SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ * चकवट्टिस्स "पश्चमः XXXXXXXX श्रीशान्ति नाथ चक्रवर्तिचरितम्" KXXXXXXXXXXXXXXXXXXXXXXXX प्रतीक्षस्व, यावदमिततेजसं निजराज्ये निवेश्य व्रतग्रहणार्थमहमागच्छामि।। प्रमादो न विधातव्य इति मुनिना शिष्टश्च स धामाऽऽगत्याऽमिततेजसं साग्रहं राज्ये निवेश्य तेन कृतनिष्क्रमणोत्सवोऽभिनन्दनमुनेः पुरः परिव्रज्यामुपादत्त । ततोऽक कीर्तिर्गरुजनेन समं व्रतं पालयन् भुवं विजहार । तेजस्थ्यमिततेजा अपि राज्यं शशास। इतश्च त्रिपृष्ठे कालधर्मे प्राप्ते शुचा वैराग्यमुद्हन्नचलो बलभद्रः श्रीविजयं राज्ये न्यस्य प्रवत्राज। श्रीविजयश्च पित्र्यं राज्यं नीत्या पालयामास । एकदा चाऽमिततेजाः सुताराश्रीविजययोर्दर्शनोत्कण्ठितः पोतनपुरं ययौ । पताकामञ्चतोरणादिसमन्वितं सञ्जातानन्दसाम्राज्यं तन्नगरं राजकुलं च हृष्टं वीक्ष्य विस्मितो व्योमतोऽवातरत् । जयश्च दुरात्तं दृष्टाऽभ्युत्तस्थौ । ततः परस्परं श्वशुयौं तौ स्वसृपती च मिथो गाढं प्रीत्या सस्वजाते। ततस्तौ द्वावपि महार्हसिंहासने निषेदतुः। ततोऽमिततेजाः अत्र पुरे महोत्सवस्याऽधुना को हेतुरित्यपृच्छत् ततः श्रीविजयोऽवोचत्"इतः प्रागष्टमे दिने एको नैमित्तिक इहागात् । मया सादरमागमन हेतुं पृष्टश्च स जगाद-अस्मादः सप्तमेऽह्नि मध्याहसमयेऽशनिध्वनन् पोतनपुरेश्वरस्योपरि पतिष्यति, तदेतत्सूचयितुमहमागतोऽस्मि । सचिवं च तेन वचसा कुपितं दृष्टा पुनस्सोऽवोचव सचिव ! मह्यमा कुपः, एतच्छास्त्रदृष्टं वच्मि । तस्मिन् दिने मयि पुनर्वसुधारेव वस्त्राभरणादिवृष्टिः पतिष्यति । ततो मया सचिवोऽभिहितः अस्मै महामतये मा कुप्य । यतो यथार्थकथनादयमुपकारी। किन्तु तं पच्छ यदयं निमित्तं कुतः शिक्षितवानस्ति ? ततो नैमित्तिकोऽवोचत्-परिव्रज्यां गृह्णता बलदेवेन सह शाण्डिल्यो नाम मे पिताऽपि परिव्रजितवान् । तदनु *॥४६॥ For Personal & Private Use Only wwsanelibrary.org Jain Education rational
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy