SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ "श्री चक्क हिस्स कहा" ॥ १६ ॥ स्वर्गे न तद्रूपं मम । तत्रत्यं रूपं मत्यैदृष्टु ं न पार्यते” । ततो भरतः पुनरप्यूचे - " तव तद्रूप दर्शन कौतुकं मेऽस्ति, तद्दर्शनेन मां प्रीणय" । ततः शक्रोऽब्रवीत् -"स्त्रमुत्तमः पुमानसि, तत एकमङ्गावयवं दर्शयिष्यामि " । तदनन्तरं स योग्याऽलङ्कारयुक्त स्वाङ्गुलीं दर्शयामास । तद् दृष्ट्वा च भरतो नितरां मुमुदे । ततः शक्रो भरतश्च भगवन्तं प्रणम्य स्वस्वस्थानके गतौ । भरतेन रत्नमयीं शक्राङ्गुलीं न्यस्याष्टाह्निकां चकार । ततः प्रभृतीन्द्रोत्सवः प्रारब्धो लोकैरद्यापि प्रवर्त्तते । _ अथ भरतः श्रावकान् समाहूय " मदीये गृहे प्रतिदिनं भवद्भिर्भोक्तव्यम्, कृष्यादि न विधेयम्, अन्वहं स्वाध्यायतत्परैः स्थातव्यम्, भुक्त्वा च मत्समीपमागत्य सर्वदा “जितोभवान् वर्धते भीस्तस्मान्मा हन मा हने' ति पठनीयमित्युक्तवान् । ते च तथा स्वीकृत्य तद्गृहे प्रतिदिनं भुञ्जन्ति स्म, तद्वचश्च स्वाध्यायमित्र पठन्ति स्म । भरतश्च प्रतिदिनं तच्शब्दं शृण्वन्नेकदाऽचिन्तयत् - " कषायैर्जितोऽस्मि, तेभ्य एव मम मयं वर्धते । अतः प्राणिनो मायाम् । विवेकिनो नित्यमेव स्मारयन्ति, तथापि प्रमादिनो मम धर्मे औदासीन्यंधिक" । इत्थं चिन्तया च तस्य क्षणं धर्मध्यानं प्रावर्त्तत । किन्तु स भोगफलस्य कर्मणोऽन्यथा कर्त्तुमनीश्वरत्वाद् भूयोऽपि विषयाऽसक्तो जातः । भरतः काकिणीरत्ने न श्रावकान् रेखात्रयं शुद्धिलक्षणं विदधे । ते “जितो भवानि" त्याद्युच्चैः पठन्त 'माहना' इति प्रख्याता जाताः । तथा तेषां स्वाध्यायाऽर्थमर्हत्स्तुति मुनिश्राद्धसामाचारीसहितानार्यान् वेदान् चक्री विदधे । कालक्रमेण ते माहना ब्राह्मणा इति विश्रुता बभूवुः । काकिणीरेखाश्च तेषां यज्ञोपवीततां प्रापुः । Jain Educationational For Personal & Private Use Only " प्रथमः श्रीभरत चक्रवर्ती | चरितम्" *** ॥ १६ ॥ elibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy