SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ XXXXXXXXXXXXXXXXXXXXXXXXX मरीचिरूचे-"इह धर्मो नास्ति, धर्मार्थी चेत्स्वामिनं श्रय" । स स्वामिपावं जगाम । पुनस्तथैव धर्म च शुश्राव । स च स्वकर्मपिताय तस्मै नाऽरुचत् । स पुनमरीचिमुपाययौ। मरीचिमपृच्छच्च-"किं तव कोऽपि धर्मो नास्ति, किं व्रतं निधर्म भवेत् ?" तदा मरीचिरीचिन्तयत्-"देवादयं कोऽपि ममाऽनुरूपो जातः, असहायस्य ममायं सहायोऽस्तु" । एवं विचिन्त्य तत्रापि धर्मोऽस्ति, अत्रापि धर्मोऽस्ती "त्युदतरत् । तेनैकेन दुर्भाषितेन च सोऽब्धिकोटीकोटिमानं भवमुपार्जयत् । तथा स कपिलं दीक्षयित्वा स्वसहायं चकार । ततः प्रभृति परिव्राजकपाखण्डं प्रावतत। एकदा भरतचक्रिणा पञ्चभिः शकटशतैराहारमानाय्य स्वानुजान्न्यमन्त्रयत । स्वामिना प्रोक्तं, "आधाकर्माहतं वस्तु यतीनां न कल्पते" इति निषिद्धश्चक्री पुनरकृताऽकारितेनऽन्नेन तान्न्यमन्त्रयत । "राजपिण्डो महर्षिणां न कल्पते” इति पुनः स्वामिनो निषिद्धो भरतो भृशमनुतप्तवान् । ततो विलक्षं भरतमनुलक्ष्य शक्रः-"कतिविधाऽवग्रहः स्यादि' ति प्रभुं पप्रच्छ । “इन्द्रं चक्रि-नृपा-ऽगारि-साधु-सम्बन्धभेदात्पञ्चधाऽवग्रहः" तेषूत्तरोत्तरो बलवानि ति प्रभुणा कथितश्च स, “ये साधवो विहरन्ति ममाऽवग्रहे, तेषां ममाऽवग्रहमनुजानामि इत्येवमुदित्वा, प्रभुं नत्वाऽवस्थितः । ततो भरतोऽपि “एभिर्यद्यपि मदीयमन्नादि नाप्यवग्रहाऽनुज्ञया कृतकृत्यः स्यामि" ति विचार्य स्वामिनोऽग्रे स्वमवग्रहमन्वजिज्ञपत् , "मयाऽमुना भक्तपानादिनाऽधुना कि कामि" ति वासवमपृच्छच्च । “गुणोत्तरेभ्यो दातव्यमि" ति शक्रेणोत्तरिते "श्रावका विरताऽविरता गुणोत्तरा" इति तेम्यो देयमिति निश्चित्य वासवस्य भास्वदा कृतिक रूपं दृष्टा विस्मितः पप्रच्छ "किं स्वर्गेऽपीदृशेन रुपेण तिष्ठथ, रुपान्तरेण वा"। ततो देवराजोऽब्रवीत “राजन् ! ॥१५॥ Jain Education M ww.hilibrary.org For Personal & Private Use Only ontal
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy