________________
॥४३॥*
न्दिताशिखिनन्दिताम्यां विचार्य प्राप्तकालमिदमिति ब्रुवाणस्तालपुटाख्यविषव्याप्तं कमलमाघाय क्षणाद्विपेदे। ते देव्यावपि तदेव कमलमाघ्राय तन्मार्गमन्वीयतुः। सत्यभामाऽपि च कपिलादनथे सम्भावयन्ती तदेव पद्ममाघ्राय तत्पथं गता । तथा ते चत्वारोऽपि जम्बूद्वीपोत्तरकुरुक्षेत्रे श्रीषेणाऽभिनन्दिते शिखिनन्दितासत्यभामे चेत्येवं युगलधमिणोऽभवन् , ते च तत्र पल्यत्रयाऽऽयुष्का गव्यूतित्रितयोच्छिता अनुभूताऽनुपमसुखाः सुखं कालं गमयामासुः।।
इतश्च तयोरिन्दुषेणबिन्दुषेणयोयुद्धयमानयोः सतोरेकः कोऽपि विद्याधरो विमानस्थः समेत्य तयोरन्तरे स्थित्वोवाच-"एता भगिनीमज्ञात्वा भवन्तौ द्वौ तदर्थ किं युध्येते ? । विस्तरेण मम वजनं श्रयताम् । अस्य जम्बूद्वीपस्य महाविदेहेषु सीतानद्युत्तरतटे पुष्कलावत्या विजये विद्याधरावासे वैताढथपर्वते उत्तरश्रेण्यामादित्याख्ये नगरे सुकुण्डली नाम राजा अस्ति । तस्य पत्नी चाऽजितसेना नाम कुलीनाऽस्ति । अहं तयोः पुत्रो मणिकुण्डली नामा । एकदा चाऽहं ततः स्थानान्नभोमार्गेण जिनेन्द्र वन्दितुं पुण्डरीकिणीं प्राप्तः। तत्र चाऽमितयशसं नाम जिनेश्वरं वन्दित्वा धर्मदेशनामश्रौषम् । देशनान्ते च "केन कर्मणा विद्याधरोऽहमभवमि" ति पृष्टः प्रभुरब्रवीत्-"पुष्करवरद्वीपस्य पश्चिमार्धे शीतोदाया महानद्या दक्षिणे तटे सलिलावत्यां विजये वीतशोकाभिधानायां पुरि पुरा रूपवान् बलवांश्च रत्नध्वजाभिधश्चक्रवत्यंभूत । तस्य च कनकश्रीहेममालिन्यौ द्वे पट्टमहिण्यावभृताम् । तत्र कनकश्रीरङ्कस्थकल्पलताद्वयस्वप्नसूचिते कनकलता पद्मलते, पुन्यौ, हेममालिनी च पद्मलतास्वप्नसूचिता पद्मा नाम कन्यामसुवाताम् । ताः सर्वाश्च क्रमेण यौवनं प्राप्ताः, तत्र पद्मा भवविरक्ताऽजितसेनाऽऽर्यापादान्तिके यथाविधि परिव्रज्यामुपादत्त ।
EXXXXXXXXXXXXXXXXXXXXXXXX
*॥४३
Educat Nar!
For Persons & Private Use Only
brary.org