________________
चकवाट्टिस्स
कहा"
।
श्रीसन।
चक्रवर्तीचरितम्"
॥४४॥
___ एकदा च साऽऽर्याया अनुज्ञया पालितद्वाषष्टिचतुर्था शरीरचिन्तार्थ बहिर्गच्छन्ती राजमार्गे मदनमञ्जर्या वेश्यायाः कृते युध्यमानौ राजपुत्रौ ददर्श । तौ दृष्ट्वा च साऽचिन्तयत्-'अहो ? अस्या महान्सौभाग्यम्, यत्तत्कृते एतौ युध्येते । तन्मयाऽप्यस्य चतुर्थतपःकर्मणः प्रभावेण भवान्तरे ईदृशं सौभाग्यं भूयात् ।" एवं च निदानं कृत्वाऽन्तेऽनशनं कृत्वा निदानमनालोच्यैव मृता सौधर्मकल्पे देवी जाता। तथा कनकश्रीभवं भ्रान्त्वाऽनन्तरे दानादिकृत्वा मणिकुण्डली नाम त्वं विद्याधरोऽभूः। कनकलता पालते च भवं भ्रान्त्वा प्राग्भवेषु बहुधा दानादिधर्म विधाय श्रीषेणनृपतेः सुताविन्दुषेणबिन्दुषेणावभृताम् । पद्माजीवश्च सौधर्माच्च्युत्वा कौशाम्ब्यामनन्तमतिकाऽभिधा वेश्या जाता। तत्कृते च देवरमणे वने ताविन्दुषेणबिन्दुषेणी साम्प्रतं युध्यमानौ स्तः ।
सोऽहं श्रुतपूर्वभवो युवयोः पूर्वजन्मज्ञापनेन कृत्वा युद्धान्निवारयितुं स्नेहादिहागमम् । अहं युवयोः प्राग्भवे माता, इयं वेश्या च स्वसा । तदेवं संसारे मोहविजम्भितं बुध्येथाम् । तस्माद्रागादि दूरतः परित्यज्य निर्वाणनगरद्वारं परिव्रज्या द्रुतं श्रयताम् । ततस्तावूचतुः-"अस्माभिर्मोहाद्भगिनी भोगहेतवे किमिदमारब्धम् १ । धिग्धिक्त्वं नौ पूर्वभवे माता अस्मिन् भवे च गुरुः । येनोत्पथादस्मात्प्रबोध्य विनिवर्तितौ स्वः।" एवमुक्त्वा युद्धाद्विरम्य धर्मरुचिमुनेः पुरो राज्ञां चतुर्मिः सहस्रः समं तौ व्रतं जगृहतुः। ततो ध्यानवहिना दग्धकर्माणौ दुर्ग लोकाग्रं सरलेनैव वत्मना तौ जग्मतुः। श्रीषेणप्रमुखाश्च चत्वारो युगलिनो विपद्य प्रथमे कल्पे देवत्वं प्रपेदिरे ।
इतश्चाऽत्रैव भरते नगोत्तमे वैताढथे रथनूपूरचक्रवालाख्ये नगरे ज्वलनजटिनो विद्याधरेन्द्रस्याऽर्ककीतिः
XXXXXXXXX
*॥४४॥
Jain Educa
t
iohal
For Personal & Private Use Only
weathelibrary.org