SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥४५॥ KXXXXXXXXXXXXXXXXXXXXXX पुत्रः स्वयम्प्रभा नाम पुत्री चाभृताम् । तां च स्वयम्प्रभा पोतनपुरेश्वरः प्रजापतेः पुत्रः प्रथमो वासुदेवोऽचलाख्यबलभद्राऽनुजत्रिपृष्ठः परिणिनाय । तेन च हृष्टः स त्रिपृष्ठो ज्वलनजटिने विद्याधरश्रेणिद्वयराज्यं ददौ । अर्ककीर्तेश्च विद्याधरेन्द्रस्य मेघवनस्य पुत्री ज्योतिर्माला पत्नी बभूव । श्रीष्णजीवश्च सौधर्माच्च्युत्ता ज्योतिर्मालोदरे समवातरत् । तदानी च सा स्वप्नेऽमिततेजसं सूर्य निजमुखे प्रविशन्तं ददर्श । पूर्णे च समये पुण्यलक्षणलक्षितं सुतमसूत । पितरौ च तस्य स्वप्नानुमानेनाऽमिततेज इति नामाऽकरोत् । ज्वलनजटी च राज्येऽर्ककीर्ति निवेश्य चारणषैर्जगन्नन्दनाभिनन्दनयोः पुरः प्रावाजीत् । सत्यभामाजीवश्चाऽपि सौधर्माच्च्युत्वा ज्योतिर्मालाऽर्ककीयोः पुत्रीत्वेनोदपद्यत । गर्भस्थायां तस्यां च जननी स्वप्ने सुतारां निशामपश्यदिति तस्याः पितरौ सुतारेति नाम चक्रतुः। तथाऽभिनन्दिताजीवः सौधर्माच्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोः पुत्रत्वेनोदपद्यत । तस्मिन् गर्भस्थे च जननी स्वप्ने साभिषेकां श्रियं दृष्टवतीति पिता तस्य श्रीविजय इति नामाऽकरोत् । तथा स्वयम्प्रभाया द्वितीयोऽपि विजयभद्रनामा पुत्रोऽजायत । शिखिनन्दिताजीवश्च प्रथमकल्पतश्च्युत्वा स्वयम्प्रभात्रिपृष्ठयोज्योतिःप्रभा नाम्नी पुत्री जाता । सत्यभामापतिः कपिलश्च तियगादिषु योनिषु भवं चिरं भ्रान्त्वा चमरचश्चायां नगर्यामशनिघोषनामा विद्याधरेन्द्रोऽभूत् । अकीर्तिश्च स्वां पुत्री सुतारां त्रिपृष्ठपुत्रेण श्रीविजयेन पर्यणाययत् । त्रिपृष्ठोऽपि स्वां पुत्री ज्योतिःप्रभामकपुत्रेणाऽमिततेजसा पर्यणाययत् । _ अन्यदा रथनूपुरचक्रवालाख्ये नगरे बहिरुद्यानेऽभिनन्दनजगन्नन्दनज्वलनजटिनस्त्रयोऽपि मूर्त्तानि रत्नत्रयाणीव समवासरन् । अर्ककीर्तिश्च तज्ज्ञात्वा समेत्य नत्वा देशनां श्रुत्वा जातवैराग्योऽभिनन्दनं कृताञ्जलिरूचे-" ताव ॥४५॥ Jain Educat i onal For Personal & Private Use Only Eastelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy