशादकुलीनो भर्ताऽभवत् । ततो मामस्मान्मोचय । अनेन मुक्ता सती च सुकृतमाचरिष्ये" । ततः श्रीषेणोऽपि कपिलमाहूय "धर्माचरणार्थं सत्यभामेयं त्वया मुच्यताम् । विरक्तायामस्यां तव वैषयिकं सुखं कीदृग्भवेत् ?" इति बोधयामास । कपिलश्च "क्षणमप्यनया विना प्राणान् धतुं नाऽलमस्मि, तत इमां पाणिगृहीती कथश्चनापि न त्यजामि, त्यजनं त्याजनं वा गणिकास्वेव युज्यते" इत्युवाच । ततः क्रद्धा सत्यभामोचे-"यदि मामेष न त्यजति, तदा जले ज्वलने वा प्रवेक्ष्यामि" । ततो राजोवाच-असौ प्राणान् मा त्याक्षीदिति मम गृह एव ते प्रिया कतिचिद्दिनानि तिष्ठतु" । एवमस्त्विति कपिलेनोक्ते च राज्ञा राज्यै समर्पिता सत्यभामा विविधं तपः समाचरन्ती समवस्थिता। तस्मिन्नेव च समये कौशाम्ब्यां नगर्यो बलो नाम महाबलो नृपः श्रीमतीदेवीप्रसूता स्वसुतां श्रीकान्तां प्राप्तयौवना रूपशीलादिसमन्वितामिन्दुषेणस्य स्वयम्बरे प्रभूतयर्या प्रेषीत् । तया सहाऽऽगतामनन्तमतिका नाम वेश्या रूपोत्कृष्टामिन्दुषेणविन्दुषेणावपश्यताम् । एषा मम ममेति प्रजल्पन्तौ सामषौ तौ देवरमणाऽभिधानोद्यानमीयतः। तत्र च द्वावपि सन्नद्धौ तदर्थ वृषभाविव युयुधाते । नृपश्च तयोयुद्ध निषेधित नाऽशक्नोत् । ततो विषण्णः श्रीषणोऽभिन RRRRX ॥४२॥ Jain Educa t ional For Personal & Private Use Only Rhelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy